001 सञ्जय उवाच 001a अथाब्रवीद्वासुदेवो रथस्थो राधेय दिष्ट्या स्मरसीह धर्मम् 001c प्रायेण नीचा व्यसनेषु मग्ना निन्दन्ति दैवं कुकृतं न तत्तत् 002a यद्द्रौपदीमेकवस्त्रां सभायामानाय्य त्वं चैव सुयोधनश्च 002c दुःशासनः शकुनिः सौबलश्च न ते कर्ण प्रत्यभात्तत्र धर्मः 003a यदा सभायां कौन्तेयमनक्षज्ञं युधिष्ठिरम् 003c अक्षज्ञः शकुनिर्जेता तदा धर्मः क्व ते गतः 004a यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् 004c सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः 005a राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम् 005c गान्धारराजमाश्रित्य क्व ते धर्मस्तदा गतः 006a एवमुक्ते तु राधेये वासुदेवेन पाण्डवम् 006c मन्युरभ्याविशत्तीव्रः स्मृत्वा तत्तद्धनञ्जयम् 007a तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः 007c प्रादुरासन्महाराज तदद्भुतमिवाभवत् 008a तं समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम् 008c अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने 008e तदस्त्रमस्त्रेणावार्य प्रजहारास्य पाण्डवः 009a ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः 009c मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल वै भृशम् 010a वारुणेन ततः कर्णः शमयामास पावकम् 010c जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः 011a पाण्डवेयस्त्वसम्भ्रान्तो वायव्यास्त्रेण वीर्यवान् 011c अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः 012a तं हस्तिकक्ष्याप्रवरं च बाणैः सुवर्णमुक्तामणिवज्रमृष्टम् 012c कालप्रयत्नोत्तमशिल्पियत्नैः कृतं सुरूपं वितमस्कमुच्चैः 013a ऊर्जस्करं तव सैन्यस्य नित्यममित्रवित्रासनमीड्यरूपम् 013c विख्यातमादित्यसमस्य लोके त्विषा समं पावकभानुचन्द्रैः 014a ततः क्षुरेणाधिरथेः किरीटी सुवर्णपुङ्खेन शितेन यत्तः 014c श्रिया ज्वलन्तं ध्वजमुन्ममाथ महारथस्याधिरथेर्महात्मा 015a यशश्च धर्मश्च जयश्च मारिष प्रियाणि सर्वाणि च तेन केतुना 015c तदा कुरूणां हृदयानि चापतन्बभूव हाहेति च निस्वनो महान् 016a अथ त्वरन्कर्णवधाय पाण्डवो महेन्द्रवज्रानलदण्डसन्निभम् 016c आदत्त पार्थोऽञ्जलिकं निषङ्गात्सहस्ररश्मेरिव रश्मिमुत्तमम् 017a मर्मच्छिदं शोणितमांसदिग्धं वैश्वानरार्कप्रतिमं महार्हम् 017c नराश्वनागासुहरं त्र्यरत्निं षड्वाजमञ्जोगतिमुग्रवेगम् 018a सहस्रनेत्राशनितुल्यतेजसं समानक्रव्यादमिवातिदुःसहम् 018c पिनाकनारायणचक्रसन्निभं भयङ्करं प्राणभृतां विनाशनम् 019a युक्त्वा महास्त्रेण परेण मन्त्रविद्विकृष्य गाण्डीवमुवाच सस्वनम् 019c अयं महास्त्रोऽप्रतिमो धृतः शरः शरीरभिच्चासुहरश्च दुर्हृदः 020a तपोऽस्ति तप्तं गुरवश्च तोषिता मया यदिष्टं सुहृदां तथा श्रुतम् 020c अनेन सत्येन निहन्त्वयं शरः सुदंशितः कर्णमरिं ममाजितः 021a इत्यूचिवांस्तं स मुमोच बाणं धनञ्जयः कर्णवधाय घोरम् 021c कृत्यामथर्वाङ्गिरसीमिवोग्रां दीप्तामसह्यां युधि मृत्युनापि 022a ब्रुवन्किरीटी तमतिप्रहृष्टो अयं शरो मे विजयावहोऽस्तु 022c जिघांसुरर्केन्दुसमप्रभावः कर्णं समाप्तिं नयतां यमाय 023a तेनेषुवर्येण किरीटमाली प्रहृष्टरूपो विजयावहेन 023c जिघांसुरर्केन्दुसमप्रभेण चक्रे विषक्तं रिपुमाततायी 024a तदुद्यतादित्यसमानवर्चसं शरन्नभोमध्यगभास्करोपमम् 024c वराङ्गमुर्व्यामपतच्चमूपतेर्दिवाकरोऽस्तादिव रक्तमण्डलः 025a तदस्य देही सततं सुखोदितं स्वरूपमत्यर्थमुदारकर्मणः 025c परेण कृच्छ्रेण शरीरमत्यजद्गृहं महर्द्धीव ससङ्गमीश्वरः 026a शरैर्विभुग्नं व्यसु तद्विवर्मणः पपात कर्णस्य शरीरमुच्छ्रितम् 026c स्रवद्व्रणं गैरिकतोयविस्रवं गिरेर्यथा वज्रहतं शिरस्तथा 027a देहात्तु कर्णस्य निपातितस्य तेजो दीप्तं खं विगाह्याचिरेण 027c तदद्भुतं सर्वमनुष्ययोधाः पश्यन्ति राजन्निहते स्म कर्णे 028a तं सोमकाः प्रेक्ष्य हतं शयानं प्रीता नादं सह सैन्यैरकुर्वन् 028c तूर्याणि चाजघ्नुरतीव हृष्टा वासांसि चैवादुधुवुर्भुजांश्च 028e बलान्विताश्चाप्यपरे ह्यनृत्यन्नन्योन्यमाश्लिष्य नदन्त ऊचुः 029a दृष्ट्वा तु कर्णं भुवि निष्टनन्तं हतं रथात्सायकेनावभिन्नम् 029c महानिलेनाग्निमिवापविद्धं; यज्ञावसाने शयने निशान्ते 030a शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः 030c विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान् 031a प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः 031c बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः 032a अस्तं गच्छन्यथादित्यः प्रभामादाय गच्छति 032c एवं जीवितमादाय कर्णस्येषुर्जगाम ह 033a अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष 033c छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः 034a उपर्युपरि सैन्यानां तस्य शत्रोस्तदञ्जसा 034c शिरः कर्णस्य सोत्सेधमिषुः सोऽपाहरद्द्रुतम् 035 सञ्जय उवाच 035a कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् 035c दृष्ट्वा शयानं भुवि मद्रराजश्छिन्नध्वजेनापययौ रथेन 036a कर्णे हते कुरवः प्राद्रवन्त भयार्दिता गाढविद्धाश्च सङ्ख्ये 036c अवेक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं वपुषा ज्वलन्तम् 037a सहस्रनेत्रप्रतिमानकर्मणः सहस्रपत्रप्रतिमाननं शुभम् 037c सहस्ररश्मिर्दिनसङ्क्षये यथा तथापतत्तस्य शिरो वसुन्धराम्