001 सञ्जय उवाच 001a ततोऽपयाताः शरपातमात्रमवस्थिताः कुरवो भिन्नसेनाः 001c विद्युत्प्रकाशं ददृशुः समन्ताद्धनञ्जयास्त्रं समुदीर्यमाणम् 002a तदर्जुनास्त्रं ग्रसते स्म वीरान्वियत्तथाकाशमनन्तघोषम् 002c क्रुद्धेन पार्थेन तदाशु सृष्टं वधाय कर्णस्य महाविमर्दे 003a रामादुपात्तेन महामहिम्ना आथर्वणेनारिविनाशनेन 003c तदर्जुनास्त्रं व्यधमद्दहन्तं पार्थं च बाणैर्निशितैर्निजघ्ने 004a ततो विमर्दः सुमहान्बभूव तस्यार्जुनस्याधिरथेश्च राजन् 004c अन्योन्यमासादयतोः पृषत्कैर्विषाणघातैर्द्विपयोरिवोग्रैः 005a ततो रिपुघ्नं समधत्त कर्णः सुसंशितं सर्पमुखं ज्वलन्तम् 005c रौद्रं शरं संयति सुप्रधौतं पार्थार्थमत्यर्थचिराय गुप्तम् 006a सदार्चितं चन्दनचूर्णशायिनं सुवर्णनालीशयनं महाविषम् 006c प्रदीप्तमैरावतवंशसम्भवं शिरो जिहीर्षुर्युधि फल्गुनस्य 007a तमब्रवीन्मद्रराजो महात्मा वैकर्तनं प्रेक्ष्य हि संहितेषुम् 007c न कर्ण ग्रीवामिषुरेष प्राप्स्यते संलक्ष्य सन्धत्स्व शरं शिरोघ्नम् 008a अथाब्रवीत्क्रोधसंरक्तनेत्रः कर्णः शल्यं सन्धितेषुः प्रसह्य 008c न सन्धत्ते द्विः शरं शल्य कर्णो न मादृशाः शाठ्ययुक्ता भवन्ति 009a तथैवमुक्त्वा विससर्ज तं शरं बलाहकं वर्षघनाभिपूजितम् 009c हतोऽसि वै फल्गुन इत्यवोचत्ततस्त्वरन्नूर्जितमुत्ससर्ज 010a सन्धीयमानं भुजगं दृष्ट्वा कर्णेन माधवः 010c आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः 011a अवगाढे रथे भूमौ जानुभ्यामगमन्हयाः 011c ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः 012a अथार्जुनस्योत्तमगात्रभूषणं धरावियद्द्योसलिलेषु विश्रुतम् 012c बलास्त्रसर्गोत्तमयत्नमन्युभिः शरेण मूर्ध्नः स जहार सूतजः 013a दिवाकरेन्दुज्वलनग्रहत्विषं सुवर्णमुक्तामणिजालभूषितम् 013c पुरन्दरार्थं तपसा प्रयत्नतः स्वयं कृतं यद्भुवनस्य सूनुना 014a महार्हरूपं द्विषतां भयङ्करं विभाति चात्यर्थसुखं सुगन्धि तत् 014c निजघ्नुषे देवरिपून्सुरेश्वरः स्वयं ददौ यत्सुमनाः किरीटिने 015a हराम्बुपाखण्डलवित्तगोप्तृभिः पिनाकपाशाशनिसायकोत्तमैः 015c सुरोत्तमैरप्यविषह्यमर्दितुं प्रसह्य नागेन जहार यद्वृषः 016a तदुत्तमेषून्मथितं विषाग्निना प्रदीप्तमर्चिष्मदभिक्षिति प्रियम् 016c पपात पार्थस्य किरीटमुत्तमं दिवाकरोऽस्तादिव पर्वताज्ज्वलन् 017a ततः किरीटं बहुरत्नमण्डितं जहार नागोऽर्जुनमूर्धतो बलात् 017c गिरेः सुजाताङ्कुरपुष्पितद्रुमं महेन्द्रवज्रः शिखरं यथोत्तमम् 018a मही वियद्द्यौः सलिलानि वायुना यथा विभिन्नानि विभान्ति भारत 018c तथैव शब्दो भुवनेष्वभूत्तदा जना व्यवस्यन्व्यथिताश्च चस्खलुः 019a ततः समुद्ग्रथ्य सितेन वाससा स्वमूर्धजानव्यथितः स्थितोऽर्जुनः 019c विभाति सम्पूर्णमरीचिभास्वता शिरोगतेनोदयपर्वतो यथा 020a बलाहकः कर्णभुजेरितस्ततो हुताशनार्कप्रतिमद्युतिर्महान् 020c महोरगः कृतवैरोऽर्जुनेन किरीटमासाद्य समुत्पपात 021a तमब्रवीद्विद्धि कृतागसं मे कृष्णाद्य मातुर्वधजातवैरम् 021c ततः कृष्णः पार्थमुवाच सङ्ख्ये महोरगं कृतवैरं जहि त्वम् 022a स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा रिपुषूग्रधन्वा 022c उवाच को न्वेष ममाद्य नागः स्वयं य आगाद्गरुडस्य वक्त्रम् 023 कृष्ण उवाच 023a योऽसौ त्वया खाण्डवे चित्रभानुं सन्तर्पयानेन धनुर्धरेण 023c वियद्गतो बाणनिकृत्तदेहो ह्यनेकरूपो निहतास्य माता 024a ततस्तु जिष्णुः परिहृत्य शेषांश्चिच्छेद षड्भिर्निशितैः सुधारैः 024c नागं वियत्तिर्यगिवोत्पतन्तं स छिन्नगात्रो निपपात भूमौ 025a तस्मिन्मुहूर्ते दशभिः पृषत्कैः शिलाशितैर्बर्हिणवाजितैश्च 025c विव्याध कर्णः पुरुषप्रवीरं धनञ्जयं तिर्यगवेक्षमाणम् 026a ततोऽर्जुनो द्वादशभिर्विमुक्तैराकर्णमुक्तैर्निशितैः समर्प्य 026c नाराचमाशीविषतुल्यवेगमाकर्णपूर्णायतमुत्ससर्ज 027a स चित्रवर्मेषुवरो विदार्य प्राणान्निरस्यन्निव साधु मुक्तः 027c कर्णस्य पीत्वा रुधिरं विवेश वसुन्धरां शोणितवाजदिग्धः 028a ततो वृषो बाणनिपातकोपितो महोरगो दण्डविघट्टितो यथा 028c तथाशुकारी व्यसृजच्छरोत्तमान्महाविषः सर्प इवोत्तमं विषम् 029a जनार्दनं द्वादशभिः पराभिनन्नवैर्नवत्या च शरैस्तथार्जुनम् 029c शरेण घोरेण पुनश्च पाण्डवं विभिद्य कर्णोऽभ्यनदज्जहास च 030a तमस्य हर्षं ममृषे न पाण्डवो बिभेद मर्माणि ततोऽस्य मर्मवित् 030c परं शरैः पत्रिभिरिन्द्रविक्रमस्तथा यथेन्द्रो बलमोजसाहनत् 031a ततः शराणां नवतीर्नवार्जुनः ससर्ज कर्णेऽन्तकदण्डसन्निभाः 031c शरैर्भृशायस्ततनुः प्रविव्यथे तथा यथा वज्रविदारितोऽचलः 032a मणिप्रवेकोत्तमवज्रहाटकैरलङ्कृतं चास्य वराङ्गभूषणम् 032c प्रविद्धमुर्व्यां निपपात पत्रिभिर्धनञ्जयेनोत्तमकुण्डलेऽपि च 033a महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम् 033c सुदीर्घकालेन तदस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत् 034a स तं विवर्माणमथोत्तमेषुभिः शरैश्चतुर्भिः कुपितः पराभिनत् 034c स विव्यथेऽत्यर्थमरिप्रहारितो यथातुरः पित्तकफानिलव्रणैः 035a महाधनुर्मण्डलनिःसृतैः शितैः क्रियाप्रयत्नप्रहितैर्बलेन च 035c ततक्ष कर्णं बहुभिः शरोत्तमैर्बिभेद मर्मस्वपि चार्जुनस्त्वरन् 036a दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैः शिताग्रैः 036c बभौ गिरिर्गैरिकधातुरक्तः क्षरन्प्रपातैरिव रक्तमम्भः 037a साश्वं तु कर्णं सरथं किरीटी समाचिनोद्भारत वत्सदन्तैः 037c प्रच्छादयामास दिशश्च बाणैः सर्वप्रयत्नात्तपनीयपुङ्खैः 038a स वत्सदन्तैः पृथुपीनवक्षाः समाचितः स्माधिरथिर्विभाति 038c सुपुष्पिताशोकपलाशशाल्मलिर्यथाचलः स्पन्दनचन्दनायुतः 039a शरैः शरीरे बहुधा समर्पितैर्विभाति कर्णः समरे विशाम्पते 039c महीरुहैराचितसानुकन्दरो यथा महेन्द्रः शुभकर्णिकारवान् 040a स बाणसङ्घान्धनुषा व्यवासृजन्विभाति कर्णः शरजालरश्मिवान् 040c सलोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमुखो यथा तथा 041a बाह्वन्तरादाधिरथेर्विमुक्तान्बाणान्महाहीनिव दीप्यमानान् 041c व्यध्वंसयन्नर्जुनबाहुमुक्ताः शराः समासाद्य दिशः शिताग्राः 042a ततश्चक्रमपतत्तस्य भूमौ स विह्वलः समरे सूतपुत्रः 042c घूर्णे रथे ब्राह्मणस्याभिशापाद्रामादुपात्तेऽप्रतिभाति चास्त्रे 043a अमृष्यमाणो व्यसनानि तानि हस्तौ विधुन्वन्स विगर्हमाणः 043c धर्मप्रधानानभिपाति धर्म इत्यब्रुवन्धर्मविदः सदैव 043e ममापि निम्नोऽद्य न पाति भक्तान्मन्ये न नित्यं परिपाति धर्मः 044a एवं ब्रुवन्प्रस्खलिताश्वसूतो विचाल्यमानोऽर्जुनशस्त्रपातैः 044c मर्माभिघाताच्छलितः क्रियासु पुनः पुनर्धर्ममगर्हदाजौ 045a ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे 045c हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः 046a ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान् 046c इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् 047a निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले 047c कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शयत् 048a बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् 048c ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रयत् 049a गाण्डीवं ज्यां च बाणांश्च अनुमन्त्र्य धनञ्जयः 049c असृजच्छरवर्षाणि वर्षाणीव पुरन्दरः 050a ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः 050c प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् 051a तान्कर्णस्त्वग्रतोऽभ्यस्तान्मोघांश्चक्रे महारथः 051c ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते 052a विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान् 052c ब्रह्मास्त्रमर्जुनश्चापि सम्मन्त्र्याथ प्रयोजयत् 053a छादयित्वा ततो बाणैः कर्णं प्रभ्राम्य चार्जुनः 053c तस्य कर्णः शरैः क्रुद्धश्चिच्छेद ज्यां सुतेजनैः 054a ततो ज्यामवधायान्यामनुमृज्य च पाण्डवः 054c शरैरवाकिरत्कर्णं दीप्यमानैः सहस्रशः 055a तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे 055c नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् 056a अस्त्रैरस्त्राणि राधेयः प्रत्यहन्सव्यसाचिनः 056c चक्रे चाभ्यधिकं पार्थात्स्ववीर्यं प्रतिदर्शयन् 057a ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम् 057c अभ्यस्येत्यब्रवीत्पार्थमातिष्ठास्त्रमनुत्तमम् 058a ततोऽन्यमग्निसदृशं शरं सर्पविषोपमम् 058c अश्मसारमयं दिव्यमनुमन्त्र्य धनञ्जयः 059a रौद्रमस्त्रं समादाय क्षेप्तुकामः किरीटवान् 059c ततोऽग्रसन्मही चक्रं राधेयस्य महामृधे 060a ग्रस्तचक्रस्तु राधेयः कोपादश्रूण्यवर्तयत् 060c सोऽब्रवीदर्जुनं चापि मुहूर्तं क्षम पाण्डव 061a मध्ये चक्रमवग्रस्तं दृष्ट्वा दैवादिदं मम 061c पार्थ कापुरुषाचीर्णमभिसन्धिं विवर्जय 062a प्रकीर्णकेशे विमुखे ब्राह्मणे च कृताञ्जलौ 062c शरणागते न्यस्तशस्त्रे तथा व्यसनगेऽर्जुन 063a अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा 063c न शूराः प्रहरन्त्याजौ न राज्ञे पार्थिवास्तथा 063e त्वं च शूरोऽसि कौन्तेय तस्मात्क्षम मुहूर्तकम् 064a यावच्चक्रमिदं भूमेरुद्धरामि धनञ्जय 064c न मां रथस्थो भूमिष्ठमसज्जं हन्तुमर्हसि 064e न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् 065a त्वं हि क्षत्रियदायादो महाकुलविवर्धनः 065c स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव