001 सञ्जय उवाच 001a तौ शङ्खभेरीनिनदे समृद्धे समीयतुः श्वेतहयौ नराग्र्यौ 001c वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मन्त्रिते तव पुत्रस्य राजन् 002a यथा गजौ हैमवतौ प्रभिन्नौ प्रगृह्य दन्ताविव वाशितार्थे 002c तथा समाजग्मतुरुग्रवेगौ धनञ्जयश्चाधिरथिश्च वीरौ 003a बलाहकेनेव यथा बलाहको यदृच्छया वा गिरिणा गिरिर्यथा 003c तथा धनुर्ज्यातलनेमिनिस्वनौ समीयतुस्ताविषुवर्षवर्षिणौ 004a प्रवृद्धशृङ्गद्रुमवीरुदोषधी प्रवृद्धनानाविधपर्वतौकसौ 004c यथाचलौ वा गलितौ महाबलौ तथा महास्त्रैरितरेतरं घ्नतः 005a स सन्निपातस्तु तयोर्महानभूत्सुरेशवैरोचनयोर्यथा पुरा 005c शरैर्विभुग्नाङ्गनियन्तृवाहनः सुदुःसहोऽन्यैः पटुशोणितोदकः 006a प्रभूतपद्मोत्पलमत्स्यकच्छपौ महाह्रदौ पक्षिगणानुनादितौ 006c सुसन्निकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः 007a उभौ महेन्द्रस्य समानविक्रमावुभौ महेन्द्रप्रतिमौ महारथौ 007c महेन्द्रवज्रप्रतिमैश्च सायकैर्महेन्द्रवृत्राविव सम्प्रजह्रतुः 008a सनागपत्त्यश्वरथे उभे बले विचित्रवर्णाभरणाम्बरस्रजे 008c चकम्पतुश्चोन्नमतः स्म विस्मयाद्वियद्गताश्चार्जुनकर्णसंयुगे 009a भुजाः सवज्राङ्गुलयः समुच्छ्रिताः ससिंहनादा हृषितैर्दिदृक्षुभिः 009c यदार्जुनं मत्तमिव द्विपो द्विपं समभ्ययादाधिरथिर्जिघांसया 010a अभ्यक्रोशन्सोमकास्तत्र पार्थं त्वरस्व याह्यर्जुन विध्य कर्णम् 010c छिन्ध्यस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद्धृतराष्ट्रसूनोः 011a तथास्माकं बहवस्तत्र योधाः कर्णं तदा याहि याहीत्यवोचन् 011c जह्यर्जुनं कर्ण ततः सचीराः पुनर्वनं यान्तु चिराय पार्थाः 012a ततः कर्णः प्रथमं तत्र पार्थं महेषुभिर्दशभिः पर्यविध्यत् 012c तमर्जुनः प्रत्यविध्यच्छिताग्रैः कक्षान्तरे दशभिरतीव क्रुद्धः 013a परस्परं तौ विशिखैः सुतीक्ष्णैस्ततक्षतुः सूतपुत्रोऽर्जुनश्च 013c परस्परस्यान्तरेप्सू विमर्दे सुभीममभ्याययतुः प्रहृष्टौ 014a अमृष्यमाणश्च महाविमर्दे तत्राक्रुध्यद्भीमसेनो महात्मा 014c अथाब्रवीत्पाणिना पाणिमाघ्नन्सन्दष्टौष्ठो नृत्यति वादयन्निव 014e कथं नु त्वां सूतपुत्रः किरीटिन्महेषुभिर्दशभिरविध्यदग्रे 015a यया धृत्या सर्वभूतान्यजैषीर्ग्रासं ददद्वह्नये खाण्डवे त्वम् 015c तया धृत्या सूतपुत्रं जहि त्वमहं वैनं गदया पोथयिष्ये 016a अथाब्रवीद्वासुदेवोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान् 016c अमीमृदत्सर्वथा तेऽद्य कर्णो ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् 017a स वीर किं मुह्यसि नावधीयसे नदन्त्येते कुरवः सम्प्रहृष्टाः 017c कर्णं पुरस्कृत्य विदुर्हि सर्वे त्वदस्त्रमस्त्रैर्विनिपात्यमानम् 018a यया धृत्या निहतं तामसास्त्रं युगे युगे राक्षसाश्चापि घोराः 018c दम्भोद्भवाश्चासुराश्चाहवेषु तया धृत्या त्वं जहि सूतपुत्रम् 019a अनेन वास्य क्षुरनेमिनाद्य सञ्छिन्द्धि मूर्धानमरेः प्रसह्य 019c मया निसृष्टेन सुदर्शनेन वज्रेण शक्रो नमुचेरिवारेः 020a किरातरूपी भगवान्यया च त्वया महत्या परितोषितोऽभूत् 020c तां त्वं धृतिं वीर पुनर्गृहीत्वा सहानुबन्धं जहि सूतपुत्रम् 021a ततो महीं सागरमेखलां त्वं सपत्तनां ग्रामवतीं समृद्धाम् 021c प्रयच्छ राज्ञे निहतारिसङ्घां यशश्च पार्थातुलमाप्नुहि त्वम् 022a सञ्चोदितो भीमजनार्दनाभ्यां स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् 022c महात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच 023a प्रादुष्करोम्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः 023c तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा भवो ब्रह्मविदश्च सर्वे 024a इत्यूचिवान्ब्राह्ममसह्यमस्त्रं प्रादुश्चक्रे मनसा संविधेयम् 024c ततो दिशश्च प्रदिशश्च सर्वाः समावृणोत्सायकैर्भूरितेजाः 024e ससर्ज बाणान्भरतर्षभोऽपि शतंशतानेकवदाशुवेगान् 025a वैकर्तनेनापि तथाजिमध्ये सहस्रशो बाणगणा विसृष्टाः 025c ते घोषिणः पाण्डवमभ्युपेयुः पर्जन्यमुक्ता इव वारिधाराः 026a स भीमसेनं च जनार्दनं च किरीटिनं चाप्यमनुष्यकर्मा 026c त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वरेण 027a स कर्णबाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च 027c अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ च समुद्बबर्ह 028a सुषेणमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णम् 028c ततः सुमुक्तैर्दशभिर्जघान सभापतिं काञ्चनवर्मनद्धम् 029a स राजपुत्रो विशिरा विबाहुर्विवाजिसूतो विधनुर्विकेतुः 029c ततो रथाग्रादपतत्प्रभग्नः परश्वधैः शाल इवाभिकृत्तः 030a पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा 030c चतुःशतान्द्विरदान्सायुधीयान्हत्वा रथानष्टशतं जघान 030e सहस्रमश्वांश्च पुनश्च सादीनष्टौ सहस्राणि च पत्तिवीरान् 031a दृष्ट्वाजिमुख्यावथ युध्यमानौ दिदृक्षवः शूरवरावरिघ्नौ 031c कर्णं च पार्थं च नियम्य वाहान्खस्था महीस्थाश्च जनावतस्थुः 032a ततो धनुर्ज्या सहसातिकृष्टा सुघोषमाच्छिद्यत पाण्डवस्य 032c तस्मिन्क्षणे सूतपुत्रस्तु पार्थं समाचिनोत्क्षुद्रकाणां शतेन 033a निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णैस्तैलप्रधौतैः खगपत्रवाजैः 033c षष्ट्या नाराचैर्वासुदेवं बिभेद तदन्तरं सोमकाः प्राद्रवन्त 034a ततो धनुर्ज्यामवधम्य शीघ्रं शरानस्तानाधिरथेर्विधम्य 034c सुसंरब्धः कर्णशरक्षताङ्गो रणे पार्थः सोमकान्प्रत्यगृह्णात् 034e न पक्षिणः सम्पतन्त्यन्तरिक्षे क्षेपीयसास्त्रेण कृतेऽन्धकारे 035a शल्यं च पार्थो दशभिः पृषत्कैर्भृशं तनुत्रे प्रहसन्नविध्यत् 035c ततः कर्णं द्वादशभिः सुमुक्तैर्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् 036a स पार्थबाणासनवेगनुन्नैर्दृढाहतः पत्रिभिरुग्रवेगैः 036c विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवाततेषुः 037a ततस्त्रिभिश्च त्रिदशाधिपोपमं शरैर्बिभेदाधिरथिर्धनञ्जयम् 037c शरांस्तु पञ्च ज्वलितानिवोरगान्प्रवीरयामास जिघांसुरच्युते 038a ते वर्म भित्त्वा पुरुषोत्तमस्य सुवर्णचित्रं न्यपतन्सुमुक्ताः 038c वेगेन गामाविविशुः सुवेगाः स्नात्वा च कर्णाभिमुखाः प्रतीयुः 039a तान्पञ्चभल्लैस्त्वरितैः सुमुक्तैस्त्रिधा त्रिधैकैकमथोच्चकर्त 039c धनञ्जयस्ते न्यपतन्पृथिव्यां महाहयस्तक्षकपुत्रपक्षाः 040a ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः 040c स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरान्तकरैर्ज्वलद्भिः 040e मर्मस्वविध्यत्स चचाल दुःखाद्धैर्यात्तु तस्थावतिमात्रधैर्यः 041a ततः शरौघैः प्रदिशो दिशश्च रविप्रभा कर्णरथश्च राजन् 041c अदृश्य आसीत्कुपिते धनञ्जये तुषारनीहारवृतं यथा नभः 042a स चक्ररक्षानथ पादरक्षान्पुरःसरान्पृष्ठगोपांश्च सर्वान् 042c दुर्योधनेनानुमतानरिघ्नान्समुच्चितान्सुरथान्सारभूतान् 043a द्विसाहस्रान्समरे सव्यसाची कुरुप्रवीरानृषभः कुरूणाम् 043c क्षणेन सर्वान्सरथाश्वसूतान्निनाय राजन्क्षयमेकवीरः 044a अथापलायन्त विहाय कर्णं तवात्मजाः कुरवश्चावशिष्टाः 044c हतानवाकीर्य शरक्षतांश्च लालप्यमानांस्तनयान्पितॄंश्च 045a स सर्वतः प्रेक्ष्य दिशो विशून्या भयावदीर्णैः कुरुभिर्विहीनः 045c न विव्यथे भारत तत्र कर्णः प्रतीपमेवार्जुनमभ्यधावत्