001 सञ्जय उवाच 001a तद्देवनागासुरसिद्धसङ्घैर्गन्धर्वयक्षाप्सरसां च सङ्घैः 001c ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद्विस्मयनीयरूपम् 002a नानद्यमानं निनदैर्मनोज्ञैर्वादित्रगीतस्तुतिभिश्च नृत्तैः 002c सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः खस्थांश्च तान्विस्मयनीयरूपान् 003a ततः प्रहृष्टाः कुरुपाण्डुयोधा वादित्रपत्रायुधसिंहनादैः 003c निनादयन्तो वसुधां दिशश्च स्वनेन सर्वे द्विषतो निजघ्नुः 004a नानाश्वमातङ्गरथायुताकुलं वरासिशक्त्यृष्टिनिपातदुःसहम् 004c अभीरुजुष्टं हतदेहसङ्कुलं रणाजिरं लोहितरक्तमाबभौ 005a तथा प्रवृत्तेऽस्त्रभृतां पराभवे धनञ्जयश्चाधिरथिश्च सायकैः 005c दिशश्च सैन्यं च शितैरजिह्मगैः परस्परं प्रोर्णुवतुः स्म दंशितौ 006a ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे विविदुर्न किञ्चन 006c भयात्तु तावेव रथौ समाश्रयंस्तमोनुदौ खे प्रसृता इवांशवः 007a ततोऽस्त्रमस्त्रेण परस्परस्य तौ विधूय वाताविव पूर्वपश्चिमौ 007c घनान्धकारे वितते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः 008a न चाभिमन्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तदावतस्थिरे 008c महारथौ तौ परिवार्य सर्वतः सुरासुरा वासवशम्बराविव 009a मृदङ्गभेरीपणवानकस्वनैर्निनादिते भारत शङ्खनिस्वनैः 009c ससिंहनादौ बभतुर्नरोत्तमौ शशाङ्कसूर्याविव मेघसम्प्लवे 010a महाधनुर्मण्डलमध्यगावुभौ सुवर्चसौ बाणसहस्ररश्मिनौ 010c दिधक्षमाणौ सचराचरं जगद्युगास्तसूर्याविव दुःसहौ रणे 011a उभावजेयावहितान्तकावुभौ जिघांसतुस्तौ कृतिनौ परस्परम् 011c महाहवे वीरवरौ समीयतुर्यथेन्द्रजम्भाविव कर्णपाण्डवौ 012a ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः 012c नराश्वनागानमितौ निजघ्नतुः परस्परं जघ्नतुरुत्तमेषुभिः 013a ततो विसस्रुः पुनरर्दिताः शरैर्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः 013c सनागपत्त्यश्वरथा दिशो गतास्तथा यथा सिंहभयाद्वनौकसः 014a ततस्तु दुर्योधनभोजसौबलाः कृपश्च शारद्वतसूनुना सह 014c महारथाः पञ्च धनञ्जयाच्युतौ शरैः शरीरान्तकरैरताडयन् 015a धनूंषि तेषामिषुधीन्हयान्ध्वजान्रथांश्च सूतांश्च धनञ्जयः शरैः 015c समं च चिच्छेद पराभिनच्च ताञ्शरोत्तमैर्द्वादशभिश्च सूतजम् 016a अथाभ्यधावंस्त्वरिताः शतं रथाः शतं च नागार्जुनमाततायिनः 016c शकास्तुखारा यवनाश्च सादिनः सहैव काम्बोजवरैर्जिघांसवः 017a वरायुधान्पाणिगतान्करैः सह क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च 017c हयांश्च नागांश्च रथांश्च युध्यतां धनञ्जयः शत्रुगणं तमक्षिणोत् 018a ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः ससाधुवादा हृषितैः समीरिताः 018c निपेतुरप्युत्तमपुष्पवृष्टयः सुरूपगन्धाः पवनेरिताः शिवाः 019a तदद्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिष्मियुर्नृप 019c तवात्मजः सूतसुतश्च न व्यथां न विस्मयं जग्मतुरेकनिश्चयौ 020a अथाब्रवीद्द्रोणसुतस्तवात्मजं करं करेण प्रतिपीड्य सान्त्वयन् 020c प्रसीद दुर्योधन शाम्य पाण्डवैरलं विरोधेन धिगस्तु विग्रहम् 021a हतो गुरुर्ब्रह्मसमो महास्त्रवित्तथैव भीष्मप्रमुखा नरर्षभाः 021c अहं त्ववध्यो मम चापि मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम् 022a धनञ्जयः स्थास्यति वारितो मया जनार्दनो नैव विरोधमिच्छति 022c युधिष्ठिरो भूतहिते सदा रतो वृकोदरस्तद्वशगस्तथा यमौ 023a त्वया च पार्थैश्च परस्परेण प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि 023c व्रजन्तु शेषाः स्वपुराणि पार्थिवा निवृत्तवैराश्च भवन्तु सैनिकाः 024a न चेद्वचः श्रोष्यसि मे नराधिप ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि 024c इदं च दृष्टं जगता सह त्वया कृतं यदेकेन किरीटमालिना 024e यथा न कुर्याद्बलभिन्न चान्तको न च प्रचेता भगवान्न यक्षराट् 025a अतोऽपि भूयांश्च गुणैर्धनञ्जयः स चाभिपत्स्यत्यखिलं वचो मम 025c तवानुयात्रां च तथा करिष्यति प्रसीद राजञ्जगतः शमाय वै 026a ममापि मानः परमः सदा त्वयि ब्रवीम्यतस्त्वां परमाच्च सौहृदात् 026c निवारयिष्यामि हि कर्णमप्यहं यदा भवान्सप्रणयो भविष्यति 027a वदन्ति मित्रं सहजं विचक्षणास्तथैव साम्ना च धनेन चार्जितम् 027c प्रतापतश्चोपनतं चतुर्विधं तदस्ति सर्वं त्वयि पाण्डवेषु च 028a निसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना च समाप्नुहि स्थिरम् 028c त्वयि प्रसन्ने यदि मित्रतामियुर्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर 029a स एवमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् 029c यथा भवानाह सखे तथैव तन्ममापि च ज्ञापयतो वचः शृणु 030a निहत्य दुःशासनमुक्तवान्बहु प्रसह्य शार्दूलवदेष दुर्मतिः 030c वृकोदरस्तद्धृदये मम स्थितं न तत्परोक्षं भवतः कुतः शमः 031a न चापि कर्णं गुरुपुत्र संस्तवादुपारमेत्यर्हसि वक्तुमच्युत 031c श्रमेण युक्तो महताद्य फल्गुनस्तमेष कर्णः प्रसभं हनिष्यति 032a तमेवमुक्त्वाभ्यनुनीय चासकृत्तवात्मजः स्वाननुशास्ति सैनिकान् 032c समाघ्नताभिद्रवताहितानिमान्सबाणशब्दान्किमु जोषमास्यते