001 सञ्जय उवाच 001a वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः 001c मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः 002a रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून् 002c युद्धायामर्षताम्राक्षः समाहूय धनञ्जयम् 003a तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारणौ 003c समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ 004a श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ 004c शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि 005a तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष 005c त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव 006a रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि 006c तौ रथावभिधावन्तौ समालोक्य महीक्षिताम् 007a ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत 007c हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः 008a तौ रथौ सम्प्रसक्तौ च दृष्ट्वा भारत पार्थिवाः 008c सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् 009a श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः 009c चक्रुर्बाहुवलं चैव तथा चेलवलं महत् 010a आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा 010c कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान् 011a तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम् 011c तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् 012a क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् 012c बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे 013a तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ 013c प्रगृहीतमहाचापौ शरशक्तिगदायुधौ 014a वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ 014c तूणीरवरसम्पन्नौ द्वावपि स्म सुदर्शनौ 015a रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव 015c आशीविषसमप्रख्यौ यमकालान्तकोपमौ 016a इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ 016c महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ 017a देवगर्भौ देवसमौ देवतुल्यौ च रूपतः 017c समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ 018a उभौ वरायुधधरावुभौ रणकृतश्रमौ 018c उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् 019a उभौ विश्रुतकर्माणौ पौरुषेण बलेन च 019c उभौ च सदृशौ युद्धे शम्बरामरराजयोः 020a कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ 020c विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि 021a उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ 021c सारथी प्रवरौ चैव तयोरास्तां महाबलौ 022a तौ तु दृष्ट्वा महाराज राजमानौ महारथौ 022c सिद्धचारणसङ्घानां विस्मयः समपद्यत 023a धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ 023c परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम् 024a तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः 024c परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि 025a तावकानां रणे कर्णो ग्लह आसीद्विशां पते 025c तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि 026a त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते 026c तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ 027a ताभ्यां द्यूतं समायत्तं विजयायेतराय वा 027c अस्माकं पण्डवानां च स्थितानां रणमूर्धनि 028a तौ तु स्थितौ महाराज समरे युद्धशालिनौ 028c अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ 029a तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः 029c भीमरूपधरावास्तां महाधूमाविव ग्रहौ 030a ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ 030c मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे 030e व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष 031a देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 031c प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे 032a द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशाम्पते 032c भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत 033a सरितः सागराश्चैव गिरयश्च नरोत्तम 033c वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम् 034a असुरा यातुधानाश्च गुह्यकाश्च परन्तप 034c कर्णतः समपद्यन्त खेचराणि वयांसि च 035a रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः 035c सोपवेदोपनिषदः सरहस्याः ससङ्ग्रहाः 036a वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः 036c पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः 036e विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन् 037a ऐरावताः सौरभेया वैशालेयाश्च भोगिनः 037c एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः 038a ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः 038c पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः 039a वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा 039c अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश 039e धनञ्जयमुपाजग्मुरादित्याः कर्णतोऽभवन् 040a देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन् 040c यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः 041a देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन् 041c तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः 042a प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः 042c ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः 043a उह्यमानास्तथा मेघैर्वायुना च मनीषिणः 043c दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् 044a देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः 044c महर्षयो वेदविदः पितरश्च स्वधाभुजः 045a तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः 045c अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे 046a ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च 046c भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात् 047a दृष्ट्वा प्रजापतिं देवाः स्वयम्भुवमुपागमन् 047c समोऽस्तु देव विजय एतयोर्नरसिंहयोः 048a तदुपश्रुत्य मघवा प्रणिपत्य पितामहम् 048c कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत् 049a स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः 049c तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम 050a ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम् 050c विजयो ध्रुव एवास्तु विजयस्य महात्मनः 051a मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः 051c बिभर्ति च महातेजा धनुर्वेदमशेषतः 052a अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात् 052c अतिक्रान्ते च लोकानामभावो नियतो भवेत् 053a न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित् 053c स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ 054a नरनारायणावेतौ पुराणावृषिसत्तमौ 054c अनियत्तौ नियन्तारावभीतौ स्म परन्तपौ 055a कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः 055c वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः 056a वसूनां च सलोकत्वं मरुतां वा समाप्नुयात् 056c सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम् 057a इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः 057c आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् 058a श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् 058c तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः 059a इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष 059c विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत् 060a व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा 060c पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन् 061a दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः 061c देवदानवगन्धर्वाः सर्व एवावतस्थिरे 061e रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ 062a समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक् 062c वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत 063a तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा 063c अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव 064a तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ 064c पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् 065a कर्णस्याशीविषनिभा रत्नसारवती दृढा 065c पुरन्दरधनुःप्रख्या हस्तिकक्ष्या व्यराजत 066a कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयङ्करः 066c भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा 067a युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः 067c कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन् 068a उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः 068c नखैश्च दशनैश्चैव गरुडः पन्नगं यथा 069a सुकिङ्किणीकाभरणा कालपाशोपमायसी 069c अभ्यद्रवत्सुसङ्क्रुद्धा नागकक्ष्या महाकपिम् 070a उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते 070c प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः 071a अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः 071c स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत 072a तत्राजयद्वासुदेवः शल्यं नयनसायकैः 072c कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनञ्जयः 073a अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् 073c यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् 073e किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे 074 शल्य उवाच 074a यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः 074c उभावेकरथेनाहं हन्यां माधवपाण्डवौ 075 सञ्जय उवाच 075a एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत 075c तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः 076a पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः 076c शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनञ्जयम् 077a यदि त्वेवं कथञ्चित्स्याल्लोकपर्यसनं यथा 077c हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे 078a इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः 078c अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् 078e ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन 079a सपताकाध्वजं कर्णं सशल्यरथवाजिनम् 079c सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् 080a द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा 080c अद्यैनं सरथं साश्वं सशक्तिकवचायुधम् 080e न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा 081a अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया 081c वारणेनेव मत्तेन पुष्पितं जगतीरुहम् 082a अद्य ता मधुरा वाचः श्रोतासि मधुसूदन 082c अद्याभिमन्युजननीमनृणः सान्त्वयिष्यसि 082e कुन्तीं पितृष्वसारं च सम्प्रहृष्टो जनार्दन 083a अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव 083c वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम्