001 सञ्जय उवाच 001a दुःशासने तु निहते पुत्रास्तव महारथाः 001c महाक्रोधविषा वीराः समरेष्वपलायिनः 001e दश राजन्महावीर्यो भीमं प्राच्छादयञ्शरैः 002a कवची निषङ्गी पाशी दण्डधारो धनुर्धरः 002c अलोलुपः शलः सन्धो वातवेगसुवर्चसौ 003a एते समेत्य सहिता भ्रातृव्यसनकर्शिताः 003c भीमसेनं महाबाहुं मार्गणैः समवारयन् 004a स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः 004c भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ 005a तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः 005c रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् 006a हतेषु तेषु वीरेषु प्रदुद्राव बलं तव 006c पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् 007a ततः कर्णो महाराज प्रविवेश महारणम् 007c दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव 008a तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः 008c उवाच वचनं कर्णं प्राप्तकालमरिन्दम 008e मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते 009a एते द्रवन्ति राजानो भीमसेनभयार्दिताः 009c दुर्योधनश्च सम्मूढो भ्रातृव्यसनदुःखितः 010a दुःशासनस्य रुधिरे पीयमाने महात्मना 010c व्यापन्नचेतसश्चैव शोकोपहतमन्यवः 011a दुर्योधनमुपासन्ते परिवार्य समन्ततः 011c कृपप्रभृतयः कर्ण हतशेषाश्च सोदराः 012a पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः 012c त्वामेवाभिमुखाः शूरा युद्धाय समुपास्थिताः 013a स त्वं पुरुषशार्दूल पौरुषे महति स्थितः 013c क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् 014a भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः 014c तमुद्वह महाबाहो यथाशक्ति यथाबलम् 014e जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये 015a वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव 015c त्वयि मोहसमापन्ने पाण्डवानभिधावति 016a एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः 016c हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम् 017a ततः क्रुद्धो वृषसेनोऽभ्यधावदातस्थिवांसं स्वरथं हतारिम् 017c वृकोदरं कालमिवात्तदण्डं गदाहस्तं पोथमानं त्वदीयान् 018a तमभ्यधावन्नकुलः प्रवीरो रोषादमित्रं प्रतुदन्पृषत्कैः 018c कर्णस्य पुत्रं समरे प्रहृष्टं जिष्णुर्जिघांसुर्मघवेव जम्भम् 019a ततो ध्वजं स्फाटिकचित्रकम्बुं चिच्छेद वीरो नकुलः क्षुरेण 019c कर्णात्मजस्येष्वसनं च चित्रं भल्लेन जाम्बूनदपट्टनद्धम् 020a अथान्यदादाय धनुः सुशीघ्रं कर्णात्मजः पाण्डवमभ्यविध्यत् 020c दिव्यैर्महास्त्रैर्नकुलं महास्त्रो दुःशासनस्यापचितिं यियासुः 021a ततः क्रुद्धो नकुलस्तं महात्मा शरैर्महोल्काप्रतिमैरविध्यत् 021c दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि कर्णस्य पुत्रो नकुलं कृतास्त्रः 022a कर्णस्य पुत्रो नकुलस्य राजन्सर्वानश्वानक्षिणोदुत्तमास्त्रैः 022c वनायुजान्सुकुमारस्य शुभ्रानलङ्कृताञ्जातरूपेण शीघ्रान् 023a ततो हताश्वादवरुह्य यानादादाय चर्म रुचिरं चाष्टचन्द्रम् 023c आकाशसङ्काशमसिं गृहीत्वा पोप्लूयमानः खगवच्चचार 024a ततोऽन्तरिक्षे नृवराश्वनागांश्चिच्छेद मार्गान्विचरन्विचित्रान् 024c ते प्रापतन्नसिना गां विशस्ता यथाश्वमेधे पशवः शमित्रा 025a द्विसाहस्रा विदिता युद्धशौण्डा नानादेश्याः सुभृताः सत्यसन्धाः 025c एकेन शीघ्रं नकुलेन कृत्ताः सारेप्सुनेवोत्तमचन्दनास्ते 026a तमापतन्तं नकुलं सोऽभिपत्य समन्ततः सायकैरभ्यविध्यत् 026c स तुद्यमानो नकुलः पृषत्कैर्विव्याध वीरं स चुकोप विद्धः 027a तं कर्णपुत्रो विधमन्तमेकं नराश्वमातङ्गरथप्रवेकान् 027c क्रीडन्तमष्टादशभिः पृषत्कैर्विव्याध वीरं स चुकोप विद्धः 028a ततोऽभ्यधावत्समरे जिघांसुः कर्णात्मजं पाण्डुसुतो नृवीरः 028c तस्येषुभिर्व्यधमत्कर्णपुत्रो महारणे चर्म सहस्रतारम् 029a तस्यायसं निशितं तीक्ष्णधारमसिं विकोशं गुरुभारसाहम् 029c द्विषच्छरीरापहरं सुघोरमाधुन्वतः सर्पमिवोग्ररूपम् 030a क्षिप्रं शरैः षड्भिरमित्रसाहश्चकर्त खड्गं निशितैः सुधारैः 030c पुनश्च पीतैर्निशितैः पृषत्कैः स्तनान्तरे गाढमथाभ्यविध्यत् 031a स भीमसेनस्य रथं हताश्वो माद्रीसुतः कर्णसुताभितप्तः 031c आपुप्लुवे सिंह इवाचलाग्रं सम्प्रेक्षमाणस्य धनञ्जयस्य 032a नकुलमथ विदित्वा छिन्नबाणासनासिं विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् 032c पवनधुतपताका ह्रादिनो वल्गिताश्वा वरपुरुषनियत्तास्ते रथाः शीघ्रमीयुः 033a द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः 033c द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान्भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः 034a अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तो हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च 034c शकुनिशुकवृकाश्च क्राथदेवावृधौ च; द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च 035a तव नरवरवर्यास्तान्दशैकं च वीरा;न्प्रवरशरवराग्र्यैस्ताडयन्तोऽभ्यरुन्धन् 035c नवजलदसवर्णैर्हस्तिभिस्तानुदीयुर्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः 036a सुकल्पिता हैमवता मदोत्कटा रणाभिकामैः कृतिभिः समास्थिताः 036c सुवर्णजालावतता बभुर्गजास्तथा यथा वै जलदाः सविद्युतः 037a कुणिन्दपुत्रो दशभिर्महायसैः कृपं ससूताश्वमपीडयद्भृशम् 037c ततः शरद्वत्सुतसायकैर्हतः सहैव नागेन पपात भूतले 038a कुणिन्दपुत्रावरजस्तु तोमरैर्दिवाकरांशुप्रतिमैरयस्मयैः 038c रथं च विक्षोभ्य ननाद नर्दतस्ततोऽस्य गान्धारपतिः शिरोऽहरत् 039a ततः कुणिन्देषु हतेषु तेष्वथ प्रहृष्टरूपास्तव ते महारथाः 039c भृशं प्रदध्मुर्लवणाम्बुसम्भवान्परांश्च बाणासनपाणयोऽभ्ययुः 040a अथाभवद्युद्धमतीव दारुणं पुनः कुरूणां सह पाण्डुसृञ्जयैः 040c शरासिशक्त्यृष्टिगदापरश्वधैर्नराश्वनागासुहरं भृशाकुलम् 041a रथाश्वमातङ्गपदातिभिस्ततः परस्परं विप्रहतापतन्क्षितौ 041c यथा सविद्युत्स्तनिता बलाहकाः समास्थिता दिग्भ्य इवोग्रमारुतैः 042a ततः शतानीकहतान्महागजांस्तथा रथान्पत्तिगणांश्च तावकान् 042c जघान भोजश्च हयानथापतन्विशस्त्रकृत्ताः कृतवर्मणा द्विपाः 043a अथापरे द्रौणिशराहता द्विपास्त्रयः ससर्वायुधयोधकेतवः 043c निपेतुरुर्व्यां व्यसवः प्रपातितास्तथा यथा वज्रहता महाचलाः 044a कुणिन्दराजावरजादनन्तरः स्तनान्तरे पत्रिवरैरताडयत् 044c तवात्मजं तस्य तवात्मजः शरैः शितैः शरीरं बिभिदे द्विपं च तम् 045a स नागराजः सह राजसूनुना पपात रक्तं बहु सर्वतः क्षरन् 045c शचीशवज्रप्रहतोऽम्बुदागमे यथा जलं गैरिकपर्वतस्तथा 046a कुणिन्दपुत्रप्रहितोऽपरद्विपः शुकं ससूताश्वरथं व्यपोथयत् 046c ततोऽपतत्क्राथशराभिदारितः सहेश्वरो वज्रहतो यथा गिरिः 047a रथी द्विपस्थेन हतोऽपतच्छरैः क्राथाधिपः पर्वतजेन दुर्जयः 047c सवाजिसूतेष्वसनस्तथापतद्यथा महावातहतो महाद्रुमः 048a वृको द्विपस्थं गिरिराजवासिनं भृशं शरैर्द्वादशभिः पराभिनत् 048c ततो वृकं साश्वरथं महाजवं त्वरंश्चतुर्भिश्चरणे व्यपोथयत् 049a स नागराजः सनियन्तृकोऽपतत्पराहतो बभ्रुसुतेषुभिर्भृशम् 049c स चापि देवावृधसूनुरर्दितः पपात नुन्नः सहदेवसूनुना 050a विषाणपोत्रापरगात्रघातिना गजेन हन्तुं शकुनेः कुणिन्दजः 050c जगाम वेगेन भृशार्दयंश्च तं ततोऽस्य गान्धारपतिः शिरोऽहरत् 051a ततः शतानीकहता महागजा हया रथाः पत्तिगणाश्च तावकाः 051c सुपर्णवातप्रहता यथा नगास्तथा गता गामवशा विचूर्णिताः 052a ततोऽभ्यविध्यद्बहुभिः शितैः शरैः कुणिन्दपुत्रो नकुलात्मजं स्मयन् 052c ततोऽस्य कायान्निचकर्त नाकुलिः शिरः क्षुरेणाम्बुजसन्निभाननम् 053a ततः शतानीकमविध्यदाशुगैस्त्रिभिः शितैः कर्णसुतोऽर्जुनं त्रिभिः 053c त्रिभिश्च भीमं नकुलं च सप्तभिर्जनार्दनं द्वादशभिश्च सायकैः 054a तदस्य कर्मातिमनुष्यकर्मणः समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् 054c पराक्रमज्ञास्तु धनञ्जयस्य ते हुतोऽयमग्नाविति तं तु मेनिरे 055a ततः किरीटी परवीरघाती हताश्वमालोक्य नरप्रवीरम् 055c तमभ्यधावद्वृषसेनमाहवे स सूतजस्य प्रमुखे स्थितं तदा 056a तमापतन्तं नरवीरमुग्रं महाहवे बाणसहस्रधारिणम् 056c अभ्यापतत्कर्णसुतो महारथो यथैव चेन्द्रं नमुचिः पुरातने 057a ततोऽद्भुतेनैकशतेन पार्थं शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः 057c ननाद नादं सुमहानुभावो विद्ध्वेव शक्रं नमुचिः पुरा वै 058a पुनः स पार्थं वृषसेन उग्रैर्बाणैरविध्यद्भुजमूलमध्ये 058c तथैव कृष्णं नवभिः समार्दयत्पुनश्च पार्थं दशभिः शिताग्रैः 059a ततः किरीटी रणमूर्ध्नि कोपात्कृत्वा त्रिशाखां भ्रुकुटिं ललाटे 059c मुमोच बाणान्विशिखान्महात्मा वधाय राजन्सूतपुत्रस्य सङ्ख्ये 060a विव्याध चैनं दशभिः पृषत्कै;र्मर्मस्वसक्तं प्रसभं किरीटी 060c चिच्छेद चास्येष्वसनं भुजौ च क्षुरैश्चतुर्भिः शिर एव चोग्रैः 061a स पार्थबाणाभिहतः पपात रथाद्विबाहुर्विशिरा धरायाम् 061c सुपुष्पितः पर्णधरोऽतिकायो वातेरितः शाल इवाद्रिशृङ्गात् 062a तं प्रेक्ष्य बाणाभिहतं पतन्तं रथात्सुतं सूतजः क्षिप्रकारी 062c रथं रथेनाशु जगाम वेगात्किरीटिनः पुत्रवधाभितप्तः