001 सञ्जय उवाच 001a तत्राकरोद्दुष्करं राजपुत्रो दुःशासनस्तुमुले युध्यमानः 001c चिच्छेद भीमस्य धनुः क्षुरेण षड्भिः शरैः सारथिमप्यविध्यत् 002a ततोऽभिनद्बहुभिः क्षिप्रमेव वरेषुभिर्भीमसेनं महात्मा 002c स विक्षरन्नाग इव प्रभिन्नो गदामस्मै तुमुले प्राहिणोद्वै 003a तयाहरद्दश धन्वन्तराणि दुःशासनं भीमसेनः प्रसह्य 003c तया हतः पतितो वेपमानो दुःशासनो गदया वेगवत्या 004a हयाः ससूताश्च हता नरेन्द्र चूर्णीकृतश्चास्य रथः पतन्त्या 004c विध्वस्तवर्माभरणाम्बरस्रग्विचेष्टमानो भृशवेदनार्तः 005a ततः स्मृत्वा भीमसेनस्तरस्वी सापत्नकं यत्प्रयुक्तं सुतैस्ते 005c रथादवप्लुत्य गतः स भूमौ यत्नेन तस्मिन्प्रणिधाय चक्षुः 006a असिं समुद्धृत्य शितं सुधारं कण्ठे समाक्रम्य च वेपमानम् 006c उत्कृत्य वक्षः पतितस्य भूमावथापिबच्छोणितमस्य कोष्णम् 006e आस्वाद्य चास्वाद्य च वीक्षमाणः क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् 007a स्तन्यस्य मातुर्मधुसर्पिषो वा माध्वीकपानस्य च सत्कृतस्य 007c दिव्यस्य वा तोयरसस्य पानात्पयोदधिभ्यां मथिताच्च मुख्यात् 007e सर्वेभ्य एवाभ्यधिको रसोऽयं मतो ममाद्याहितलोहितस्य 008a एवं ब्रुवाणं पुनराद्रवन्तमास्वाद्य वल्गन्तमतिप्रहृष्टम् 008c ये भीमसेनं ददृशुस्तदानीं भयेन तेऽपि व्यथिता निपेतुः 009a ये चापि तत्रापतिता मनुष्यास्तेषां करेभ्यः पतितं च शस्त्रम् 009c भयाच्च सञ्चुक्रुशुरुच्चकैस्ते निमीलिताक्षा ददृशुश्च तन्न 010a ये तत्र भीमं ददृशुः समन्ताद्दौःशासनं तद्रुधिरं पिबन्तम् 010c सर्वे पलायन्त भयाभिपन्ना नायं मनुष्य इति भाषमाणाः 011a शृण्वतां लोकवीराणामिदं वचनमब्रवीत् 011c एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम 011e ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति 012a प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् 012c दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि 013a द्यूतेन राज्यहरणमरण्ये वसतिश्च या 013c इष्वस्त्राणि च सङ्ग्रामेष्वसुखानि च वेश्मनि 014a दुःखान्येतानि जानीमो न सुखानि कदाचन 014c धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् 015a इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः 015c पुनराह महाराज स्मयंस्तौ केशवार्जुनौ 016a दुःशासने यद्रणे संश्रुतं मे तद्वै सर्वं कृतमद्येह वीरौ 016c अद्यैव दास्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य 016e शिरो मृदित्वा च पदा दुरात्मनः शान्तिं लप्स्ये कौरवाणां समक्षम् 017a एतावदुक्त्वा वचनं प्रहृष्टो ननाद चोच्चै रुधिरार्द्रगात्रः 017c ननर्त चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः