001 सञ्जय उवाच 001a ततः कर्णः कुरुषु प्रद्रुतेषु वरूथिना श्वेतहयेन राजन् 001c पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो महेषुभिर्वात इवाभ्रसङ्घान् 002a सूतं रथादञ्जलिकेन पात्य जघान चाश्वाञ्जनमेजयस्य 002c शतानीकं सुतसोमं च भल्लैरवाकिरद्धनुषी चाप्यकृन्तत् 003a धृष्टद्युम्नं निर्बिभेदाथ षड्भिर्जघान चाश्वं दक्षिणं तस्य सङ्ख्ये 003c हत्वा चाश्वान्सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद्विशोकम् 004a तमभ्यधावन्निहते कुमारे कैकेयसेनापतिरुग्रधन्वा 004c शरैर्विभिन्नं भृशमुग्रवेगैः कर्णात्मजं सोऽभ्यहनत्सुषेणम् 005a तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त प्रसह्य बाहू च शिरश्च कर्णः 005c स स्यन्दनाद्गामपतद्गतासुः परश्वधैः शाल इवावरुग्णः 006a हताश्वमञ्जोगतिभिः सुषेणः शिनिप्रवीरं निशितैः पृषत्कैः 006c प्रच्छाद्य नृत्यन्निव सौतिपुत्रः शैनेयबाणाभिहतः पपात 007a पुत्रे हते क्रोधपरीतचेताः कर्णः शिनीनामृषभं जिघांसुः 007c हतोऽसि शैनेय इति ब्रुवन्स व्यवासृजद्बाणममित्रसाहम् 008a स तस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् 008c शिखण्डिनः कार्मुकं स ध्वजं च च्छित्त्वा शराभ्यामहनत्सुजातम् 009a शिखण्डिनं षड्भिरविध्यदुग्रो दान्तो धार्ष्टद्युम्नशिरश्चकर्त 009c अथाभिनत्सुतसोमं शरेण स संशितेनाधिरथिर्महात्मा 010a अथाक्रन्दे तुमुले वर्तमाने धार्ष्टद्युम्ने निहते तत्र कृष्णः 010c अपाञ्चाल्यं क्रियते याहि पार्थ कर्णं जहीत्यब्रवीद्राजसिंह 011a ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेर्जगाम 011c भये तेषां त्राणमिच्छन्सुबाहुरभ्याहतानां रथयूथपेन 012a विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च 012c बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथान्नरांश्च 013a तं भीमसेनोऽनु ययौ रथेन पृष्ठे रक्षन्पाण्डवमेकवीरम् 013c तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विमुक्तौ 014a अत्रान्तरे सुमहत्सूतपुत्रश्चक्रे युद्धं सोमकान्सम्प्रमृद्नन् 014c रथाश्वमातङ्गगणाञ्जघान प्रच्छादयामास दिशः शरैश्च 015a तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च 015c कर्णं विनेदुः सहिताः पृषत्कैः सम्मर्दमानाः सह पार्षतेन 016a ते पञ्च पाञ्चालरथाः सुरूपैर्वैकर्तनं कर्णमभिद्रवन्तः 016c तस्माद्रथाच्च्यावयितुं न शेकुर्धैर्यात्कृतात्मानमिवेन्द्रियाणि 017a तेषां धनूंषि ध्वजवाजिसूतांस्तूणं पताकाश्च निकृत्य बाणैः 017c तान्पञ्चभिः स त्वहनत्पृषत्कैः कर्णस्ततः सिंह इवोन्ननाद 018a तस्यास्यतस्तानभिनिघ्नतश्च ज्याबाणहस्तस्य धनुःस्वनेन 018c साद्रिद्रुमा स्यात्पृथिवी विशीर्णा इत्येव मत्वा जनता व्यषीदत् 019a स शक्रचापप्रतिमेन धन्वना भृशाततेनाधिरथिः शरान्सृजन् 019c बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा 020a शिखण्डिनं द्वादशभिः पराभिनच्छितैः शरैः षड्भिरथोत्तमौजसम् 020c त्रिभिर्युधामन्युमविध्यदाशुगैस्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ 021a पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष 021c निरुद्यमास्तस्थुरमित्रमर्दना यथेन्द्रियार्थात्मवता पराजिताः 022a निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथार्णवे 022c उद्दध्रिरे नौभिरिवार्णवाद्रथैः सुकल्पितैर्द्रौपदिजाः स्वमातुलान् 023a ततः शिनीनामृषभः शितैः शरैर्निकृत्य कर्णप्रहितानिषून्बहून् 023c विदार्य कर्णं निशितैरयस्मयैस्तवात्मजं ज्येष्ठमविध्यदष्टभिः 024a कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत् 024c स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा 025a समानतेनेष्वसनेन कूजता भृशाततेनामितबाणवर्षिणा 025c बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः 026a पुनः समासाद्य रथान्सुदंशिताः शिनिप्रवीरं जुगुपुः परन्तपाः 026c समेत्य पाञ्चालरथा महारणे मरुद्गणाः शक्रमिवारिनिग्रहे 027a ततोऽभवद्युद्धमतीव दारुणं तवाहितानां तव सैनिकैः सह 027c रथाश्वमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराभवत् 028a रथद्विपा वाजिपदातयोऽपि वा भ्रमन्ति नानाविधशस्त्रवेष्टिताः 028c परस्परेणाभिहताश्च चस्खलुर्विनेदुरार्ता व्यसवोऽपतन्त च 029a तथा गते भीममभीस्तवात्मजः ससार राजावरजः किरञ्शरैः 029c तमभ्यधावत्त्वरितो वृकोदरो महारुरुं सिंह इवाभिपेतिवान् 030a ततस्तयोर्युद्धमतीतमानुषं प्रदीव्यतोः प्राणदुरोदरेऽभवत् 030c परस्परेणाभिनिविष्टरोषयोरुदग्रयोः शम्बरशक्रयोर्यथा 031a शरैः शरीरान्तकरैः सुतेजनैर्निजघ्नतुस्तावितरेतरं भृशम् 031c सकृत्प्रभिन्नाविव वाशितान्तरे महागजौ मन्मथसक्तचेतसौ 032a तवात्मजस्याथ वृकोदरस्त्वरन्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् 032c ललाटमप्यस्य बिभेद पत्रिणा शिरश्च कायात्प्रजहार सारथेः 033a स राजपुत्रोऽन्यदवाप्य कार्मुकं वृकोदरं द्वादशभिः पराभिनत् 033c स्वयं नियच्छंस्तुरगानजिह्मगैः शरैश्च भीमं पुनरभ्यवीवृषत्