001 सञ्जय उवाच 001a तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् 001c युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः 001e परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् 002a कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् 002c मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति 003a ततः कर्णरथं यान्तमरीन्घ्नन्तं धनञ्जयम् 003c बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः 004a त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् 004c जघान नवतिं वीरानर्जुनो निशितैः शरैः 005a तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना 005c सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा 006a ततः सरथनागाश्वाः कुरवः कुरुसत्तम 006c निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् 007a तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् 007c पुत्राणां ते महत्सैन्यं समरौत्सीद्धनञ्जयः 008a शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः 008c प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् 009a तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् 009c व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः 010a ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः 010c पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् 011a कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः 011c कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् 012a तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् 012c चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः 013a अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः 013c सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् 014a ते हेमपुङ्खैरिषुभिराचिता हेममालिनः 014c हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः 015a ततो गाण्डीवनिर्घोषो महानासीद्विशाम्पते 015c स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् 016a कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः 016c अश्वाश्च पर्यधावन्त हतारोहा दिशो दश 017a रथा हीना महाराज रथिभिर्वाजिभिस्तथा 017c गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः 018a अश्वारोहा महाराज धावमानास्ततस्ततः 018c तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः 019a तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत 019c यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि 020a ततस्त्र्यङ्गेण महता बलेन भरतर्षभ 020c दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् 021a हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् 021c जवेनाभ्यद्रवद्राजन्धनञ्जयरथं प्रति 022a ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् 022c दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति 023a हतावशिष्टांस्तुरगानर्जुनेन महाजवान् 023c भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे 024a कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् 024c प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् 025a ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् 025c सा जघान बहूनश्वानश्वारोहांश्च मारिष 026a कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः 026c पोथयामास गदया सशब्दं तेऽपतन्हताः 027a हत्वा तु तद्गजानीकं भीमसेनो महाबलः 027c पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् 028a हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् 028c व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् 029a विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् 029c दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः 030a ततः कुरूणामभवदार्तनादो महामृधे 030c रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः 031a हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् 031c अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् 032a आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् 032c आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा 033a तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः 033c निराशाः समपद्यन्त सर्वे कर्णस्य जीविते 034a अविषह्यं तु पार्थस्य शरसम्पातमाहवे 034c मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना 035a ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः 035c प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् 036a अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् 036c हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् 037a पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति 037c अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा 038a कुरवो हि महाराज निर्विषाः पन्नगा इव 038c कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः 039a यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत 039c धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च 040a तथा कर्णं महेष्वासं पुत्रास्तव नराधिप 040c उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः 041a ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् 041c मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च 042a सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् 042c धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया 042e पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः 043a ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः 043c कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् 044a ततः शरसहस्राणि कर्णमुक्तानि मारिष 044c व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर 045a ततो रणो महानासीत्पाञ्चालानां विशाम्पते 045c वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम्