001 सञ्जय उवाच 001a राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम् 001c मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनञ्जयः 002a विमृद्य सूतपुत्रस्य सेनां भारत सायकैः 002c प्राहिणोन्मृत्युलोकाय परवीरान्धनञ्जयः 003a ततोऽस्याम्बरमावृत्य शरजालानि भागशः 003c अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम् 004a स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः 004c धनञ्जयो महाराज कुरूणामन्तकोऽभवत् 005a ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि 005c गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह 006a छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः 006c पतितैश्च पतद्भिश्च योधैरासीत्समावृतम् 007a धनञ्जयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः 007c रणभूमिरभूद्राजन्महावैतरणी यथा 008a ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम् 008c ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही 009a सुवर्णवर्मसन्नाहैर्योधैः कनकभूषणैः 009c आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः 009e क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः 010a चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना 010c पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः 011a धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः 011c अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् 012a हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः 012c विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः 012e अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै 013a व्यस्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम् 013c घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे 014a ततः प्रादीर्यत चमूर्धनञ्जयशराहता 014c महावातसमाविद्धा महानौरिव सागरे 015a नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः 015c अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् 016a महागिरौ वेणुवनं निशि प्रज्वलितं यथा 016c तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम् 017a सम्पिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना 017c हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः 018a महावने मृगगणा दावाग्निग्रसिता यथा 018c कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना 019a उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे 019c बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् 020a ततः कुरुषु भग्नेषु बीभत्सुरपराजितः 020c भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत 021a समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः 021c विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् 022a भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः 022c नादयन्रथघोषेण पृथिवीं द्यां च भारत 023a ततः परिवृतो भीमैर्दशभिः शत्रुपुङ्गवैः 023c दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः 024a ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् 024c आततेष्वसनाः क्रूरा नृत्यन्त इव भारत 025a अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः 025c ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने 026a तेषामापततां केतून्रथांश्चापानि सायकान् 026c नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत् 027a अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत् 027c रोषसंरक्तनेत्राणि सन्दष्टौष्ठानि भूतले 027e तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव 028a तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् 028c रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्रायादमित्रहा