001 सञ्जय उवाच 001a अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम् 001c सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे 002a शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम् 002c वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ 003a एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते 003c भीमसेनादयश्चैते योधयन्ति महारथान् 003e एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन 004a एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता 004c कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते 005a कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः 005c एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः 005e अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान् 006a एष शल्यो रथोपस्थे रश्मिसञ्चारकोविदः 006c सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते 007a तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम् 007c नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन 008a राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान् 008c निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन 009a ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम् 009c कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना 010a प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः 010c आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः 011a रथघोषः स सङ्ग्रामे पाण्डवेयस्य सम्बभौ 011c वासवाशनितुल्यस्य महौघस्येव मारिष 012a महता रथघोषेण पाण्डवः सत्यविक्रमः 012c अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम् 013a तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् 013c मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः 014a अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः 014c निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि 015a एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः 015c तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति 016a एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः 016c अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् 017a वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः 017c त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः 018a न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह 018c त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे 019a विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् 019c शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् 020a द्रौपदेयान्युधामन्युमुत्तमौजसमेव च 020c नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च 021a सहसैकरथः पार्थस्त्वामभ्येति परन्तप 021c क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् 022a त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् 022c त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः 023a न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम् 023c अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत् 024a न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः 024c एक एवाभियाति त्वां पश्य साफल्यमात्मनः 025a त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे 025c तवैष भारो राधेय प्रत्युद्याहि धनञ्जयम् 026a त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि 026c सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम् 027a लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा 027c लयस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् 028a एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः 028c अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः 029a द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः 029c भयहा यो भवेद्वीर त्वामृते सूतनन्दन 030a एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे 030c विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः 031a वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया 031c गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः 032a तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् 032c वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना 033 कर्ण उवाच 033a प्रकृतिस्थो हि मे शल्य इदानीं सम्मतस्तथा 033c प्रतिभासि महाबाहो विभीश्चैव धनञ्जयात् 034a पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे 034c एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् 035a कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते 035c नाहत्वा युधि तौ वीरावपयास्ये कथञ्चन 036a स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः 036c कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः 037a नैतादृशो जातु बभूव लोके रथोत्तमो यावदनुश्रुतं नः 037c तमीदृशं प्रतियोत्स्यामि पार्थं महाहवे पश्य च पौरुषं मे 038a रथे चरत्येष रथप्रवीरः शीघ्रैर्हयैः कौरवराजपुत्रः 038c स वाद्य मां नेष्यति कृच्छ्रमेतत्कर्णस्यान्तादेतदन्ताः स्थ सर्वे 039a अस्वेदिनौ राजपुत्रस्य हस्ताववेपिनौ जातकिणौ बृहन्तौ 039c दृढायुधः कृतिमान्क्षिप्रहस्तो न पाण्डवेयेन समोऽस्ति योधः 040a गृह्णात्यनेकानपि कङ्कपत्रानेकं यथा तान्क्षितिपान्प्रमथ्य 040c ते क्रोशमात्रं निपतन्त्यमोघाः कस्तेन योधोऽस्ति समः पृथिव्याम् 041a अतोषयत्पाण्डवेयो हुताशं कृष्णद्वितीयोऽतिरथस्तरस्वी 041c लेभे चक्रं यत्र कृष्णो महात्मा धनुर्गाण्डीवं पाण्डवः सव्यसाची 042a श्वेताश्वयुक्तं च सुघोषमग्र्यं रथं महाबाहुरदीनसत्त्वः 042c महेषुधी चाक्षयौ दिव्यरूपौ शस्त्राणि दिव्यानि च हव्यवाहात् 043a तथेन्द्रलोके निजघान दैत्यानसङ्ख्येयान्कालकेयांश्च सर्वान् 043c लेभे शङ्खं देवदत्तं स्म तत्र को नाम तेनाभ्यधिकः पृथिव्याम् 044a महादेवं तोषयामास चैव साक्षात्सुयुद्धेन महानुभावः 044c लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महास्त्रम् 045a पृथक्पृथग्लोकपालाः समेता ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य 045c यैस्ताञ्जघानाशु रणे नृसिंहान्स कालखञ्जानसुरान्समेतान् 046a तथा विराटस्य पुरे समेतान्सर्वानस्मानेकरथेन जित्वा 046c जहार तद्गोधनमाजिमध्ये वस्त्राणि चादत्त महारथेभ्यः 047a तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं वरये रणाय 047c अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तम् 048a वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः 048c महात्मनः शङ्खचक्रासिपाणेर्विष्णोर्जिष्णोर्वसुदेवात्मजस्य 048e भयं मे वै जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ 049a उभौ हि शूरौ कृतिनौ दृढास्त्रौ महारथौ संहननोपपन्नौ 049c एतादृशौ फल्गुनवासुदेवौ कोऽन्यः प्रतीयान्मदृते नु शल्य 050a एतावहं युधि वा पातयिष्ये मां वा कृष्णौ निहनिष्यतोऽद्य 050c इति ब्रुवञ्शल्यममित्रहन्ता कर्णो रणे मेघ इवोन्ननाद 051a अभ्येत्य पुत्रेण तवाभिनन्दितः समेत्य चोवाच कुरुप्रवीरान् 051c कृपं च भोजं च महाभुजावुभौ तथैव गान्धारनृपं सहानुजम् 051e गुरोः सुतं चावरजं तथात्मनः पदातिनोऽथ द्विपसादिनोऽन्यान् 052a निरुन्धताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वतः 052c यथा भवद्भिर्भृशविक्षतावुभौ सुखेन हन्यामहमद्य भूमिपाः 053a तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं जिघांसवो वीरतमाः समभ्ययुः 053c नदीनदान्भूरिजलो महार्णवो यथा तथा तान्समरेऽर्जुनोऽग्रसत् 054a न सन्दधानो न तथा शरोत्तमान्प्रमुञ्चमानो रिपुभिः प्रदृश्यते 054c धनञ्जयस्तस्य शरैश्च दारिता हताश्च पेतुर्नरवाजिकुञ्जराः 055a शरार्चिषं गाण्डिवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम् 055c न कौरवाः शेकुरुदीक्षितुं जयं यथा रविं व्याधितचक्षुषो जनाः 056a तमभ्यधावद्विसृजञ्शरान्कृपस्तथैव भोजस्तव चात्मजः स्वयम् 056c जिघांसुभिस्तान्कुशलैः शरोत्तमान्महाहवे सञ्जवितान्प्रयत्नतः 056e शरैः प्रचिच्छेद च पाण्डवस्त्वरन्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः 057a स गाण्डिवाभ्यायतपूर्णमण्डलस्तपन्रिपूनर्जुनभास्करो बभौ 057c शरोग्ररश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषगस्तथा 058a अथाग्र्यबाणैर्दशभिर्धनञ्जयं पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः 058c चतुर्भिरश्वांश्चतुरः कपिं तथा शरैः स नाराचवरैरवाकिरत् 059a तथा तु तत्तत्स्फुरदात्तकार्मुकं त्रिभिः शरैर्यन्तृशिरः क्षुरेण 059c हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं धनञ्जयो द्रौणिरथान्न्यपातयत् 060a स रोषपूर्णोऽशनिवज्रहाटकैरलङ्कृतं तक्षकभोगवर्चसम् 060c सुबन्धनं कार्मुकमन्यदाददे यथा महाहिप्रवरं गिरेस्तथा 061a स्वमायुधं चोपविकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकः 061c समानयानावजितौ नरोत्तमौ शरोत्तमैर्द्रौणिरविध्यदन्तिकात् 062a कृपश्च भोजश्च तथात्मजश्च ते तमोनुदं वारिधरा इवापतन् 062c कृपस्य पार्थः सशरं शरासनं हयान्ध्वजं सारथिमेव पत्रिभिः 063a शरैः प्रचिच्छेद तवात्मजस्य ध्वजं धनुश्च प्रचकर्त नर्दतः 063c जघान चाश्वान्कृतवर्मणः शुभान्ध्वजं च चिच्छेद ततः प्रतापवान् 064a सवाजिसूतेष्वसनान्सकेतनाञ्जघान नागाश्वरथांस्त्वरंश्च सः 064c ततः प्रकीर्णं सुमहद्बलं तव प्रदारितं सेतुरिवाम्भसा यथा 064e ततोऽर्जुनस्याशु रथेन केशवश्चकार शत्रूनपसव्यमातुरान् 065a ततः प्रयान्तं त्वरितं धनञ्जयं शतक्रतुं वृत्रनिजघ्नुषं यथा 065c समन्वधावन्पुनरुच्छ्रितैर्ध्वजै रथैः सुयुक्तैरपरे युयुत्सवः 066a अथाभिसृत्य प्रतिवार्य तानरीन्धनञ्जयस्याभि रथं महारथाः 066c शिखण्डिशैनेययमाः शितैः शरैर्विदारयन्तो व्यनदन्सुभैरवम् 067a ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाञ्जोगतिभिः सुतेजनैः 067c कुरुप्रवीराः सह सृञ्जयैर्यथासुराः पुरा देववरैरयोधयन् 068a जयेप्सवः स्वर्गमनाय चोत्सुकाः पतन्ति नागाश्वरथाः परन्तप 068c जगर्जुरुच्चैर्बलवच्च विव्यधुः शरैः सुमुक्तैरितरेतरं पृथक् 069a शरान्धकारे तु महात्मभिः कृते महामृधे योधवरैः परस्परम् 069c बभुर्दशाशा न दिवं च पार्थिव प्रभा च सूर्यस्य तमोवृताभवत्