001 धृतराष्ट्र उवाच 001a ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे 001c दुर्योधनोऽब्रवीत्किं नु सौबलो वापि सञ्जय 002a कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि 002c कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा 003a अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम् 003c यथाप्रतिज्ञं योधानां राधेयः कृतवानपि 004a कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः 004c शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय 005a तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा 005c राधेयानामधिरथः कर्णः किमकरोद्युधि 006a पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः 006c एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय 007 सञ्जय उवाच 007a अपराह्णे महाराज सूतपुत्रः प्रतापवान् 007c जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः 007e भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् 008a द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता 008c यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह 009a मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् 009c प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः 010a प्रविश्य च स तां सेनां शल्यः परबलार्दनः 010c न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः 011a तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम् 011c सन्दृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशाम्पते 012a ततो रथस्य निनदः प्रादुरासीन्महारणे 012c पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः 013a ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः 013c जघान पाण्डवबलं शतशोऽथ सहस्रशः 014a तं तथा समरे कर्म कुर्वाणमतिमानुषम् 014c परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः 015a तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः 015c नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः 015e परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः 016a सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः 016c अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः 017a शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः 017c द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः 017e नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः 018a भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् 018c विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः 019a ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् 019c मुमोच निशितान्बाणान्पीडयन्सुमहाबलः 019e तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः 020a सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः 020c अथैनं नवभिर्बाणैराजघान स्तनान्तरे 021a भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः 021c सारथिं च त्रिभिर्बाणैराजघान परन्तपः 022a विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः 022c अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् 023a विमुखीकृत्य तान्सर्वाञ्शरैः सन्नतपर्वभिः 023c पाञ्चालानहनच्छूरश्चेदीनां च महारथान् 024a ते वध्यमानाः समरे चेदिमत्स्या विशाम्पते 024c कर्णमेकमभिद्रुत्य शरसङ्घैः समार्दयन् 024e ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः 025a एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत 025c यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् 026a यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः 026c पाण्डवेयान्महाराज शरैर्वारितवान्रणे 027a तत्र भारत कर्णस्य लाघवेन महात्मनः 027c तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः 028a अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् 028c कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् 029a ततः कर्णो महाराज ददाह रिपुवाहिनीम् 029c कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् 030a ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः 030c प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् 031a तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे 031c वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः 032a तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः 032c कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः 033a तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः 033c यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् 034a यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते 034c तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते 035a कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् 035c दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् 036a शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान् 036c बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः 037a हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान् 037c रथांश्च विविधान्राजन्पताका व्यजनानि च 038a अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च 038c चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः 039a तत्र भारत कर्णेन निहतैर्गजवाजिभिः 039c अगम्यरूपा पृथिवी मांसशोणितकर्दमा 040a विषमं च समं चैव हतैरश्वपदातिभिः 040c रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन 041a नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् 041c घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते 042a राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः 042c सञ्छादिता महाराज यतमाना महारथाः 043a ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः 043c अभज्यन्त महाराज यतमाना महारथाः 044a मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने 044c कर्णस्तु समरे योधांस्तत्र तत्र महायशाः 044e कालयामास तत्सैन्यं यथा पशुगणान्वृकः 045a दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् 045c अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् 046a दुर्योधनो हि राजेन्द्र मुदा परमया युतः 046c वादयामास संहृष्टो नानावाद्यानि सर्वशः 047a पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः 047c न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् 048a तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः 048c अनेकशो महाराज बभञ्ज पुरुषर्षभः 049a तत्र भारत कर्णेन पाञ्चाला विंशती रथाः 049c निहताः सादयः क्रोधाच्चेदयश्च परःशताः 050a कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत 050c निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् 051a आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः 051c कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह 052a एवमेतान्महाराज नरवाजिरथद्विपान् 052c हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः 053a यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः 053c तथा स सोमकान्हत्वा तस्थावेको महारथः 054a तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् 054c वध्यमानापि कर्णेन नाजहू रणमूर्धनि 055a राजा दुःशासनश्चैव कृपः शारद्वतस्तथा 055c अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः 055e न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः 056a कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ 056c अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः 056e तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् 057a तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ 057c द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम् 058a एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः 058c तावकानामपि रणे भीमं प्राप्य महाबलम्