001 सञ्जय उवाच 001a श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे 001c अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः 002a अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् 002c एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः 003a आयान्तमश्वैर्हिमशङ्खवर्णैः सुवर्णमुक्तामणिजालनद्धैः 003c जम्भं जिघांसुं प्रगृहीतवज्रं जयाय देवेन्द्रमिवोग्रमन्युम् 004a रथाश्वमातङ्गपदातिसङ्घा बाणस्वनैर्नेमिखुरस्वनैश्च 004c सन्नादयन्तो वसुधां दिशश्च क्रुद्धा नृसिंहा जयमभ्युदीयुः 005a तेषां च पार्थस्य महत्तदासीद्देहासुपाप्मक्षपणं सुयुद्धम् 005c त्रैलोक्यहेतोरसुरैर्यथासीद्देवस्य विष्णोर्जयतां वरस्य 006a तैरस्तमुच्चावचमायुधौघमेकः प्रचिच्छेद किरीटमाली 006c क्षुरार्धचन्द्रैर्निशितैश्च बाणैः शिरांसि तेषां बहुधा च बाहून् 007a छत्राणि वालव्यजनानि केतूनश्वान्रथान्पत्तिगणान्द्विपांश्च 007c ते पेतुरुर्व्यां बहुधा विरूपा वातप्रभग्नानि यथा वनानि 008a सुवर्णजालावतता महागजाः सवैजयन्तीध्वजयोधकल्पिताः 008c सुवर्णपुङ्खैरिषुभिः समाचिताश्चकाशिरे प्रज्वलिता यथाचलाः 009a विदार्य नागांश्च रथांश्च वाजिनः शरोत्तमैर्वासववज्रसन्निभैः 009c द्रुतं ययौ कर्णजिघांसया तथा यथा मरुत्वान्बलभेदने पुरा 010a ततः स पुरुषव्याघ्रः सूतसैन्यमरिन्दम 010c प्रविवेश महाबाहुर्मकरः सागरं यथा 011a तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः 011c गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् 012a तत्राभिद्रवतां पार्थमारावः सुमहानभूत् 012c सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः 013a ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः 013c अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम् 014a तेषामापततां तत्र शरवर्षाणि मुञ्चताम् 014c अर्जुनो व्यधमत्सैन्यं महावातो घनानिव 015a तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः 015c अभियाय महेष्वासा विव्यधुर्निशितैः शरैः 016a ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् 016c प्रेषयामास विशिखैर्यमस्य सदनं प्रति 017a ते वध्यमानाः समरे पार्थचापच्युतैः शरैः 017c तत्र तत्र स्म लीयन्ते भये जाते महारथाः 018a तेषां चतुःशतान्वीरान्यतमानान्महारथान् 018c अर्जुनो निशितैर्बाणैरनयद्यमसादनम् 019a ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः 019c अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात् 020a तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे 020c महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः 021a तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः 021c प्रायादभिमुखः पार्थः सूतानीकानि मारिष 022a तस्य शब्दो महानासीत्परानभिमुखस्य वै 022c गरुडस्येव पततः पन्नगार्थे यथा पुरा 023a तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः 023c बभूव परमप्रीतः पार्थदर्शनलालसः 024a श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् 024c त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह 025a स वायुवेगप्रतिमो वायुवेगसमो जवे 025c वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् 026a तेनार्द्यमाना राजेन्द्र सेना तव विशाम्पते 026c व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे 027a तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् 027c शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम् 028a तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् 028c व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये 029a तथार्दितान्भीमबलान्भीमसेनेन भारत 029c दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् 030a सैनिकान्स महेष्वासो योधांश्च भरतर्षभ 030c समादिशद्रणे सर्वान्हत भीममिति स्म ह 030e तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः 031a प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः 031c भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः 032a गजाश्च बहुला राजन्नराश्च जयगृद्धिनः 032c रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम् 033a स तैः परिवृतः शूरैः शूरो राजन्समन्ततः 033c शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः 034a स रराज तथा सङ्ख्ये दर्शनीयो नरोत्तमः 034c निर्विशेषं महाराज यथा हि विजयस्तथा 035a तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् 035c क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् 036a स विदार्य महासेनां शरैः सन्नतपर्वभिः 036c निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि 037a हत्वा दश सहस्राणि गजानामनिवर्तिनाम् 037c नृणां शतसहस्रे द्वे द्वे शते चैव भारत 038a पञ्च चाश्वसहस्राणि रथानां शतमेव च 038c हत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम् 039a शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् 039c नरमीनामश्वनक्रां केशशैवलशाद्वलाम् 040a सञ्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् 040c ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् 041a धनुष्काशां शरावापां गदापरिघकेतनाम् 041c योधव्रातवतीं सङ्ख्ये वहन्तीं यमसादनम् 042a क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् 042c यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः 043a यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः 043c ततस्ततोऽपातयत योधाञ्शतसहस्रशः 044a एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे 044c दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् 045a जय मातुल सङ्ग्रामे भीमसेनं महाबलम् 045c अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् 046a ततः प्रायान्महाराज सौबलेयः प्रतापवान् 046c रणाय महते युक्तो भ्रातृभिः परिवारितः 047a स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम् 047c वारयामास तं वीरो वेलेव मकरालयम् 047e स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः 048a शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे 048c प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् 049a वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनः 049c न्यमज्जन्त महाराज कङ्कबर्हिणवाससः 050a सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् 050c प्रेषयामास सहसा सौबलं प्रति भारत 051a तमायान्तं शरं घोरं शकुनिः शत्रुतापनः 051c चिच्छेद शतधा राजन्कृतहस्तो महाबलः 052a तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशाम्पते 052c धनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव 053a तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् 053c अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश 054a तैस्तस्य तु महाराज भल्लैः सन्नतपर्वभिः 054c चतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च 055a ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशाम्पते 055c चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः 056a ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् 056c शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् 057a सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला 057c निपपात रथे तूर्णं सौबलस्य महात्मनः 058a ततस्तामेव सङ्गृह्य शक्तिं कनकभूषणाम् 058c भीमसेनाय चिक्षेप क्रुद्धरूपो विशाम्पते 059a सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः 059c पपात च ततो भूमौ यथा विद्युन्नभश्च्युता 060a अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः 060c न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् 061a स सङ्गृह्य धनुः सज्यं त्वरमाणो महारथः 061c मुहूर्तादिव राजेन्द्र छादयामास सायकैः 061e सौबलस्य बलं सङ्ख्ये त्यक्त्वात्मानं महाबलः 062a तस्याश्वांश्चतुरो हत्वा सूतं चैव विशाम्पते 062c ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी 063a हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः 063c तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् 063e शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः 064a प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् 064c धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः 065a सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 065c निपपात ततो भूमौ किञ्चित्प्राणो नराधिप 066a ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशाम्पते 066c अपोवाह रथेनाजौ भीमसेनस्य पश्यतः 067a रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः 067c प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये 068a सौबले निर्जिते राजन्भीमसेनेन धन्विना 068c भयेन महता भग्नः पुत्रो दुर्योधनस्तव 068e अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति 069a पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत 069c विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः 070a तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् 070c जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून् 071a ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः 071c कर्णमासाद्य समरे स्थिता राजन्समन्ततः 071e स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः 072a भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः 072c भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये 073a तथा कर्णं समासाद्य तावका भरतर्षभ 073c समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम् 073e समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम्