001 सञ्जय उवाच 001a अथ त्विदानीं तुमुले विमर्दे द्विषद्भिरेको बहुभिः समावृतः 001c महाभये सारथिमित्युवाच भीमश्चमूं वारयन्धार्तराष्ट्रीम् 001e त्वं सारथे याहि जवेन वाहैर्नयाम्येतान्धार्तराष्ट्रान्यमाय 002a सञ्चोदितो भीमसेनेन चैवं स सारथिः पुत्रबलं त्वदीयम् 002c प्रायात्ततः सारथिरुग्रवेगो यतो भीमस्तद्बलं गन्तुमैच्छत् 003a ततोऽपरे नागरथाश्वपत्तिभिः प्रत्युद्ययुः कुरवस्तं समन्तात् 003c भीमस्य वाहाग्र्यमुदारवेगं समन्ततो बाणगणैर्निजघ्नुः 004a ततः शरानापततो महात्मा चिच्छेद बाणैस्तपनीयपुङ्खैः 004c ते वै निपेतुस्तपनीयपुङ्खा द्विधा त्रिधा भीमशरैर्निकृत्ताः 005a ततो राजन्नागरथाश्वयूनां भीमाहतानां तव राजमध्ये 005c घोरो निनादः प्रबभौ नरेन्द्र वज्राहतानामिव पर्वतानाम् 006a ते वध्यमानाश्च नरेन्द्रमुख्या निर्भिन्ना वै भीमसेनप्रवेकैः 006c भीमं समन्तात्समरेऽध्यरोहन्वृक्षं शकुन्ता इव पुष्पहेतोः 007a ततोऽभिपातं तव सैन्यमध्ये प्रादुश्चक्रे वेगमिवात्तवेगः 007c यथान्तकाले क्षपयन्दिधक्षुर्भूतान्तकृत्काल इवात्तदण्डः 008a तस्यातिवेगस्य रणेऽतिवेगं नाशक्नुवन्धारयितुं त्वदीयाः 008c व्यात्ताननस्यापततो यथैव कालस्य काले हरतः प्रजा वै 009a ततो बलं भारत भारतानां प्रदह्यमानं समरे महात्मन् 009c भीतं दिशोऽकीर्यत भीमनुन्नं महानिलेनाभ्रगणो यथैव 010a ततो धीमान्सारथिमब्रवीद्बली स भीमसेनः पुनरेव हृष्टः 010c सूताभिजानीहि परान्स्वकान्वा रथान्ध्वजांश्चापततः समेतान् 010e युध्यन्नहं नाभिजानामि किञ्चिन्मा सैन्यं स्वं छादयिष्ये पृषत्कैः 011a अरीन्विशोकाभिनिरीक्ष्य सर्वतो मनस्तु चिन्ता प्रदुनोति मे भृशम् 011c राजातुरो नागमद्यत्किरीटी बहूनि दुःखान्यभिजातोऽस्मि सूत 012a एतद्दुःखं सारथे धर्मराजो यन्मां हित्वा यातवाञ्शत्रुमध्ये 012c नैनं जीवन्नापि जानाम्यजीवन्बीभत्सुं वा तन्ममाद्यातिदुःखम् 013a सोऽहं द्विषत्सैन्यमुदग्रकल्पं विनाशयिष्ये परमप्रतीतः 013c एतान्निहत्याजिमध्ये समेतान्प्रीतो भविष्यामि सह त्वयाद्य 014a सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य किं शिष्टं स्यात्सायकानां रथे मे 014c का वा जातिः किं प्रमाणं च तेषां ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत 015 विशोक उवाच 015a षण्मार्गणानामयुतानि वीर क्षुराश्च भल्लाश्च तथायुताख्याः 015c नाराचानां द्वे सहस्रे तु वीर त्रीण्येव च प्रदराणां च पार्थ 016a अस्त्यायुधं पाण्डवेयावशिष्टं न यद्वहेच्छकटं षड्गवीयम् 016c एतद्विद्वन्मुञ्च सहस्रशोऽपि गदासिबाहुद्रविणं च तेऽस्ति 017 भीम उवाच 017a सूताद्येमं पश्य भीमप्रमुक्तैः सम्भिन्दद्भिः पार्थिवानाशुवेगैः 017c उग्रैर्बाणैराहवं घोररूपं नष्टादित्यं मृत्युलोकेन तुल्यम् 018a अद्यैव तद्विदितं पार्थिवानां भविष्यति आकुमारं च सूत 018c निमग्नो वा समरे भीमसेन एकः कुरून्वा समरे विजेता 019a सर्वे सङ्ख्ये कुरवो निष्पतन्तु मां वा लोकाः कीर्तयन्त्वाकुमारम् 019c सर्वानेकस्तानहं पातयिष्ये ते वा सर्वे भीमसेनं तुदन्तु 020a आशास्तारः कर्म चाप्युत्तमं वा तन्मे देवाः केवलं साधयन्तु 020c आयात्विहाद्यार्जुनः शत्रुघाती शक्रस्तूर्णं यज्ञ इवोपहूतः 021a ईक्षस्वैतां भारतीं दीर्यमाणामेते कस्माद्विद्रवन्ते नरेन्द्राः 021c व्यक्तं धीमान्सव्यसाची नराग्र्यः सैन्यं ह्येतच्छादयत्याशु बाणैः 022a पश्य ध्वजांश्च द्रवतो विशोक नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये 022c रथान्विशीर्णाञ्शरशक्तिताडितान्पश्यस्वैतान्रथिनश्चैव सूत 023a आपूर्यते कौरवी चाप्यभीक्ष्णं सेना ह्यसौ सुभृशं हन्यमाना 023c धनञ्जयस्याशनितुल्यवेगैर्ग्रस्ता शरैर्बर्हिसुवर्णवाजैः 024a एते द्रवन्ति स्म रथाश्वनागाः पदातिसङ्घानवमर्दयन्तः 024c सम्मुह्यमानाः कौरवाः सर्व एव द्रवन्ति नागा इव दावभीताः 024e हाहाकृताश्चैव रणे विशोक मुञ्चन्ति नादान्विपुलान्गजेन्द्राः 025 विशोक उवाच 025a सर्वे कामाः पाण्डव ते समृद्धाः कपिध्वजो दृश्यते हस्तिसैन्ये 025c नीलाद्धनाद्विद्युतमुच्चरन्तीं तथापश्यं विस्फुरद्वै धनुस्तत् 026a कपिर्ह्यसौ वीक्ष्यते सर्वतो वै ध्वजाग्रमारुह्य धनञ्जयस्य 026c दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थः 027a पार्श्वे भीमं पाण्डुराभ्रप्रकाशं पश्येमं त्वं देवदत्तं सुघोषम् 027c अभीशुहस्तस्य जनार्दनस्य विगाहमानस्य चमूं परेषाम् 028a रविप्रभं वज्रनाभं क्षुरान्तं पार्श्वे स्थितं पश्य जनार्दनस्य 028c चक्रं यशो वर्धयत्केशवस्य सदार्चितं यदुभिः पश्य वीर 029 भीम उवाच 029a ददामि ते ग्रामवरांश्चतुर्दश प्रियाख्याने सारथे सुप्रसन्नः 029c दसीशतं चापि रथांश्च विंशतिं यदर्जुनं वेदयसे विशोक