001 सञ्जय उवाच 001a तेषामनीकानि बृहद्ध्वजानि रणे समृद्धानि समागतानि 001c गर्जन्ति भेरीनिनदोन्मुखानि मेघैर्यथा मेघगणास्तपान्ते 002a महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच्च 002c हिरण्यचित्रायुधवैद्युतं च महारथैरावृतशब्दवच्च 003a तद्भीमवेगं रुधिरौघवाहि खड्गाकुलं क्षत्रियजीववाहि 003c अनार्तवं क्रूरमनिष्टवर्षं बभूव तत्संहरणं प्रजानाम् 004a रथान्ससूतान्सहयान्गजांश्च सर्वानरीन्मृत्युवशं शरौघैः 004c निन्ये हयांश्चैव तथा ससादीन्पदातिसङ्घांश्च तथैव पार्थः 005a कृपः शिखण्डी च रणे समेतौ दुर्योधनं सात्यकिरभ्यगच्छत 005c श्रुतश्रवा द्रोणसुतेन सार्धं युधामन्युश्चित्रसेनेन चापि 006a कर्णस्य पुत्रस्तु रथी सुषेणं समागतः सृञ्जयांश्चोत्तमौजाः 006c गान्धारराजं सहदेवः क्षुधार्तो महर्षभं सिंह इवाभ्यधावत् 007a शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः 007c समार्दयत्कर्णसुतश्च वीरः पाञ्चालेयं शरवर्षैरनेकैः 008a रथर्षभः कृतवर्माणमार्च्छन्माद्रीपुत्रो नकुलश्चित्रयोधी 008c पाञ्चालानामधिपो याज्ञसेनिः सेनापतिं कर्णमार्च्छत्ससैन्यम् 009a दुःशासनो भारत भारती च संशप्तकानां पृतना समृद्धा 009c भीमं रणे शस्त्रभृतां वरिष्ठं तदा समार्च्छत्तमसह्यवेगम् 010a कर्णात्मजं तत्र जघान शूरस्तथाच्छिनच्चोत्तमौजाः प्रसह्य 010c तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च 011a सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः 011c क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैर्न्यकृन्तत् 012a स तूत्तमौजा निशितैः पृषत्कैर्विव्याध खड्गेन च भास्वरेण 012c पार्ष्णिं हयांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽभ्यरोहत् 013a कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी 013c तं द्रौणिरावार्य रथं कृपं स्म समुज्जह्रे पङ्कगतां यथा गाम् 014a हिरण्यवर्मा निशितैः पृषत्कैस्तवात्मजानामनिलात्मजो वै 014c अतापयत्सैन्यमतीव भीमः काले शुचौ मध्यगतो यथार्कः