001 सञ्जय उवाच 001a स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् 001c विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत 002a ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः 002c दध्रे कर्णविनाशाय केशवं चाभ्यभाषत 003a त्वया नाथेन गोविन्द ध्रुव एष जयो मम 003c प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः 004a त्वत्सहायो ह्यहं कृष्ण त्रील्ँलोकान्वै समागतान् 004c प्रापयेयं परं लोकं किमु कर्णं महारणे 005a पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन 005c पश्यामि कर्णं समरे विचरन्तमभीतवत् 006a भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः 006c सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् 007a अयं खलु स सङ्ग्रामो यत्र कृष्ण मया कृतम् 007c कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति 008a अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे 008c गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः 009a अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते 009c दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् 010a अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् 010c पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते 011a अद्य दुर्योधनो राजा जीविताच्च निराशकः 011c भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते 012a अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् 012c स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः 013a अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान् 013c दुरोदरं च गाण्डीवं मण्डलं च रथं मम 014a योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते 014c तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् 014e गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् 015a अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत् 015c सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति 016a ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः 016c हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि 017a अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् 017c अनृतं तत्करिष्यन्ति मामका निशिताः शराः 018a हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत् 018c तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् 019a यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः 019c अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् 019e तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन 020a अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः 020c विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव 021a अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम् 021c हते कर्णे मया सङ्ख्ये सपुत्रे ससुहृज्जने 022a अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः 022c जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् 023a अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् 023c क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च 024a अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् 024c हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव 025a अद्य कर्णे हते युद्धे सोमकानां महारथाः 025c कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि 026a न जाने च कथं प्रीतिः शैनेयस्याद्य माधव 026c भविष्यति हते कर्णे मयि चापि जयाधिके 027a अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् 027c प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि 028a धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव 028c अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे 029a अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् 029c युध्यन्तं कौरवान्सङ्ख्ये पातयन्तं च सूतजम् 029e भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् 030a धनुर्वेदे मत्समो नास्ति लोके पराक्रमे वा मम कोऽस्ति तुल्यः 030c को वाप्यन्यो मत्समोऽस्ति क्षमायां तथा क्रोधे सदृशोऽन्यो न मेऽस्ति 031a अहं धनुष्मानसुरान्सुरांश्च सर्वाणि भूतानि च सङ्गतानि 031c स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्धि परः परेभ्यः 032a शरार्चिषा गाण्डिवेनाहमेकः सर्वान्कुरून्बाह्लिकांश्चाभिपत्य 032c हिमात्यये कक्षगतो यथाग्निस्तहा दहेयं सगणान्प्रसह्य 033a पाणौ पृषत्का लिखिता ममैते धनुश्च सव्ये निहितं सबाणम् 033c पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति