001 सञ्जय उवाच 001a ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् 001c कृतसङ्कल्पमायस्तं वधे कर्णस्य सर्वशः 002a अद्य सप्तदशाहानि वर्तमानस्य भारत 002c विनाशस्यातिघोरस्य नरवारणवाजिनाम् 003a भूत्वा हि विपुला सेना तावकानां परैः सह 003c अन्योन्यं समरे प्राप्य किञ्चिच्छेषा विशाम्पते 004a भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः 004c त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि 005a एते च सर्वे पाञ्चालाः सृञ्जयाश्च सहान्वयाः 005c त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः 006a पाञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिकेकयैः 006c त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः 007a को हि शक्तो रणे जेतुं कौरवांस्तात सङ्गतान् 007c अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् 008a त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषान् 008c त्रील्ँलोकान्सममुद्युक्तान्किं पुनः कौरवं बलम् 009a भगदत्तं हि राजानं कोऽन्यः शक्तस्त्वया विना 009c जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः 010a तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ 010c न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम् 011a तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे 011c धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ 012a को हि शक्तो रणे पार्थ पाञ्चालानां महारथौ 012c भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ 013a को हि शान्तनवं सङ्ख्ये द्रोणं वैकर्तनं कृपम् 013c द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च 013e सैन्धवं मद्रराजं च राजानं च सुयोधनम् 014a वीरान्कृतास्त्रान्समरे सर्वानेवानुवर्तिनः 014c अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान् 015a श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः 015c नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् 016a गोवासदासमीयानां वसातीनां च भारत 016c व्रात्यानां वाटधानानां भोजानां चापि मानिनाम् 017a उदीर्णाश्च महासेना ब्रह्मक्षत्रस्य भारत 017c त्वां समासाद्य निधनं गताः साश्वरथद्विपाः 018a उग्राश्च क्रूरकर्माणस्तुखारा यवनाः खशाः 018c दार्वाभिसारा दरदाः शका रमठतङ्गणाः 019a अन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः 019c म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः 019e संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः 020a एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह 020c न शक्या युधि निर्जेतुं त्वदन्येन परन्तप 021a धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महाबलम् 021c यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः 022a तत्सागरमिवोद्धूतं रजसा संवृतं बलम् 022c विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो 023a मागधानामधिपतिर्जयत्सेनो महाबलः 023c अद्य सप्तैव चाहानि हतः सङ्ख्येऽभिमन्युना 024a ततो दश सहस्राणि गजानां भीमकर्मणाम् 024c जघान गदया भीमस्तस्य राज्ञः परिच्छदम् 024e ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात् 025a तदेवं समरे तात वर्तमाने महाभये 025c भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः 025e सवाजिरथनागाश्च मृत्युलोकमितो गताः 026a तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः 026c भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष 027a स चेदिकाशिपाञ्चालान्करूषान्मत्स्यकेकयान् 027c शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित् 028a तस्य चापच्युतैर्बाणैः परदेहविदारणैः 028c पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः 029a गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् 029c हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत् 030a दिनानि दश भीष्मेण निघ्नता तावकं बलम् 030c शून्याः कृता रथोपस्था हताश्च गजवाजिनः 031a दर्शयित्वात्मनो रूपं रुद्रोपेन्द्रसमं युधि 031c पाण्डवानामनीकानि प्रविगाह्य व्यशातयत् 032a विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् 032c व्यदहत्पाण्डवीं सेनां नराश्वगजसङ्कुलाम् 033a मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् 033c तथा चरन्तं समरे तपन्तमिव भास्करम् 033e न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः 034a विचरन्तं तथा तं तु सङ्ग्रामे जितकाशिनम् 034c सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् 035a स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि 035c एक एव रणे भीष्म एकवीरत्वमागतः 036a तं शिखण्डी समासाद्य त्वया गुप्तो महारथम् 036c जघान पुरुषव्याघ्रं शरैः सन्नतपर्वभिः 037a स एष पतितः शेते शरतल्पे पितामहः 037c त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् 038a द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीः 038c कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् 039a जयद्रथस्य समरे कृत्वा रक्षां महारथः 039c अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः 040a अद्येति द्वे दिने वीरो भारद्वाजः प्रतापवान् 040c धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् 041a यदि चैव परान्युद्धे सूतपुत्रमुखान्रथान् 041c नावारयिष्यः सङ्ग्रामे न स्म द्रोणो व्यनङ्क्ष्यत 042a भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् 042c ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय 043a क इवान्यो रणे कुर्यात्त्वदन्यः क्षत्रियो युधि 043c यादृशं ते कृतं पार्थ जयद्रथवधं प्रति 044a निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् 044c निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा 045a आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः 045c अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः 046a त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत 046c तप्यमानमसंयुक्तं न भवेदिति मे मतिः 047a सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे 047c हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ 048a शीर्णप्रवरयोधाद्य हतवाजिनरद्विपा 048c हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती 049a विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात् 049c आसुरीव पुरा सेना शक्रस्येव पराक्रमैः 050a तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः 050c अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः 051a तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् 051c हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् 052a साकाशजलपातालां सपर्वतमहावनाम् 052c प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुन्धराम् 053a एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् 053c प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः 054a अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया 054c विष्णुना निहतेष्वेव दानवेयेषु देवताः 055a यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम् 055c अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् 056a अत्यन्तोपचितान्वा त्वं मानयन्भ्रातृबान्धवान् 056c कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् 057a भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् 057c यदि त्वमरविन्दाक्ष दयावान्न जिघांससि 058a इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति 058c कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः 059a एतत्ते सुकृतं कर्म नात्र किञ्चिन्न युज्यते 059c वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन 060a दहने यत्सपुत्राया निशि मातुस्तवानघ 060c द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः 060e तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन 061a कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः 061c ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे 062a स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद 062c कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः 063a कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः 063c रोचितो भवता सार्धं जानतापि बलं तव 064a कर्णो हि भाषते नित्यमहं पार्थान्समागतान् 064c वासुदेवं सराजानं विजेष्यामि महारणे 065a प्रोत्साहयन्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः 065c समितौ गर्जते कर्णस्तमद्य जहि भारत 066a यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् 066c तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् 067a यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः 067c अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् 068a द्रोणद्रौणिकृपान्वीरान्कम्पयन्तो महारथान् 068c निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् 069a व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीवितान् 069c कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् 070a विधमन्तमनीकानि व्यथयन्तं महारथान् 070c मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम् 071a शरैः सौभद्रमायस्तं दहन्तमिव वाहिनीम् 071c तन्मे दहति गात्राणि सखे सत्येन ते शपे 072a यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो 072c अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः 073a सौभद्रशरनिर्भिन्नो विसञ्ज्ञः शोणितोक्षितः 073c निःश्वसन्क्रोधसन्दीप्तो विमुखः सायकार्दितः 074a अपयानकृतोत्साहो निराशश्चापि जीविते 074c तस्थौ सुविह्वलः सङ्ख्ये प्रहारजनितश्रमः 075a अथ द्रोणस्य समरे तत्कालसदृशं तदा 075c श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् 076a ततश्छिन्नायुधं तेन रणे पञ्च महारथाः 076c स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः 077a यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः 077c प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् 078a विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः 078c पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि 079a लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम् 079c प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव 080a इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः 080c पापः पापं वचः कर्णः शृण्वतस्तव भारत 081a तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः 081c शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः 082a यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि 082c तान्यद्य जीवितं चास्य शमयन्तु शरास्तव 083a गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान् 083c कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः 084a सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः 084c त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् 085a उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः 085c अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् 086a अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः 086c प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः 087a अद्य स्वशोणिते मग्नं शयानं पतितं भुवि 087c अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः 088a हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया 088c प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः 089a त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् 089c हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् 090a ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया 090c निराशो जीविते त्वद्य राज्ये चैव धनञ्जय 091a एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः 091c कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः 092a पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ 092c धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् 093a नकुलं सहदेवं च दुर्मुखं जनमेजयम् 093c सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् 094a अभ्याहतानां कर्णेन पाञ्चालानां महारणे 094c श्रूयते निनदो घोरस्त्वद्बन्धूनां परन्तप 095a न त्वेव भीताः पाञ्चालाः कथञ्चित्स्युः पराङ्मुखाः 095c न हि मृत्युं महेष्वासा गणयन्ति महारथाः 096a य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् 096c तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः 097a तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् 097c निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा 098a ते नित्यमुदिता जेतुं युद्धे शत्रूनरिन्दमाः 098c न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः 099a तेषामापततां शूरः पाञ्चालानां तरस्विनाम् 099c आदत्तेऽसूञ्शरैः कर्णः पतङ्गानामिवानलः 100a तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् 100c क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे 101a अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् 101c यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते 102a तापनं सर्वसैन्यानां घोररूपं सुदारुणम् 102c समावृत्य महासेनां ज्वलति स्वेन तेजसा 103a एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः 103c भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान् 104a एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत 104c कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः 105a एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः 105c सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः 106a पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत 106c हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः 107a नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले 107c यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् 108a तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ 108c यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि 109a त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् 109c नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते 110a एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् 110c कृतार्थः सफलः पार्थ सुखी भव नरोत्तम