001 सञ्जय उवाच 001a इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् 001c बभूव विमनाः पार्थः किङ्चित्कृत्वेव पातकम् 002a ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् 002c कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् 002e असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् 003a त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः 003c हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् 003e एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः 004a स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः 004c नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् 005a स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् 005c प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम 006a प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् 006c प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति 007a हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः 007c विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद 008a एतदत्र महाबाहो प्राप्तकालं मतं मम 008c एवं कृते कृतं चैव तव कार्यं भविष्यति 009a ततोऽर्जुनो महाराज लज्जया वै समन्वितः 009c धर्मराजस्य चरणौ प्रपेदे शिरसानघ 010a उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः 010c क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा 011a पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः 011c धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभ 012a उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम् 012c समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः 013a रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती 013c कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः 014a तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम् 014c प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम् 015a कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः 015c कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा 015e शरैः कृत्ता महेष्वास यतमानस्य संयुगे 016a सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन 016c व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् 017a तमद्य यदि वै वीर न हनिष्यसि सूतजम् 017c प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम 018a एवमुक्तः प्रत्युवाच विजयो भरतर्षभ 018c सत्येन ते शपे राजन्प्रसादेन तवैव च 018e भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते 019a यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा 019c महीतले पतिष्यामि सत्येनायुधमालभे 020a एवमाभाष्य राजानमब्रवीन्माधवं वचः 020c अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः 020e तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः 021a एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम 021c शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम् 022a एवं चापि हि मे कामो नित्यमेव महारथ 022c कथं भवान्रणे कर्णं निहन्यादिति मे मतिः 023a भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् 023c युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि 023e अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः 024a श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम् 024c प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन 025a दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः 025c परिसान्त्वय बीभत्सुं जयमाशाधि चानघ 026 युधिष्ठिर उवाच 026a एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव 026c वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया 027a अहं त्वामनुजानामि जहि कर्णं धनञ्जय 027c मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम् 028 सञ्जय उवाच 028a ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा 028c पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष 029a समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् 029c मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह 030a धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया 030c माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् 031 अर्जुन उवाच 031a अद्य तं पापकर्माणं सानुबन्धं रणे शरैः 031c नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् 032a येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् 032c तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् 033a अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते 033c सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते 034a नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् 034c इति सत्येन ते पादौ स्पृशामि जगतीपते 035 सञ्जय उवाच 035a प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना 035c पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः 036a कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः 036c आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे 037a उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः 037c रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः 038a एवमुक्ते महाराज फल्गुनेन महात्मना 038c उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् 038e अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् 039a आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम 039c योजयामास स रथं वैयाघ्रं शत्रुतापनम् 040a युक्तं तु रथमास्थाय दारुकेण महात्मना 040c आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च 040e समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् 041a तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः 041c आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति 042a तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत 042c निहतं मेनिरे कर्णं पाण्डवेन महात्मना 043a बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः 043c चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर 043e प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् 044a बहवः पक्षिणो राजन्पुन्नामानः शुभाः शिवाः 044c त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे 045a कङ्का गृध्रा वडाश्चैव वायसाश्च विशाम्पते 045c अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः 046a निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे 046c विनाशमरिसैन्यानां कर्णस्य च वधं तथा 047a प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत 047c चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति 048a ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः 048c दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा 049a गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः 049c न तेषां मानुषो जेता त्वदन्य इह विद्यते 050a दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः 050c त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् 051a को हि द्रोणं च भीष्मं च भगदत्तं च मारिष 051c विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् 052a श्रुतायुषं महावीर्यमच्युतायुषमेव च 052c प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी 053a तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च 053c वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन 053e असम्मोहश्च युद्धेषु विज्ञानस्य च सन्नतिः 054a भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् 054c पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् 055a धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः 055c आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा 056a ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् 056c येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः 057a अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव 057c मावमंस्था महाबाहो कर्णमाहवशोभिनम् 058a कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः 058c कृती च चित्रयोधी च देशे काले च कोविदः 059a तेजसा वह्निसदृशो वायुवेगसमो जवे 059c अन्तकप्रतिमः क्रोधे सिंहसंहननो बली 060a अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः 060c अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः 061a सर्वैर्योधगुणैर्युक्तो मित्राणामभयङ्करः 061c सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः 062a सर्वैरवध्यो राधेयो देवैरपि सवासवैः 062c ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम् 063a देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् 063c अशक्यः समरे जेतुं सर्वैरपि युयुत्सुभिः 064a दुरात्मानं पापमतिं नृशंसं दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् 064c हीनस्वार्थं पाण्डवेयैर्विरोधे हत्वा कर्णं धिष्ठितार्थो भवाद्य 065a वीरं मन्यत आत्मानं येन पापः सुयोधनः 065c तमद्य मूलं पापानां जय सौतिं धनञ्जय