001 सञ्जय उवाच 001a युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः 001c असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम् 002a तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा 002c उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत 003a नेह पश्यामि योद्धव्यं तव किञ्चिद्धनञ्जय 003c ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता 004a अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि 004c स राजा भवता दृष्टः कुशली च युधिष्ठिरः 005a तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् 005c हर्षकाले तु सम्प्राप्ते कस्मात्त्वा मन्युराविशत् 006a न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह 006c कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् 007a तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् 007c परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम 008a एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् 008c अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् 009a दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत् 009c छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम 010a तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम 010c समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे 011a तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् 011c प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् 011e एतदर्थं मया खड्गो गृहीतो यदुनन्दन 012a सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः 012c विशोको विज्वरश्चापि भविष्यामि जनार्दन 013a किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते 013c त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् 013e तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् 014 कृष्ण उवाच 014a इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया 014c अकाले पुरुषव्याघ्र संरम्भक्रिययानया 014e न हि धर्मविभागज्ञः कुर्यादेवं धनञ्जय 015a अकार्याणां च कार्याणां संयोगं यः करोति वै 015c कार्याणामक्रियाणां च स पार्थ पुरुषाधमः 016a अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः 016c समासविस्तरविदां न तेषां वेत्थ निश्चयम् 017a अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये 017c अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु 018a न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन 018c श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे 019a अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् 019c प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते 020a प्राणिनामवधस्तात सर्वज्यायान्मतो मम 020c अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथञ्चन 021a स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् 021c हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव 022a अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत 022c पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः 022e कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः 023a त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा 023c तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि 024a स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन् 024c असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम् 025a इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ 025c यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः 026a विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी 026c तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनञ्जय 027a सत्यस्य वचनं साधु न सत्याद्विद्यते परम् 027c तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम् 028a भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् 028c सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् 029a प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् 029c यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् 030a तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् 030c सत्यानृते विनिश्चित्य ततो भवति धर्मवित् 031a किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः 031c सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव 032a किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः 032c सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः 033 अर्जुन उवाच 033a आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा 033c बलाकान्धाभिसम्बद्धं नदीनां कौशिकस्य च 034 कृष्ण उवाच 034a मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत 034c यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः 035a सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् 035c स्वधर्मनिरतो नित्यं सत्यवागनसूयकः 036a स कदाचिन्मृगाल्ँलिप्सुर्नान्वविन्दत्प्रयत्नवान् 036c अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् 037a अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा 037c अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् 038a अप्सरोगीतवादित्रैर्नादितं च मनोरमम् 038c विमानमागमत्स्वर्गान्मृगव्याधनिनीषया 039a तद्भूतं सर्वभूतानामभावाय किलार्जुन 039c तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा 040a तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् 040c ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः 041a कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः 041c नदीनां सङ्गमे ग्रामाददूरे स किलावसत् 042a सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् 042c सत्यवादीति विख्यातः स तदासीद्धनञ्जय 043a अथ दस्युभयात्केचित्तदा तद्वनमाविशन् 043c दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः 044a अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् 044c कतमेन पथा याता भगवन्बहवो जनाः 044e सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः 045a स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह 045c बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः 045e ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः 046a तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः 046c गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः 046e अप्रभूतश्रुतो मूढो धर्माणामविभागवित् 047a वृद्धानपृष्ट्वा सन्देहं महच्छ्वभ्रमितोऽर्हति 047c तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति 048a दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति 048c श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः 049a न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते 049c प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् 050a धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः 050c यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः 051a येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् 051c अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन 052a अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः 052c श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् 053a प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये 053c नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् 053e अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः 054a यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि 054c श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् 055a न च तेभ्यो धनं देयं शक्ये सति कथञ्चन 055c पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् 055e तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् 056a एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि 056c एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः 057 अर्जुन उवाच 057a यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः 057c हितं चैव यथास्माकं तथैतद्वचनं तव 058a भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च 058c गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् 059a न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् 059c तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् 060a अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् 060c तस्मिन्समयसंयोगे ब्रूहि किञ्चिदनुग्रहम् 060e इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् 061a जानासि दाशार्ह मम व्रतं त्वं यो मां ब्रूयात्कश्चन मानुषेषु 061c अन्यस्मै त्वं गाण्डिवं देहि पार्थ यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः 062a हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूबरकेति चोक्तः 062c तन्मे राजा प्रोक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिसिंह 063a तं हत्वा चेत्केशव जीवलोके स्थाता कालं नाहमप्यल्पमात्रम् 063c सा च प्रतिज्ञा मम लोकप्रबुद्धा भवेत्सत्या धर्मभृतां वरिष्ठ 063e यथा जीवेत्पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमद्यार्हसि त्वम् 064 वासुदेव उवाच 064a राजा श्रान्तो जगतो विक्षतश्च कर्णेन सङ्ख्ये निशितैर्बाणसङ्घैः 064c तस्मात्पार्थ त्वां परुषाण्यवोचत्कर्णे द्यूतं ह्यद्य रणे निबद्धम् 065a तस्मिन्हते कुरवो निर्जिताः स्युरेवम्बुद्धिः पार्थिवो धर्मपुत्रः 065c यदावमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः 066a तन्मानितः पार्थिवोऽयं सदैव त्वया सभीमेन तथा यमाभ्याम् 066c वृद्धैश्च लोके पुरुषप्रवीरैस्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व 067a त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् 067c त्वमित्युक्तो हि निहतो गुरुर्भवति भारत 068a एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे 068c अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह 069a अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः 069c अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा 070a वधो ह्ययं पाण्डव धर्मराज्ञस्त्वत्तो युक्तो वेत्स्यते चैवमेषः 070c ततोऽस्य पादावभिवाद्य पश्चाच्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् 071a भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा कञ्चन पाण्डवेयः 071c मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ हृष्टः कर्णं त्वं जहि सूतपुत्रम् 072 सञ्जय उवाच 072a इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वधं तम् 072c ततोऽब्रवीदर्जुनो धर्मराजमनुक्तपूर्वं परुषं प्रसह्य 073a मा त्वं राजन्व्याहर व्याहरत्सु न तिष्ठसे क्रोशमात्रे रणार्धे 073c भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वयोधप्रवीरः 074a काले हि शत्रून्प्रतिपीड्य सङ्ख्ये हत्वा च शूरान्पृथिवीपतींस्तान् 074c यः कुञ्जराणामधिकं सहस्रं हत्वानदत्तुमुलं सिंहनादम् 075a सुदुष्करं कर्म करोति वीरः कर्तुं यथा नार्हसि त्वं कदाचित् 075c रथादवप्लुत्य गदां परामृशंस्तया निहन्त्यश्वनरद्विपान्रणे 076a वरासिना वाजिरथाश्वकुञ्जरांस्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् 076c प्रमृद्य पद्भ्यामहितान्निहन्ति यः पुनश्च दोर्भ्यां शतमन्युविक्रमः 077a महाबलो वैश्रवणान्तकोपमः प्रसह्य हन्ता द्विषतां यथार्हम् 077c स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः 078a महारथान्नागवरान्हयांश्च पदातिमुख्यानपि च प्रमथ्य 078c एको भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिन्दमोऽर्हति 079a कलिङ्गवङ्गाङ्गनिषादमागधान्सदामदान्नीलबलाहकोपमान् 079c निहन्ति यः शत्रुगणाननेकशः स माभिवक्तुं प्रभवत्यनागसम् 080a सुयुक्तमास्थाय रथं हि काले धनुर्विकर्षञ्शरपूर्णमुष्टिः 080c सृजत्यसौ शरवर्षाणि वीरो महाहवे मेघ इवाम्बुधाराः 081a बलं तु वाचि द्विजसत्तमानां क्षात्रं बुधा बाहुबलं वदन्ति 081c त्वं वाग्बलो भारत निष्ठुरश्च त्वमेव मां वेत्सि यथाविधोऽहम् 082a यतामि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च 082c एवं च मां वाग्विशिखैर्निहंसि त्वत्तः सुखं न वयं विद्म किञ्चित् 083a अवामंस्था मां द्रौपदीतल्पसंस्थो महारथान्प्रतिहन्मि त्वदर्थे 083c तेनातिशङ्की भारत निष्ठुरोऽसि त्वत्तः सुखं नाभिजानामि किञ्चित् 084a प्रोक्तः स्वयं सत्यसन्धेन मृत्युस्तव प्रियार्थं नरदेव युद्धे 084c वीरः शिखण्डी द्रौपदोऽसौ महात्मा मयाभिगुप्तेन हतश्च तेन 085a न चाभिनन्दामि तवाधिराज्यं यतस्त्वमक्षेष्वहिताय सक्तः 085c स्वयं कृत्वा पापमनार्यजुष्टमेभिर्युद्धे तर्तुमिच्छस्यरींस्तु 086a अक्षेषु दोषा बहवो विधर्माः श्रुतास्त्वया सहदेवोऽब्रवीद्यान् 086c तान्नैषि सन्तर्तुमसाधुजुष्टान्येन स्म सर्वे निरयं प्रपन्नाः 087a त्वं देविता त्वत्कृते राज्यनाशस्त्वत्सम्भवं व्यसनं नो नरेन्द्र 087c मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं भूयो राजन्कोपयन्नल्पभाग्यान् 088a एता वाचः परुषाः सव्यसाची स्थिरप्रज्ञं श्रावयित्वा ततक्ष 088c तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चाप्यसिमुद्बबर्ह 089a तमाह कृष्णः किमिदं पुनर्भवान्विकोशमाकाशनिभं करोत्यसिम् 089c प्रब्रूहि सत्यं पुनरुत्तरं विधेर्वचः प्रवक्ष्याम्यहमर्थसिद्धये 090a इत्येव पृष्टः पुरुषोत्तमेन सुदुःखितः केशवमाह वाक्यम् 090c अहं हनिष्ये स्वशरीरमेव प्रसह्य येनाहितमाचरं वै 091a निशम्य तत्पार्थवचोऽब्रवीदिदं धनञ्जयं धर्मभृतां वरिष्ठः 091c प्रब्रूहि पार्थ स्वगुणानिहात्मनस्तथा स्वहार्दं भवतीह सद्यः 092a तथास्तु कृष्णेत्यभिनन्द्य वाक्यं धनञ्जयः प्राह धनुर्विनाम्य 092c युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति शक्रसूनुः 093a न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम् 093c अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत् 094a मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे 094c स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा 095a पाणौ पृषत्का लिखिता ममेमे धनुश्च सङ्ख्ये विततं सबाणम् 095c पादौ च मे सशरौ सहध्वजौ न मादृशं युद्धगतं जयन्ति 096a हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः 096c संशप्तकानां किञ्चिदेवावशिष्टं सर्वस्य सैन्यस्य हतं मयार्धम् 097a शेते मया निहता भारती च चमू राजन्देवचमूप्रकाशा 097c ये नास्त्रज्ञास्तानहं हन्मि शस्त्रैस्तस्माल्लोकं नेह करोमि भस्मसात् 098a इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् 098c अप्यपुत्रा तेन राधा भवित्री कुन्ती मया वा तदृतं विद्धि राजन् 098e प्रसीद राजन्क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते 099a प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैनमभिप्रपन्नः 099c याम्येष भीमं समरात्प्रमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् 100a तव प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन् 100c इति प्रायादुपसङ्गृह्य पादौ समुत्थितो दीप्ततेजाः किरीटी 100e नेदं चिरात्क्षिप्रमिदं भविष्य;त्यावर्ततेऽसावभियामि चैनम् 101a एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फल्गुनस्य 101c उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः 102a कृतं मया पार्थ यथा न साधु येन प्राप्तं व्यसनं वः सुघोरम् 102c तस्माच्छिरश्छिन्द्धि ममेदमद्य कुलान्तकस्याधमपूरुषस्य 103a पापस्य पापव्यसनान्वितस्य विमूढबुद्धेरलसस्य भीरोः 103c वृद्धावमन्तुः परुषस्य चैव किं ते चिरं मामनुवृत्य रूक्षम् 104a गच्छाम्यहं वनमेवाद्य पापः सुखं भवान्वर्ततां मद्विहीनः 104c योग्यो राजा भीमसेनो महात्मा क्लीबस्य वा मम किं राज्यकृत्यम् 105a न चास्मि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य 105c भीमोऽस्तु राजा मम जीवितेन किं कार्यमद्यावमतस्य वीर 106a इत्येवमुक्त्वा सहसोत्पपात राजा ततस्तच्छयनं विहाय 106c इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोऽभ्युवाच 107a राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः 107c प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता 108a ब्रूयाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत 108c स वध्योऽस्य पुमाल्ँलोके त्वया चोक्तोऽयमीदृशम् 109a अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता 109c मच्छन्दादवमानोऽयं कृतस्तव महीपते 109e गुरूणामवमानो हि वध इत्यभिधीयते 110a तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः 110c व्यतिक्रममिमं राजन्सङ्क्षमस्वार्जुनं प्रति 111a शरणं त्वां महाराज प्रपन्नौ स्व उभावपि 111c क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः 112a राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् 112c सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् 112e यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् 113a इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः 113c ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा 113e कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः 114a एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम 114c अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव 114e मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत 115a भवन्तं नाथमासाद्य आवां व्यसनसागरात् 115c घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ 116a त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् 116c समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत