001 सञ्जय उवाच 001a श्रुत्वा कर्णं कल्यमुदारवीर्यं क्रुद्धः पार्थः फल्गुनस्यामितौजाः 001c धनञ्जयं वाक्यमुवाच चेदं युधिष्ठिरः कर्णशराभितप्तः 002a इदं यदि द्वैतवने ह्यवक्ष्यः कर्णं योद्धुं न प्रसहे नृपेति 002c वयं तदा प्राप्तकालानि सर्वे वृत्तान्युपैष्याम तदैव पार्थ 003a मयि प्रतिश्रुत्य वधं हि तस्य बलस्य चाप्तस्य तथैव वीर 003c आनीय नः शत्रुमध्यं स कस्मात्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः 004a अन्वाशिष्म वयमर्जुन त्वयि यियासवो बहु कल्याणमिष्टम् 004c तन्नः सर्वं विफलं राजपुत्र फलार्थिनां निचुल इवातिपुष्पः 005a प्रच्छादितं बडिशमिवामिषेण प्रच्छादितो गवय इवापवाचा 005c अनर्थकं मे दर्शितवानसि त्वं राज्यार्थिनो राज्यरूपं विनाशम् 006a यत्तत्पृथां वागुवाचान्तरिक्षे सप्ताहजाते त्वयि मन्दबुद्धौ 006c जातः पुत्रो वासवविक्रमोऽयं सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति 007a अयं जेता खाण्डवे देवसङ्घान्सर्वाणि भूतान्यपि चोत्तमौजाः 007c अयं जेता मद्रकलिङ्गकेकयानयं कुरून्हन्ति च राजमध्ये 008a अस्मात्परो न भविता धनुर्धरो न वै भूतः कश्चन जातु जेता 008c इच्छन्नार्यः सर्वभूतानि कुर्याद्वशे वशी सर्वसमाप्तविद्यः 009a कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः 009c सूर्यस्य भासा धनदस्य लक्ष्म्या शौर्येण शक्रस्य बलेन विष्णोः 010a तुल्यो महात्मा तव कुन्ति पुत्रो जातोऽदितेर्विष्णुरिवारिहन्ता 010c स्वेषां जयाय द्विषतां वधाय ख्यातोऽमितौजाः कुलतन्तुकर्ता 011a इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच 011c एवंविधं त्वां तच्च नाभूत्तवाद्य देवा हि नूनमनृतं वदन्ति 012a तथापरेषामृषिसत्तमानां श्रुत्वा गिरं पूजयतां सदैव 012c न सन्नतिं प्रैमि सुयोधनस्य न त्वा जानाम्याधिरथेर्भयार्तम् 013a त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थाय कपिध्वजं त्वम् 013c खड्गं गृहीत्वा हेमचित्रं समिद्धं धनुश्चेदं गाण्डिवं तालमात्रम् 013e स केशवेनोह्यमानः कथं नु कर्णाद्भीतो व्यपयातोऽसि पार्थ 014a धनुश्चैतत्केशवाय प्रदाय यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन् 014c ततोऽहनिष्यत्केशवः कर्णमुग्रं मरुत्पतिर्वृत्रमिवात्तवज्रः 015a मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे न वा गर्भोऽप्यभविष्यः पृथायाः 015c तत्ते श्रमो राजपुत्राभविष्यन्न सङ्ग्रामादपयातुं दुरात्मन्