001 सञ्जय उवाच 001a तद्धर्मशीलस्य वचो निशम्य राज्ञः क्रुद्धस्याधिरथौ महात्मा 001c उवाच दुर्धर्षमदीनसत्त्वं युधिष्ठिरं जिष्णुरनन्तवीर्यः 002a संशप्तकैर्युध्यमानस्य मेऽद्य सेनाग्रयायी कुरुसैन्यस्य राजन् 002c आशीविषाभान्खगमान्प्रमुञ्चन्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत् 003a दृष्ट्वा रथं मेघनिभं ममेममम्बष्ठसेना मरणे व्यतिष्ठत् 003c तेषामहं पञ्च शतानि हत्वा ततो द्रौणिमगमं पार्थिवाग्र्य 004a ततोऽपरान्बाणसङ्घाननेकानाकर्णपूर्णायतविप्रमुक्तान् 004c ससर्ज शिक्षास्त्रबलप्रयत्नैस्तथा यथा प्रावृषि कालमेघः 005a नैवाददानं न च सन्दधानं जानीमहे कतरेणास्यतीति 005c वामेन वा यदि वा दक्षिणेन स द्रोणपुत्रः समरे पर्यवर्तत् 006a अविध्यन्मां पञ्चभिर्द्रोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम् 006c अहं तु तं त्रिंशता वज्रकल्पैः समार्दयं निमिषस्यान्तरेण 007a स विक्षरन्रुधिरं सर्वगात्रै रथानीकं सूतसूनोर्विवेश 007c मयाभिभूतः सैनिकानां प्रबर्हानसावपश्यन्रुधिरेण प्रदिग्धान् 008a ततोऽभिभूतं युधि वीक्ष्य सैन्यं विध्वस्तयोधं द्रुतवाजिनागम् 008c पञ्चाशता रथमुख्यैः समेतः कर्णस्त्वरन्मामुपायात्प्रमाथी 009a तान्सूदयित्वाहमपास्य कर्णं द्रष्टुं भवन्तं त्वरयाभियातः 009c सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णाद्गन्धाद्गावः केसरिणो यथैव 010a महाझषस्येव मुखं प्रपन्नाः प्रभद्रकाः कर्णमभि द्रवन्ति 010c मृत्योरास्यं व्यात्तमिवान्वपद्यन्प्रभद्रकाः कर्णमासाद्य राजन् 011a आयाहि पश्याद्य युयुत्समानं मां सूतपुत्रं च वृतौ जयाय 011c षट्साहस्रा भारत राजपुत्राः स्वर्गाय लोकाय रथा निमग्नाः 012a समेत्याहं सूतपुत्रेण सङ्ख्ये वृत्रेण वज्रीव नरेन्द्रमुख्य 012c योत्स्ये भृशं भारत सूतपुत्रमस्मिन्सङ्ग्रामे यदि वै दृश्यतेऽद्य 013a कर्णं न चेदद्य निहन्मि राजन्सबान्धवं युध्यमानं प्रसह्य 013c प्रतिश्रुत्याकुर्वतां वै गतिर्या कष्टां गच्छेयं तामहं राजसिंह 014a आमन्त्रये त्वां ब्रूहि जयं रणे मे पुरा भीमं धार्तराष्ट्रा ग्रसन्ते 014c सौतिं हनिष्यामि नरेन्द्रसिंह सैन्यं तथा शत्रुगणांश्च सर्वान्