001 सञ्जय उवाच 001a महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ 001c हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना 002a तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना 002c स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ 003 युधिष्ठिर उवाच 003a स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय 003c प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ 004a अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम् 004c आशीविषसमं युद्धे सर्वशस्त्रविशारदम् 005a अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च 005c रक्षितं वृषसेनेन सुषेणेन च धन्विना 006a अनुज्ञातं महावीर्यं रामेणास्त्रेषु दुर्जयम् 006c त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे 007a हन्तारमरिसैन्यानाममित्रगणमर्दनम् 007c दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम् 008a अप्रधृष्यं महायुद्धे देवैरपि सवासवैः 008c अनलानिलयोस्तुल्यं तेजसा च बलेन च 009a पातालमिव गम्भीरं सुहृदानन्दवर्धनम् 009c अन्तकाभममित्राणां कर्णं हत्वा महाहवे 009e दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ 010a तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ 010c कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता 011a तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी 011c हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः 012a धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः 012c पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः 013a एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून् 013c जितवान्मां महाबाहो यतमानं महारणे 014a अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु 014c तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः 015a भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय 015c बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे 016a त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय 016c न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् 017a तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय 017c आत्मनो मरणं जानन्वाध्रीणस इव द्विपः 018a यस्यायमगमत्कालश्चिन्तयानस्य मे विभो 018c कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् 019a जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम् 019c पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् 020a यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय 020c तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् 021a सोऽहं तेनैव वीरेण समरेष्वपलायिना 021c सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः 022a को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः 022c ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना 023a न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे 023c तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् 024a तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा 024c तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः 025a शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः 025c रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः 026a महारथः समाख्यातः सर्वयुद्धविशारदः 026c धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः 027a पूजितो धृतराष्ट्रेण सपुत्रेण विशाम्पते 027c सदा त्वदर्थं राधेयः स कथं निहतस्त्वया 028a धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन 028c तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः 029a स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः 029c तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया 030a सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् 030c त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः 031a यः पर्युपासीत्प्रदिशो दिशश्च त्वां सूतपुत्रः समरे परीप्सन् 031c दित्सुः कर्णः समरे हस्तिपूगं स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः 032a त्वया रणे निहतः सूतपुत्रः कच्चिच्छेते भूमितले दुरात्मा 032c कच्चित्प्रियं मे परमं त्वयाद्य कृतं रणे सूतपुत्रं निहत्य 033a यः सर्वतः पर्यपतत्त्वदर्थे मदान्वितो गर्वितः सूतपुत्रः 033c स शूरमानी समरे समेत्य कच्चित्त्वया निहतः संयुगेऽद्य 034a रौक्मं रथं हस्तिवरैश्च युक्तं रथं दित्सुर्यः परेभ्यस्त्वदर्थे 034c सदा रणे स्पर्धते यः स पापः कच्चित्त्वया निहतस्तात युद्धे 035a योऽसौ नित्यं शूरमदेन मत्तो विकत्थते संसदि कौरवाणाम् 035c प्रियोऽत्यर्थं तस्य सुयोधनस्य कच्चित्स पापो निहतस्त्वयाद्य 036a कच्चित्समागम्य धनुःप्रमुक्तैस्त्वत्प्रेषितैर्लोहितार्थैर्विहङ्गैः 036c शेतेऽद्य पापः स विभिन्नगात्रः कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः 037a योऽसौ सदा श्लाघते राजमध्ये दुर्योधनं हर्षयन्दर्पपूर्णः 037c अहं हन्ता फल्गुनस्येति मोहात्कच्चिद्धतस्तस्य न वै तथा रथः 038a नाहं पादौ धावयिष्ये कदाचिद्यावत्स्थितः पार्थ इत्यल्पबुद्धिः 038c व्रतं तस्यैतत्सर्वदा शक्रसूनो कच्चित्त्वया निहतः सोऽद्य कर्णः 039a योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः कर्णः सभायां कुरुवीरमध्ये 039c किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान्पतितान्हीनसत्त्वान् 040a यत्तत्कर्णः प्रत्यजानात्त्वदर्थे नाहत्वाहं सह कृष्णेन पार्थम् 040c इहोपयातेति स पापबुद्धिः कच्चिच्छेते शरसम्भिन्नगात्रः 041a कच्चित्सङ्ग्रामे विदितो वा तदायं समागमः सृञ्जयकौरवाणाम् 041c यत्रावस्थामीदृशीं प्रापितोऽहं कच्चित्त्वया सोऽद्य हतः समेत्य 042a कच्चित्त्वया तस्य सुमन्दबुद्धेर्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः 042c सकुण्डलं भानुमदुत्तमाङ्गं कायात्प्रकृत्तं युधि सव्यसाचिन् 043a यत्तन्मया बाणसमर्पितेन ध्यातोऽसि कर्णस्य वधाय वीर 043c तन्मे त्वया कच्चिदमोघमद्य ध्यातं कृतं कर्णनिपातनेन 044a यद्दर्पपूर्णः स सुयोधनोऽस्मानवेक्षते कर्णसमाश्रयेण 044c कच्चित्त्वया सोऽद्य समाश्रयोऽस्य भग्नः पराक्रम्य सुयोधनस्य 045a यो नः पुरा षण्ढतिलानवोचत्सभामध्ये पार्थिवानां समक्षम् 045c स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये त्वया हतः सूतपुत्रोऽत्यमर्षी 046a यः सूतपुत्रः प्रहसन्दुरात्मा पुराब्रवीन्निर्जितां सौबलेन 046c स्वयं प्रसह्यानय याज्ञसेनीमपीह कच्चित्स हतस्त्वयाद्य 047a यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां पितामहं व्याक्षिपदल्पचेताः 047c सङ्ख्यायमानोऽर्धरथः स कच्चित्त्वया हतोऽद्याधिरथिर्दुरात्मा 048a अमर्षणं निकृतिसमीरणेरितं हृदि श्रितं ज्वलनमिमं सदा मम 048c हतो मया सोऽद्य समेत्य पापधीरिति ब्रुवन्प्रशमय मेऽद्य फल्गुन