001 सञ्जय उवाच 001a द्रौणिस्तु रथवंशेन महता परिवारितः 001c आपतत्सहसा राजन्यत्र राजा व्यवस्थितः 002a तमापतन्तं सहसा शूरः शौरिसहायवान् 002c दधार सहसा पार्थो वेलेव मकरालयम् 003a ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् 003c अर्जुनं वासुदेवं च छादयामास पत्रिभिः 004a अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः 004c विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा 005a अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव 005c तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत 006a यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया 006c तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् 007a अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे 007c अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् 008a स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः 008c वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे 009a ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः 009c चकार समरे भूमिं शोणितौघतरङ्गिणीम् 010a निहता रथिनः पेतुः पार्थचापच्युतैः शरैः 010c हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः 011a तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः 011c अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः 012a ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा 012c वक्षोदेशे समासाद्य ताडयामास संयुगे 013a सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत 013c आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् 014a तमापतन्तं परिघं कार्तस्वरविभूषितम् 014c द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः 015a सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः 015c विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना 016a ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः 016c सारथिं चास्य भल्लेन रथनीडादपाहरत् 017a स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः 017c तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् 018a अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत् 018c तदस्य समरे राजन्सर्वे योधा अपूजयन् 019a यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः 019c ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः 020a प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः 020c ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत 021a पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन् 021c समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः 022a पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः 022c पुनः पुनरथो वीरैरभज्यत जयोद्धतैः 023a पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् 023c शकुनेः सौबलेयस्य कर्णस्य च महात्मनः 024a वार्यमाणा महासेना पुत्रैस्तव जनेश्वर 024c नावतिष्ठत सङ्ग्रामे ताड्यमाना समन्ततः 025a ततो योधैर्महाराज पलायद्भिस्ततस्ततः 025c अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् 026a तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः 026c नावतिष्ठत सा सेना वध्यमाना महात्मभिः 027a अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः 027c धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः 028a ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव 028c पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् 029a त्वयि तिष्ठति सन्त्रासात्पलायति समन्ततः 029c एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिन्दम 030a सहस्राणि च योधानां त्वामेव पुरुषर्षभ 030c क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः 031a एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् 031c मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः 032a पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर 032c अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह 032e वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर 033a एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् 033c प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् 033e सज्यं कृत्वा महाराज सम्मृज्य च पुनः पुनः 034a सन्निवार्य च योधान्स्वान्सत्येन शपथेन च 034c प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः 035a ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च 035c कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे 036a ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः 036c सञ्छन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन 037a हाहाकारो महानासीत्पाञ्चालानां विशाम्पते 037c पीडितानां बलवता भार्गवास्त्रेण संयुगे 038a निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः 038c रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः 039a प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः 039c व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् 040a कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः 040c दहञ्शत्रून्नरव्याघ्र शुशुभे स परन्तपः 041a ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह 041c तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः 041e चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः 042a तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि 042c धावतां च दिशो राजन्वित्रस्तानां समन्ततः 042e आर्तनादो महांस्तत्र प्रेतानामिव सम्प्लवे 043a वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष 043c वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि 044a ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः 044c अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः 044e प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः 045a अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनञ्जयः 045c भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् 046a पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् 046c नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन 047a सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे 047c अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् 048a सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः 048c न च पश्यामि समरे कर्णस्य प्रपलायितम् 049a जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ 049c जितस्य तु हृषीकेश वध एव कुतो जयः 050a ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम् 050c श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष 051a अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः 051c तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि 052a ततो धनञ्जयो द्रष्टुं राजानं बाणपीडितम् 052c रथेन प्रययौ क्षिप्रं सङ्ग्रामे केशवाज्ञया 053a गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया 053c सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् 054a युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत 054c दुःसहं वज्रिणा सङ्ख्ये पराजिग्ये भृगोः सुतम् 055a द्रौणिं पराजित्य ततोग्रधन्वा कृत्वा महद्दुष्करमार्यकर्म 055c आलोकयामास ततः स्वसैन्यं धनञ्जयः शत्रुभिरप्रधृष्यः 056a स युध्यमानः पृतनामुखस्थाञ्शूराञ्शूरो हर्षयन्सव्यसाची 056c पूर्वापदानैः प्रथितैः प्रशंसन्स्थिरांश्चकारात्मरथाननीके 057a अपश्यमानस्तु किरीटमाली युधि ज्येष्ठं भ्रातरमाजमीढम् 057c उवाच भीमं तरसाभ्युपेत्य राज्ञः प्रवृत्तिस्त्विह केति राजन् 058 भीम उवाच 058a अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः 058c कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथञ्चन 059 अर्जुन उवाच 059a तस्माद्भवाञ्शीघ्रमितः प्रयातु राज्ञः प्रवृत्त्यै कुरुसत्तमस्य 059c नूनं हि विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ 060a यः सम्प्रहारे निशि सम्प्रवृत्ते द्रोणेन विद्धोऽतिभृशं तरस्वी 060c तस्थौ च तत्रापि जयप्रतीक्षो द्रोणेन यावन्न हतः किलासीत् 061a स संशयं गमितः पाण्डवाग्र्यः सङ्ख्येऽद्य कर्णेन महानुभावः 061c ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुध्य 062 भीम उवाच 062a त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य 062c अहं हि यद्यर्जुन यामि तत्र वक्ष्यन्ति मां भीत इति प्रवीराः 063a ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकं स्थिता मे 063c एतानहत्वा न मया तु शक्यमितोऽपयातुं रिपुसङ्घगोष्ठात् 064a अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमाश्रित्य कुरुप्रवीर 064c संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये सर्वानहं याहि धनञ्जयेति 065a तद्भीमसेनस्य वचो निशम्य सुदुर्वचं भ्रातुरमित्रमध्ये 065c द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं प्रोवाच वृष्णिप्रवरं तदानीम् 066a चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम् 066c अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव 067a ततो हयान्सर्वदाशार्हमुख्यः प्राचोदयद्भीममुवाच चेदम् 067c नैतच्चित्रं तव कर्माद्य वीर यास्यामहे जहि भीमारिसङ्घान् 068a ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः 068c शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः 069a प्रत्यनीके व्यवस्थाप्य भीमसेनमरिन्दमम् 069c सन्दिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् 070a ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम् 070c रथादुभौ प्रत्यवरुह्य तस्माद्ववन्दतुर्धर्मराजस्य पादौ 071a तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ 071c मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् 072a तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव 072c हते महासुरे जम्भे शक्रविष्णू यथा गुरुः 073a मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः 073c हर्षगद्गदया वाचा प्रीतः प्राह परन्तपौ