001 धृतराष्ट्र उवाच 001a निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे 001c वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः 002a द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः 002c किमकुर्वन्त कुरवस्तन्ममाचक्ष्व सञ्जय 003 सञ्जय उवाच 003a दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् 003c क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् 004a तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् 004c यत्नेन महता राजन्पर्यवस्थापयद्बली 005a व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् 005c प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् 006a प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः 006c धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् 007a भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः 007c धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः 008a पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् 008c अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः 009a तथैव तावका राजन्पाण्डवानामनीकिनीम् 009c अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः 010a रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् 010c बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् 011a शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव 011c दुःशासनं महाराज महत्या सेनया वृतम् 012a नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः 012c उलूकं समरे राजन्सहदेवः समभ्ययात् 013a सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान् 013c अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः 014a युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे 014c कृतवर्मा च बलवानुत्तमौजसमाद्रवत् 015a भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष 015c सहानीकान्महाबाहुरेक एवाभ्यवारयत् 016a शिखण्डी च ततः कर्णं विचरन्तमभीतवत् 016c भीष्महन्ता महाराज वारयामास पत्रिभिः 017a प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः 017c शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत् 018a धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत 018c राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः 019a सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे 019c कर्णं विव्याध समरे नवत्या निशितैः शरैः 020a तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः 020c उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः 021a हताश्वात्तु ततो यानादवप्लुत्य महारथः 021c शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः 022a तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः 022c शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः 023a कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः 023c अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः 024a ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् 024c तूलराशिं समासाद्य यथा वायुर्महाजवः 025a धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः 025c दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे 026a तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष 026c शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा 027a धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः 027c दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत 028a आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् 028c शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते 029a अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः 029c धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत् 030a ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष 030c क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः 031a अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ 031c धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् 032a तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः 032c व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः 033a ततः प्रववृते युद्धं तावकानां परैः सह 033c घोरं प्राणभृतां काले घोररूपं परन्तप 034a नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः 034c पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत 035a नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव 035c नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् 036a सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 036c शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः 037a ततः शरसहस्रेण तावुभौ पुरुषर्षभौ 037c अन्योन्यमाच्छादयतामथाभज्यत वाहिनी 038a दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः 038c निवारयामास बलादनुपत्य विशाम्पते 038e निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ 039a कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु 039c जुगोप चक्रं त्वरितं राधेयस्यैव मारिष 040a उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः 040c तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् 040e सारथिं प्रेषयामास यमस्य सदनं प्रति 041a उलूकस्तु ततो यानादवप्लुत्य विशाम्पते 041c त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः 042a सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः 042c ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव 043a सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् 043c विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् 044a अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत 044c सारथिं च महाराज त्रिभिरेव समार्दयत् 044e अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् 045a ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ 045c आरुरोह रथं तूर्णमुलूकस्य महारथः 045e अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः 046a सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् 046c अभिदुद्राव वेगेन ततोऽनीकमभिद्यत 047a शैनेयशरनुन्नं तु ततः सैन्यं विशाम्पते 047c भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् 048a भीमसेनं तव सुतो वारयामास संयुगे 048c तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् 048e चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः 049a ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात् 049c कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् 049e तत्र रावो महानासीद्भीममेकं जिघांसताम् 050a युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे 050c अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः 051a युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ 051c ततोऽपायाद्रथेनैव युधामन्युर्महारथः 052a उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम् 052c छादयामास सहसा मेघो वृष्ट्या यथाचलम् 053a तद्युद्धं सुमहच्चासीद्घोररूपं परन्तप 053c यादृशं न मया युद्धं दृष्टपूर्वं विशाम्पते 054a कृतवर्मा ततो राजन्नुत्तमौजसमाहवे 054c हृदि विव्याध स तदा रथोपस्थ उपाविशत् 055a सारथिस्तमपोवाह रथेन रथिनां वरम् 055c ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत्