001 सञ्जय उवाच 001a एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत् 001c दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् 002a एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः 002c जिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते 003a तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः 003c युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः 004a एष दुर्योधनः पार्थ रथानीकेन दंशितः 004c राजा सर्वस्य लोकस्य राजानमनुधावति 005a जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली 005c आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः 006a एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः 006c युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः 007a पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः 007c जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः 008a एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् 008c समुद्रमिव वार्योघाः प्रावृट्काले महारथाः 009a नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान् 009c बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च 010a मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् 010c हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम् 011a यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव 011c नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम् 012a दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च 012c कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत् 013a दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः 013c सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे 014a कर्णेन च कृतो राजा विमुखः शत्रुतापनः 014c बलवाल्ँलघुहस्तश्च कृती युद्धविशारदः 015a राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे 015c सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः 016a तस्यैवं युध्यमानस्य सङ्ग्रामे संयतात्मनः 016c अन्यैरपि च पार्थस्य हृतं वर्म महारथैः 017a उपवासकृशो राजा भृशं भरतसत्तम 017c ब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो 018a न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः 018c यद्भीमसेनः सहते सिंहनादममर्षणः 019a नर्दतां धार्तराष्ट्राणां पुनः पुनररिन्दम 019c धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम् 020a युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ 020c सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् 021a स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च 021c प्रच्छादयन्तो राजानमनुयान्ति महारथाः 021e आतुरो मे मतो राजा सन्निषेव्यश्च भारत 022a यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः 022c त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः 022e मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः 023a न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः 023c पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः 024a धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो 024c पाञ्चालानां च सर्वेषां चेदीनां चैव भारत 025a एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् 025c शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः 026a एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन 026c पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः 027a एते भारत मातङ्गाः कर्णेनाभिहता रणे 027c आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश 028a रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः 028c द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना 029a हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह 029c रथस्थं सूतपुत्रस्य केतुं केतुमतां वर 030a असौ धावति राधेयो भीमसेनरथं प्रति 030c किरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम् 031a एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना 031c शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे 032a एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् 032c दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः 033a पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते 033c शत्रूञ्जित्वा यथा शक्रो देवसङ्घैः समावृतः 034a एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् 034c त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः 035a एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे 035c अभिभाषति राधेयः सर्वसैन्यानि मानदः 036a अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः 036c यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः 037a तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः 037c एवमुक्त्वा ययावेष पृष्ठतो विकिरञ्शरैः 038a पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम् 038c उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः 039a पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत 039c ध्रियमाणेन समरे तथा शतशलाकिना 040a एष त्वां प्रेक्षते कर्णः सकटाक्षो विशाम्पते 040c उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे 041a पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः 041c शरांश्चाशीविषाकारान्विसृजन्तं महाबलम् 042a असौ निवृत्तो राधेयो दृश्यते वानरध्वज 042c वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा 043a कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत 043c रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते 044a सार्वैः सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतः 044c त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता 045a आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ 045c कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे 046a प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम् 046c आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् 047a पञ्च ह्येतानि मुख्यानां रथानां रथसत्तम 047c शतान्यायान्ति वेगेन बलिनां भीमतेजसाम् 048a पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा 048c अभिसंहत्य कौन्तेय पदातिप्रयुतानि च 048e अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते 049a सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना 049c उत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ 050a असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति 050c केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति 050e समुच्छेत्स्यति पाञ्चालानिति मन्ये परन्तप 051a आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ 051c राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः 052a असौ भिमो महाबाहुः सन्निवृत्तश्चमूमुखे 052c वृतः सृञ्जयसैन्येन सात्यकेन च भारत 053a वध्यन्त एते समरे कौरवा निशितैः शरैः 053c भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः 054a सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात् 054c विप्रधावति वेगेन भीमस्य निहता शरैः 055a विपन्नसस्येव मही रुधिरेण समुक्षिता 055c भारती भरतश्रेष्ठ सेना कृपणदर्शना 056a निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् 056c आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी 057a पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः 057c पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन 058a सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः 058c केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते 059a रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः 059c नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः 060a निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय 060c समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः 061a मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात् 061c बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिन्दम 062a एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान् 062c अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् 063a पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परन्तप 063c धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् 064a सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः 064c पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः 065a सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे 065c कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः 066a सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान् 066c धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः 066e विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः 067a पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी 067c वज्रिवज्राहतानीव शिखराणि महीभृताम् 068a भीमसेनस्य निर्विद्धा बाणैः सन्नतपर्वभिः 068c स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः 069a नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् 069c नदतोऽर्जुन सङ्ग्रामे वीरस्य जितकाशिनः 070a एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् 070c जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः 071a सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः 071c तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः 072a हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः 072c पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान् 072e शक्तितोमरसङ्काशैर्विनिघ्नन्तं वृकोदरम् 073a सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः 073c निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते 073e दशभिर्दशभिश्चैको नाराचैर्निहतो गजः 074a न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा 074c पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभे 075a अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः 075c क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः 076 सञ्जय उवाच 076a भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् 076c अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः 077a ते वध्यमानाः समरे संशप्तकगणाः प्रभो 077c शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा 078a पार्थश्च पुरुषव्याघ्रः शरैः सन्नतपर्वभिः 078c जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम्