001 सञ्जय उवाच 001a ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः 001c युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् 002a ततः प्रववृते भीमः सङ्ग्रामो लोमहर्षणः 002c कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः 003a तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले शोणितोदके 003c संशप्तकेषु शूरेषु किञ्चिच्छिष्टेषु भारत 004a धृष्टद्युम्नो महाराज सहितः सर्वराजभिः 004c कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः 005a आगच्छमानांस्तान्सङ्ख्ये प्रहृष्टान्विजयैषिणः 005c दधारैको रणे कर्णो जलौघानिव पर्वतः 006a तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः 006c यथाचलं समासाद्य जलौघाः सर्वतोदिशम् 006e तयोरासीन्महाराज सङ्ग्रामो लोमहर्षणः 007a धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा 007c ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 008a विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः 008c पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् 008e ताडयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः 009a ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः 009c शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ 010a तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः 010c अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् 010e कर्णं विव्याध सप्तत्या शरैः सन्नतपर्वभिः 011a तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् 011c द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः 012a तस्य कर्णो महाराज शरं कनकभूषणम् 012c प्रेषयामास सङ्क्रुद्धो मृत्युदण्डमिवापरम् 013a तमापतन्तं सहसा घोररूपं विशाम्पते 013c चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् 014a दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशाम्पते 014c सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् 015a विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः 015c तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः 016a ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम् 016c राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः 017a सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत 017c तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप 018a एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् 018c पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् 019a अभ्यभाषत सङ्क्रुद्धो द्रौणिर्दूरे धनञ्जये 019c तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे 020a इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः 020c पार्षतं छादयामास घोररूपैः सुतेजनैः 020e यतमानं परं शक्त्या यतमानो महारथः 021a यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष 021c तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा 021e नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः 022a द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् 022c क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् 022e तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् 023a अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् 023c धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते 023e पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे 024a पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् 024c अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा 025a अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे 025c नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते 026a एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् 026c प्रतिवाक्यं स एवासिर्मामको दास्यते तव 026e येनैव ते पितुर्दत्तं यतमानस्य संयुगे 027a यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः 027c त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् 028a एवमुक्त्वा महाराज सेनापतिरमर्षणः 028c निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः 029a ततो द्रौणिः सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः 029c प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे 030a नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः 030c दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः 031a तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् 031c शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः 032a राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः 032c द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् 032e एकः स वारयामास प्रेक्षणीयः समन्ततः 033a धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् 033c तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् 033e वेगवत्समरे घोरं शरांश्चाशीविषोपमान् 034a स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् 034c हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः 035a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 035c खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् 036a द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः 036c चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः 036e रथादनवरूढस्य तदद्भुतमिवाभवत् 037a धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् 037c शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् 037e नातरद्भरतश्रेष्ठ यतमानो महारथः 038a तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् 038c अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् 039a आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः 039c गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् 040a एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् 040c पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति 040e यत्नं करोति विपुलं हन्याच्चैनमसंशयम् 041a तं मोचय महाबाहो पार्षतं शत्रुतापनम् 041c द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा 042a एवमुक्त्वा महाराज वासुदेवः प्रतापवान् 042c प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः 043a ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः 043c पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति 044a दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनञ्जयौ 044c धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः 045a विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर 045c शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः 046a ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् 046c द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः 047a स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् 047c रथमारुरुहे वीरो धनञ्जयशरार्दितः 047e प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः 048a एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप 048c अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् 049a अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः 049c तं द्रोणपुत्रः सङ्क्रुद्धो बाह्वोरुरसि चार्दयत् 050a क्रोधितस्तु रणे पार्थो नाराचं कालसम्मितम् 050c द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् 050e स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः 051a स विह्वलो महाराज शरवेगेन संयुगे 051c निषसाद रथोपस्थे वैक्लव्यं च परं ययौ 052a ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः 052c अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः 052e द्वैरथं चापि पार्थेन कामयानो महारणे 053a तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् 053c अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् 054a अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः 054c मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् 055a वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः 055c सिंहनादश्च सञ्जज्ञे दृष्ट्वा घोरं महाद्भुतम् 056a एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनञ्जयः 056c याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम 057a ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् 057c रथेनातिपताकेन मनोमारुतरंहसा