001 सञ्जय उवाच 001a त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः 001c पश्य कौरव्य राजानमपयातांश्च पाण्डवान् 002a कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् 002c असौ भीमो महेष्वासः सन्निवृत्तो रणं प्रति 003a तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः 003c पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम् 003e निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुबलं महत् 004a कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन 004c अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः 005a असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः 005c तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः 006a सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने 006c ततो राजन्प्रादुरासीन्महाघोरो महारणः 007a सिंहनादरवाश्चात्र प्रादुरासन्समागमे 007c उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम्