001 सञ्जय उवाच 001a भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम् 001c वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः 002a ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान् 002c कर्णो जघान सङ्क्रुद्धो भीमसेनस्य पश्यतः 003a भीमसेनस्ततः कर्णं विहाय रथसत्तमम् 003c प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् 004a सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा 004c सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः 005a संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः 005c पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः 006a ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः 006c जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव 007a ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः 007c विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः 008a ततः पुनरमेयात्मा तव पुत्रो जनाधिपः 008c क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् 009a नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः 009c जघान समरे राजन्सहदेवश्च पञ्चभिः 010a तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् 010c विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः 011a ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत 011c यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः 012a तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे 012c प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि 013a ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप 013c शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् 014a ततः क्रुद्धो महाराज तव पुत्रो महारथः 014c पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः 015a धनुर्मण्डलमेवास्य दृश्यते युधि भारत 015c सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः 016a तस्य सायकसञ्छन्नौ चकाशेतां च पाण्डवौ 016c मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ 017a ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः 017c आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा 018a बाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले 018c यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् 019a पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः 019c मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे 020a ततः सेनापती राजन्पाण्डवस्य महात्मनः 020c पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः 021a माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ 021c धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः 022a तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः 022c पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ 023a ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते 023c विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च 024a अथास्य सशरं चापं हस्तावापं च मारिष 024c क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे 025a तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः 025c अन्यदादत्त वेगेन धनुर्भारसहं नवम् 026a प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः 026c अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः 027a स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव 027c जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् 028a ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः 028c विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः 029a सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत 029c वसन्ते पुष्पशबलः सपुष्प इव किंशुकः 030a स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः 030c धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् 031a अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः 031c सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत् 032a तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः 032c प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः 033a तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः 033c अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश 034a ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः 034c धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् 035a रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् 035c भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः 036a तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् 036c ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः 037a दुर्योधनं तु विरथं छिन्नसर्वायुधं रणे 037c भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ 038a तमारोप्य रथे राजन्दण्डधारो जनाधिपम् 038c अपोवाह च सम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः 039a कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः 039c द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे 040a तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्शरैः 040c वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः 041a स भारत महानासीद्योधानां सुमहात्मनाम् 041c कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः 042a न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः 042c प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ 043a तस्मिन्क्षणे नरश्रेष्ठ गजवाजिनरक्षयः 043c प्रादुरासीदुभयतो राजन्मध्यङ्गतेऽहनि 044a पाञ्चालास्तु महाराज त्वरिता विजिगीषवः 044c सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् 045a तेषामाधिरथिः क्रुद्धो यतमानान्मनस्विनः 045c विचिन्वन्नेव बाणाग्रैः समासादयदग्रतः 046a व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनञ्जयम् 046c शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् 047a ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम् 047c सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम् 048a युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान् 048c अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः 049a अथापरान्महाराज सूतपुत्रः प्रतापवान् 049c जघान बहुसाहस्रान्योधान्युद्धविशारदः 050a विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च 050c दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम् 051a सिंहकेतुं रोचमानं शलभं च महारथम् 051c निजघान सुसङ्क्रुद्धश्चेदीनां च महारथान् 052a तेषामाददतः प्राणानासीदाधिरथेर्वपुः 052c शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् 053a तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः 053c सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् 054a निपेतुरुर्व्यां समरे कर्णसायकपीडिताः 054c कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः 055a गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः 055c रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी 056a नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः 056c चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे 057a सूतपुत्रेण नागेषु रथेषु च हयेषु च 057c नरेषु च नरव्याघ्र कृतं स्म कदनं महत् 058a मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् 058c पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् 059a यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः 059c पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा 060a सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् 060c तथा कर्णमनुप्राप्य न जीवन्ति महारथाः 061a वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः 061c कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः 062a कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत 062c विश्राव्य नाम निहता बहवः शूरसम्मताः 063a मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् 063c नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि 064a पाञ्चालान्विधमन्सङ्ख्ये सूतपुत्रः प्रतापवान् 064c अभ्यधावत सङ्क्रुद्धो धर्मपुत्रं युधिष्ठिरम् 065a धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष 065c परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः 066a शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा 066c जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः 067a एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे 067c कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः 068a तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान् 068c एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव 069a भीमसेनस्तु सङ्क्रुद्धः कुरून्मद्रान्सकेकयान् 069c एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत 070a तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः 070c प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् 071a वाजिनश्च हतारोहाः पत्तयश्च गतासवः 071c शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु 072a सहस्रशश्च रथिनः पतिताः पतितायुधाः 072c अक्षताः समदृश्यन्त भीमाद्भीता गतासवः 073a रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः 073c भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् 074a तत्स्तम्भितमिवातिष्ठद्भीमसेनबलार्दितम् 074c दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम् 075a निश्चेष्टं तुमुले दीनं बभौ तस्मिन्महारणे 075c प्रसन्नसलिलः काले यथा स्यात्सागरो नृप 076a मन्युवीर्यबलोपेतं बलात्पर्यवरोपितम् 076c अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा 076e रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह 077a सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् 077c भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत 078a वर्तमाने तथा रौद्रे सङ्ग्रामेऽद्भुतदर्शने 078c निहत्य पृतनामध्ये संशप्तकगणान्बहून् 079a अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् 079c प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन 080a एते धावन्ति सगणाः संशप्तकमहारथाः 080c अपारयन्तो मद्बाणान्सिंहशब्दान्मृगा इव 081a दीर्यते च महत्सैन्यं सृञ्जयानां महारणे 081c हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः 081e दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः 082a न च कर्णं रणे शक्ता जेतुमन्ये महारथाः 082c जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे 083a तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् 084a वर्जयित्वा रणे याहि सूतपुत्रं महारथम् 084c श्रमो मा बाधते कृष्ण यथा वा तव रोचते 085a एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव 085c अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव 086a ततस्तव महत्सैन्यं गोविन्दप्रेरिता हयाः 086c हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ 087a केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः 087c प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत 088a तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ 088c क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती 089a युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम् 089c यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ 090a क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः 090c तलशब्देन रुषितौ यथा नागौ महाहवे 091a विगाहन्स रथानीकमश्वसङ्घांश्च फल्गुनः 091c व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः 092a तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत 092c संशप्तकगणान्भूयः पुत्रस्ते समचोदयत् 093a ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः 093c चतुर्दशसहस्रैश्च तुरगाणां महाहवे 094a द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् 094c शूराणां नामलब्धानां विदितानां समन्ततः 094e अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः 095a स छाद्यमानः समरे शरैः परबलार्दनः 095c दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः 095e निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् 096a ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः 096c निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना 097a किरीटिभुजनिर्मुक्तैः सम्पतद्भिर्महाशरैः 097c समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो 098a रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्सन्नतपर्वणः 098c अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः 099a हत्वा दश सहस्राणि पार्थिवानां महारथः 099c संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोऽभ्ययात् 100a प्रपक्षं स समासाद्य पार्थः काम्बोजरक्षितम् 100c प्रममाथ बलाद्बाणैर्दानवानिव वासवः 101a प्रचिच्छेदाशु भल्लैश्च द्विषतामाततायिनाम् 101c शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत 102a अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ 102c विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः 103a हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् 103c सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् 104a अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ 104c पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः 105a स पपात ततो वाहात्स्वलोहितपरिस्रवः 105c मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् 106a सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् 106c प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् 106e काञ्चनस्तम्भसङ्काशं भिन्नं हेमगिरिं यथा 107a ततोऽभवत्पुनर्युद्धं घोरमद्भुतदर्शनम् 107c नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् 108a एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः 108c शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशाम्पते 109a रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः 109c द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः 109e अन्योन्येन महाराज कृतो घोरो जनक्षयः 110a तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना 110c अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ 111a विधुन्वानो महच्चापं कार्तस्वरविभूषितम् 111c आददानः शरान्घोरान्स्वरश्मीनिव भास्करः 112a तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः 112c सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ 113a ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् 113c निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ 114a हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा 114c चराचरस्य गोप्तारौ दृष्ट्वा सञ्छादितौ शरैः 115a सिद्धचारणसङ्घाश्च सम्पेतुर्वै समन्ततः 115c चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह 116a न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः 116c सञ्जज्ञे यादृशो द्रौणेः कृष्णौ सञ्छादयिष्यतः 117a द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे 117c अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा 118a ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः 118c विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् 119a स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः 119c सम्मोहं परमं गत्वा प्रैक्षत द्रोणजं ततः 120a स विक्रमं हृतं मेने आत्मनः सुमहात्मना 120c तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् 121a द्रौणिपाण्डवयोरेवं वर्तमाने महारणे 121c वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले 121e हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् 122a स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा 122c द्रौणिं ह्यपश्यत्सङ्ग्रामे फल्गुनं च मुहुर्मुहुः 123a ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थं सप्रणयं तदा 123c अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे 123e अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत 124a कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन 124c कच्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते 125a एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश 125c त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् 125e ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा 126a जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत् 126c स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः 127a तं विसञ्ज्ञं महाराज किरीटिभयपीडितम् 127c अपोवाह रणात्सूतो रक्षमाणो धनञ्जयात् 128a एतस्मिन्नेव काले तु विजयः शत्रुतापनः 128c न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः 128e पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत 129a एवमेष क्षयो वृत्तस्तावकानां परैः सह 129c क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव 130a संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः 130c वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे