001 सञ्जय उवाच 001a द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् 001c द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् 002a किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान् 002c दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत् 003a ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः 003c युधिष्ठिरं च समरे पर्यवारयदस्त्रवित् 004a द्रौणायनिशरच्छन्नं न प्राज्ञायत किञ्चन 004c बाणभूतमभूत्सर्वमायोधनशिरो हि तत् 005a बाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम् 005c शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम् 006a तेन छन्ने रणे राजन्बाणजालेन भास्वता 006c अभ्रच्छायेव सञ्जज्ञे बाणरुद्धे नभस्तले 007a तत्राश्चर्यमपश्याम बाणभूते तथाविधे 007c न स्म सम्पतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् 008a लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः 008c व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम् 008e शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् 009a सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः 009c तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् 010a वध्यमाने ततः सैन्ये द्रौपदेया महारथाः 010c सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः 010e त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् 011a सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः 011c पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः 012a युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः 012c श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः 013a सुतसोमश्च नवभिः शतानीकश्च सप्तभिः 013c अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः 014a सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन् 014c सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः 015a श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः 015c अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः 015e शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः 016a अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत् 016c श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः 017a अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः 017c द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः 018a ततो द्रौणिर्महाराज शरवर्षेण भारत 018c छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान् 019a ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् 019c द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः 020a ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः 020c द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत् 021a सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे 021c अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम् 022a छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः 022c सारथिं पातयामास शैनेयस्य रथाद्द्रुतम् 023a अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान् 023c शैनेयं शरवर्षेण छादयामास भारत 024a तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ 024c तत्र तत्रैव धावन्तः समदृश्यन्त भारत 025a युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम् 025c अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान् 026a आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परन्तपः 026c प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे 027a ततः शरशतज्वालः सेनाकक्षं महारथः 027c द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने 028a तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् 028c चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् 029a दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम् 029c निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै 030a युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम् 030c अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः 031a नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता 031c यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि 032a ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा 032c क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः 033a मिषतस्ते महाबाहो जेष्यामि युधि कौरवान् 033c कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम् 034a एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव 034c युक्तत्वं तच्च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत् 035a अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम् 035c छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः 036a सञ्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष 036c पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम् 037a अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे 037c द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः 038a ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे 038c प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे