001 सञ्जय उवाच 001a कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष 001c उलूकः सौबलश्चैव राजा च सह सोदरैः 002a सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् 002c समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे 003a ततो युद्धमतीवासीन्मुहूर्तमिव भारत 003c भीरूणां त्रासजननं शूराणां हर्षवर्धनम् 004a कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे 004c सृञ्जयाः शातयामासुः शलभानां व्रजा इव 005a शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ 005c ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे 006a कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् 006c शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः 007a ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे 007c कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः 008a ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः 008c व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः 009a हताश्वात्तु ततो यानादवप्लुत्य महारथः 009c चर्मखड्गे च सङ्गृह्य सत्वरं ब्राह्मणं ययौ 010a तमापतन्तं सहसा शरैः सन्नतपर्वभिः 010c छादयामास समरे तदद्भुतमिवाभवत् 011a तत्राद्भुतमपश्याम शिलानां प्लवनं यथा 011c निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत 012a कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम् 012c प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः 013a धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति 013c प्रतिजग्राह वेगेन कृतवर्मा महारथः 014a युधिष्ठिरमथायान्तं शारद्वतरथं प्रति 014c सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् 015a नकुलं सहदेवं च त्वरमाणौ महारथौ 015c प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् 016a भीमसेनं करूषांश्च केकयान्सहसृञ्जयान् 016c कर्णो वैकर्तनो युद्धे वारयामास भारत 017a शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि 017c प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष 018a ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान् 018c चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः 019a शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह 019c व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः 020a स विचर्मा महाराज खड्गपाणिरुपाद्रवत् 020c कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः 021a शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम् 021c चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ 022a विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः 022c अभ्यापतदमेयात्मा गौतमस्य रथं प्रति 023a दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम् 023c अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम 024a सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः 024c विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः 025a अथास्य सशरं चापं पुनश्चिच्छेद मारिष 025c सारथिं च शरेणास्य भृशं मर्मण्यताडयत् 026a गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् 026c सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् 027a स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे 027c भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् 028a चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम् 028c सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् 029a तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् 029c ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः 030a तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः 030c गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश 031a धृष्टद्युम्नं तु समरे सन्निवार्य महाबलः 031c कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् 032a तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे 032c आमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप 033a धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः 033c आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् 034a कृतवर्मा तु समरे पार्षतेन दृढाहतः 034c पार्षतं सरथं साश्वं छादयामास सायकैः 035a सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते 035c मेघैरिव परिच्छन्नो भास्करो जलदागमे 036a विधूय तं बाणगणं शरैः कनकभूषणैः 036c व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः 037a ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् 037c कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः 038a तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम् 038c शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि 039a दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम् 039c कृतवर्माणमभ्येत्य वारयामास पार्षतः 040a सारथिं चास्य तरसा प्राहिणोद्यमसादनम् 040c भल्लेन शितधारेण स हतः प्रापतद्रथात् 041a धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम् 041c कौरवान्समरे तूर्णं वारयामास सायकैः 042a ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् 042c सिंहनादरवं कृत्वा ततो युद्धमवर्तत