001 सञ्जय उवाच 001a वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने 001c गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष 002a संशप्तकानां कदनमकरोद्यत्र पाण्डवः 002c कोसलानां तथा राजन्नारायणबलस्य च 003a संशप्तकास्तु समरे शरवृष्टिं समन्ततः 003c अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः 004a तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः 004c व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः 005a निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः 005c आससाद रणे पार्थः सुशर्माणं महारथम् 006a स तस्य शरवर्षाणि ववर्ष रथिनां वरः 006c तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः 007a सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः 007c जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे 007e ततोऽपरेण भल्लेन केतुं विव्याध मारिष 008a स वानरवरो राजन्विश्वकर्मकृतो महान् 008c ननाद सुमहन्नादं भीषयन्वै ननर्द च 009a कपेस्तु निनदं श्रुत्वा सन्त्रस्ता तव वाहिनी 009c भयं विपुलमादाय निश्चेष्टा समपद्यत 010a ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप 010c नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् 011a प्रतिलभ्य ततः सञ्ज्ञां योधास्ते कुरुसत्तम 011c अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव 011e परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् 012a ते हयान्रथचक्रे च रथेषाश्चापि भारत 012c निगृह्य बलवत्तूर्णं सिंहनादमथानदन् 013a अपरे जगृहुश्चैव केशवस्य महाभुजौ 013c पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा 014a केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि 014c पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः 015a ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः 015c निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् 015e रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् 016a आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः 016c च्यावयामास समरे केशवं चेदमब्रवीत् 017a पश्य कृष्ण महाबाहो संशप्तकगणान्मया 017c कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः 018a रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन 018c यः सहेत पुमाल्ँलोके मदन्यो यदुपुङ्गव 019a इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत् 019c पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी 020a तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी 020c सञ्चचाल महाराज वित्रस्ता चाभवद्भृशम् 021a पदबन्धं ततश्चक्रे पाण्डवः परवीरहा 021c नागमस्त्रं महाराज सम्प्रोदीर्य मुहुर्मुहुः 022a यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह 022c ते बद्धाः पदबन्धेन पाण्डवेन महात्मना 022e निश्चेष्टा अभवन्राजन्नश्मसारमया इव 023a निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः 023c यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा 024a ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् 024c आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः 025a ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् 025c सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः 026a ततः सुपर्णाः सम्पेतुर्भक्षयन्तो भुजङ्गमान् 026c ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप 027a बभौ बलं तद्विमुक्तं पदबन्धाद्विशाम्पते 027c मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः 028a विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति 028c ससृजुर्बाणसङ्घांश्च शस्त्रसङ्घांश्च मारिष 029a तां महास्त्रमयीं वृष्टिं सञ्छिद्य शरवृष्टिभिः 029c व्यवातिष्ठत्ततो योधान्वासविः परवीरहा 030a सुशर्मा तु ततो राजन्बाणेनानतपर्वणा 030c अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः 030e स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 031a प्रतिलभ्य ततः सञ्ज्ञां श्वेताश्वः कृष्णसारथिः 031c ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः 031e ततो बाणसहस्राणि समुत्पन्नानि मारिष 032a सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् 032c हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः 033a वध्यमाने ततः सैन्ये विपुला भीः समाविशत् 033c संशप्तकगणानां च गोपालानां च भारत 033e न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत 034a पश्यतां तत्र वीराणामहन्यत महद्बलम् 034c हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे 035a अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे 035c व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् 036a चतुर्दश सहस्राणि यानि शिष्टानि भारत 036c रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः 037a ततः संशप्तका भूयः परिवव्रुर्धनञ्जयम् 037c मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् 038a तत्र युद्धं महद्ध्यासीत्तावकानां विशाम्पते 038c शूरेण बलिना सार्धं पाण्डवेन किरीटिना