001 सञ्जय उवाच 001a क्षत्रियास्ते महाराज परस्परवधैषिणः 001c अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् 002a रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः 002c गजौघाश्च महाराज संसक्ताः स्म परस्परम् 003a गदानां परिघाणां च कणपानां च सर्पताम् 003c प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः 004a सम्पातं चान्वपश्याम सङ्ग्रामे भृशदारुणे 004c शलभा इव सम्पेतुः समन्ताच्छरवृष्टयः 005a नागा नागान्समासाद्य व्यधमन्त परस्परम् 005c हया हयांश्च समरे रथिनो रथिनस्तथा 005e पत्तयः पत्तिसङ्घैश्च हयसङ्घैर्हयास्तथा 006a पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च 006c नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप 007a पततां तत्र शूराणां क्रोशतां च परस्परम् 007c घोरमायोधनं जज्ञे पशूनां वैशसं यथा 008a रुधिरेण समास्तीर्णा भाति भारत मेदिनी 008c शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा 009a यथा वा वाससी शुक्ले महारजनरञ्जिते 009c बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुन्धरा 009e मांसशोणितचित्रेव शातकौम्भमयीव च 010a छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह 010c कुण्डलानां प्रविद्धानां भूषणानां च भारत 011a निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् 011c वर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि 012a गजान्गजाः समासाद्य विषाणाग्रैरदारयन् 012c विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा 013a रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव 013c यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः 014a तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् 014c हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा 015a नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः 015c हिमागमे महाराज व्यभ्रा इव महीधराः 016a शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः 016c उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव मारिष 017a केचिदभ्याहता नागा नागैर्नगनिभा भुवि 017c निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः 018a अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः 018c प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे 019a निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् 019c मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा 020a हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः 020c निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश 021a अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले 021c भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः 022a नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष 022c दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् 023a धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत 023c गोत्रनामानि ख्यातानि शशंसुरितरेतरम् 024a तेषां छिन्ना महाराज भुजाः कनकभूषणाः 024c उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च 025a निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः 025c वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः 026a ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशाम्पते 026c लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव 027a वर्तमाने तथा घोरे सङ्कुले सर्वतोदिशम् 027c अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् 028a भौमेन रजसा कीर्णे शस्त्रसम्पातसङ्कुले 028c नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते 029a तथा तदभवद्युद्धं घोररूपं भयानकम् 029c शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् 030a शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः 030c अस्थिसङ्घातसङ्कीर्णा धनुःशरवरोत्तमाः 031a मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः 031c नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः 032a ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् 032c अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् 033a क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह 033c घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् 034a उत्थितान्यगणेयानि कबन्धानि समन्ततः 034c नृत्यन्ति वै भूतगणाः सन्तृप्ता मांसशोणितैः 035a पीत्वा च शोणितं तत्र वसां पीत्वा च भारत??? 035c मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि 035e धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा 036a शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् 036c योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् 037a शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले 037c व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् 038a अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत 038c पितृनामानि च रणे गोत्रनामानि चाभितः 039a श्रावयन्तो हि बहवस्तत्र योधा विशाम्पते 039c अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः 040a वर्तमाने तदा युद्धे घोररूपे सुदारुणे 040c व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे