001 धृतराष्ट्र उवाच 001a सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय 001c येन कर्णो महाबाहू रथोपस्थे निपातितः 002a कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह 002c इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः 003a पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे 003c ततः परं किमकरोत्पुत्रो दुर्योधनो मम 004 सञ्जय उवाच 004a विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे 004c महत्या सेनया राजन्सोदर्यान्समभाषत 005a शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत 005c भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे 006a ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः 006c अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गा इव पावकम् 007a श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः 007c निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ 008a दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ 008c धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः 009a एते रथैः परिवृता वीर्यवन्तो महाबलाः 009c भीमसेनं समासाद्य समन्तात्पर्यवारयन् 009e ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः 010a स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः 010c तेषामापततां क्षिप्रं सुतानां ते नराधिप 010e रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् 011a विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः 011c सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा 011e भीमेन च महाराज स पपात हतो भुवि 012a तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो 012c अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् 013a ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे 013c जहार समरे प्राणान्भीमो भीमपराक्रमः 014a तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ 014c विकटश्च समश्चोभौ देवगर्भसमौ नृप 015a ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् 015c नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि 016a हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर 016c वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु 017a तेषां संलुलिते सैन्ये भीमसेनो महाबलः 017c नन्दोपनन्दौ समरे प्रापयद्यमसादनम् 018a ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः 018c भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् 019a पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः 019c हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः 020a ते प्रेषिता महाराज मद्रराजेन वाजिनः 020c भीमसेनरथं प्राप्य समसज्जन्त वेगिताः 021a स सन्निपातस्तुमुलो घोररूपो विशाम्पते 021c आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे 022a दृष्ट्वा मम महाराज तौ समेतौ महारथौ 022c आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति 023a ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव 023c विरथं भीमकर्माणं भीमं कर्णश्चकार ह 024a विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः 024c गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् 025a नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः 025c व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः 026a दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च 026c मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् 027a ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः 027c महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् 028a तान्स सप्तशतान्नागान्सारोहायुधकेतनान् 028c भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः 029a ततः सुबलपुत्रस्य नागानतिबलान्पुनः 029c पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे 030a तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् 030c न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् 031a प्रताप्यमानं सूर्येण भीमेन च महात्मना 031c तव सैन्यं सञ्चुकोच चर्म वह्निगतं यथा 032a ते भीमभयसन्त्रस्तास्तावका भरतर्षभ 032c विहाय समरे भीमं दुद्रुवुर्वै दिशो दश 033a रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः 033c भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः 034a तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् 034c पोथयामास गदया भीमो विष्णुरिवासुरान् 035a ततः शकुनिनिर्दिष्टाः सादिनः शूरसम्मताः 035c त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः 036a तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा 036c विचरन्विविधान्मार्गान्घातयामास पोथयन् 037a तेषामासीन्महाञ्शब्दस्ताडितानां च सार्वशः??? 037c असिभिश्छिद्यमानानां नडानामिव भारत 038a एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् 038c हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् 039a कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम् 039c शरैः प्रच्छादयामास सारथिं चाप्यपातयत् 040a ततः सम्प्रद्रुतं सङ्ख्ये रथं दृष्ट्वा महारथः 040c अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः 041a राजानमभि धावन्तं शरैरावृत्य रोदसी 041c क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः 042a सन्निवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः 042c भीमं प्रच्छादयामास समन्तान्निशितैः शरैः 043a भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः 043c अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् 043e अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् 044a तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् 044c विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ 045a ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् 045c क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत 046a नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः 046c प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः 047a मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः 047c हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा 048a सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् 048c संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः 049a तेषामापततां शब्दस्तीव्र आसीद्विशाम्पते 049c उद्धूतानां यथा वृष्ट्या सागराणां भयावहः 050a ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे 050c हर्षेण महता युक्ते परिगृह्य परस्परम् 051a ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे 051c यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् 052a बलौघस्तु समासाद्य बलौघं सहसा रणे 052c उपासर्पत वेगेन जलौघ इव सागरम् 053a आसीन्निनादः सुमहान्बलौघानां परस्परम् 053c गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् 054a ते तु सेने समासाद्य वेगवत्यौ परस्परम् 054c एकीभावमनुप्राप्ते नद्याविव समागमे 055a ततः प्रववृते युद्धं घोररूपं विशाम्पते 055c कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः 056a कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः 056c श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत 057a यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा 057c कर्मतः शीलतो वापि स तच्छ्रावयते युधि 058a तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम् 058c अभवन्मे मती राजन्नैषामस्तीति जीवितम् 059a तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् 059c अभवन्मे भयं तीव्रं कथमेतद्भविष्यति 060a ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः 060c ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम्