001 सञ्जय उवाच 001a तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् 001c क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत 002a ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात् 002c उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे 003a कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् 003c हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् 004a ते प्रेषिता महाराज शल्येनाहवशोभिना 004c भीमसेनरथं प्राप्य समसज्जन्त वाजिनः 005a दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः 005c मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ 006a सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् 006c एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् 006e संशयान्महतो मुक्तं कथञ्चित्प्रेक्षतो मम 007a अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः 007c दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना 008a अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत 008c हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति 008e सङ्ग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः 009a राजानमद्य भवतां न्यासभूतं ददामि वै 009c अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः 010a एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति 010c सिंहनादेन महता सर्वाः सन्नादयन्दिशः 011a दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् 011c सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः 012a पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम् 012c दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् 013a ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन 013c अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे 014a त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे 014c बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् 015a इति ब्रुवति राधेयं मद्राणामीश्वरे नृप 015c अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः 016a तथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम् 016c अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव 017a यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर 017c भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः 018a एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः 018c निरपेक्षः शरीरे च प्राणतश्च बलाधिकः 019a अज्ञातवासं वसता विराटनगरे तदा 019c द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् 019e गूढभावं समाश्रित्य कीचकः सगणो हतः 020a सोऽद्य सङ्ग्रामशिरसि सन्नद्धः क्रोधमूर्च्छितः 020c किङ्करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् 021a चिरकालाभिलषितो ममायं तु मनोरथः 021c अर्जुनं समरे हन्यां मां वा हन्याद्धनञ्जयः 021e स मे कदाचिदद्यैव भवेद्भीमसमागमात् 022a निहते भीमसेने तु यदि वा विरथीकृते 022c अभियास्यति मां पार्थस्तन्मे साधु भविष्यति 022e अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय 023a एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः 023c उवाच वचनं शल्यः सूतपुत्रं तथागतम् 024a अभियासि महाबाहो भीमसेनं महाबलम् 024c निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् 025a यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः 025c स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते 026a एवमुक्ते ततः कर्णः शल्यं पुनरभाषत 026c हन्ताहमर्जुनं सङ्ख्ये मां वा हन्ता धनञ्जयः 026e युद्धे मनः समाधाय याहि याहीत्यचोदयत् 027a ततः प्रायाद्रथेनाशु शल्यस्तत्र विशाम्पते 027c यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् 028a ततस्तूर्यनिनादश्च भेरीणां च महास्वनः 028c उदतिष्ठत राजेन्द्र कर्णभीमसमागमे 029a भीमसेनोऽथ सङ्क्रुद्धस्तव सैन्यं दुरासदम् 029c नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली 030a स सन्निपातस्तुमुलो भीमरूपो विशाम्पते 030c आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे 030e ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् 031a तमापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषः 031c आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे 031e पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् 032a स विद्धः सूतपुत्रेण छादयामास पत्रिभिः 032c विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः 033a तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा 033c अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे 033e नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना 034a सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः 034c राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः 034e ननाद बलवन्नादं कम्पयन्निव रोदसी 035a तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत् 035c मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् 036a ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः 036c संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया 037a स कार्मुके महावेगं भारसाधनमुत्तमम् 037c गिरीणामपि भेत्तारं सायकं समयोजयत् 038a विकृष्य बलवच्चापमा कर्णादतिमारुतिः 038c तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया 039a स विसृष्टो बलवता बाणो वज्राशनिस्वनः 039c अदारयद्रणे कर्णं वज्रवेग इवाचलम् 040a स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह 040c निषसाद रथोपस्थे विसञ्ज्ञः पृतनापतिः 041a ततो मद्राधिपो दृष्ट्वा विसञ्ज्ञं सूतनन्दनम् 041c अपोवाह रथेनाजौ कर्णमाहवशोभिनम् 042a ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् 042c व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम्