001 सञ्जय उवाच 001a विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् 001c रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः 002a नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः 002c छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमः 003a निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः 003c ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः 004a द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः 004c अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे 005a ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः 005c पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा 006a एवं योधशतान्याजौ सहस्राण्ययुतानि च 006c हतानीयुर्महीं देहैर्यशसापूरयन्दिशः 007a अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् 007c रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव 008a स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् 008c मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा 009a स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः 009c नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा 010a ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् 010c अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः 011a कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु 011c सदा स्पर्धसि सङ्ग्रामे फल्गुनेन यशस्विना 011e तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः 012a यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु 012c तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः 012e युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे 013a एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा 013c सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः 014a तं सूतपुत्रो नवभिः प्रत्यविध्यदरिन्दमः 014c वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत 015a ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः 015c जघान समरे शूरः शरैः सन्नतपर्वभिः 016a तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः 016c रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू 017a युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः 017c सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् 018a शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् 018c तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः 019a ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् 019c भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा 020a ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम् 020c सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः 021a सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च 021c धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः 022a यमौ च भीमसेनश्च शिशुपालस्य चात्मजः 022c कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः 022e एते च त्वरिता वीरा वसुषेणमवारयन् 023a जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः 023c वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः 023e वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः 024a नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः 024c सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया 025a स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः 025c उदैरयद्ब्राह्ममस्त्रं शरैः सम्पूरयन्दिशः 026a ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः 026c निर्दहन्पाण्डववनं चारु पर्यचरद्रणे 027a स संवार्य महास्त्राणि महेष्वासो महात्मनाम् 027c प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् 028a ततः सन्धाय नवतिं निमेषान्नतपर्वणाम् 028c बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः 029a तद्वर्म हेमविकृतं रराज निपतत्तदा 029c सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा 030a तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत 030c रत्नैरलङ्कृतं दिव्यैर्व्यभ्रं निशि यथा नभः 031a स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः 031c क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति 032a तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः 032c सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः 033a ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः 033c चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत् 034a उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् 034c ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् 034e इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् 035a एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः 035c अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः 036a तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना 036c अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् 037a कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः 037c प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे 038a न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः 038c ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि 039a मा स्म युध्यस्व कौन्तेय मा च वीरान्समासदः 039c मा चैनानप्रियं ब्रूहि मा च व्रज महारणम् 040a एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः 040c न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् 040e ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः 041a अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम् 041c चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः 041e द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ 042a ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् 042c कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् 043a शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः 043c बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा 044a युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः 044c श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् 045a काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः 045c तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः 046a ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः 046c भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् 047a अभवत्तुमुलः शब्दो योधानां तत्र भारत 047c हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः 048a उत्तिष्ठत प्रहरत प्रैताभिपततेति च 048c इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे 049a अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे 049c समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् 050a विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे 050c व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः 051a प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः 051c सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः 052a छिन्नभिन्नविपर्यस्तैर्वर्मालङ्कारविग्रहैः 052c सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः 053a विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः 053c प्रतिवीरैश्च सम्मर्दे पत्तिसङ्घाः सहस्रशः 054a विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः 054c शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही 055a तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः 055c विमानैरप्सरःसङ्घैर्गीतवादित्रनिस्वनैः 056a हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः 056c आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः 057a तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया 057c प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् 058a रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे 058c पत्तयः पत्तिभिर्नागा नागैः सह हयैर्हयाः 059a एवं प्रवृत्ते सङ्ग्रामे गजवाजिजनक्षये 059c सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान् 060a कचाकचि बभौ युद्धं दन्तादन्ति नखानखि 060c मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् 061a तथा वर्तति सङ्ग्रामे गजवाजिजनक्षये 061c नराश्वगजदेहेभ्यः प्रसृता लोहितापगा 061e नराश्वगजदेहान्सा व्युवाह पतितान्बहून् 062a नराश्वगजसम्बाधे नराश्वगजसादिनाम् 062c लोहितोदा महाघोरा नदी लोहितकर्दमा 062e नराश्वगजदेहान्सा वहन्ती भीरुभीषणी 063a तस्याः परमपारं च व्रजन्ति विजयैषिणः 063c गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे 064a ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः 064c सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ 065a रथानश्वान्नरान्नागानायुधाभरणानि च 065c वसनान्यथ वर्माणि हन्यमानान्हतानपि 065e भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम् 066a लोहितस्य तु गन्धेन स्पर्शेन च रसेन च 066c रूपेण चातिरिक्तेन शब्देन च विसर्पता 066e विषादः सुमहानासीत्प्रायः सैन्यस्य भारत 067a तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव 067c भूयः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः 068a तेषामापततां वेगमविषह्य महात्मनाम् 068c पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम् 069a तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् 069c विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम् 070a व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः 070c सिंहार्दितं महारण्ये यथा गजकुलं तथा