001 धृतराष्ट्र उवाच 001a तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय 001c संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान् 002a एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि 002c न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे 003 सञ्जय उवाच 003a तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम् 003c अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये 004a तत्सादिनागकलिलं पदातिरथसङ्कुलम् 004c धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम् 005a पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः 005c पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव 006a पार्षतं त्वभि सन्तस्थुर्द्रौपदेया युयुत्सवः 006c सानुगा भीमवपुषश्चन्द्रं तारागणा इव 007a अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे 007c क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः 008a अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः 008c विजये कृतसङ्कल्पा मृत्युं कृत्वा निवर्तनम् 009a तदश्वसङ्घबहुलं मत्तनागरथाकुलम् 009c पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत् 010a स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना 010c तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह 011a रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि 011c इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान् 012a सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च 012c चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः 013a तस्मिन्सैन्ये महावर्ते पातालावर्तसन्निभे 013c निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा 014a स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च 014c दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव 015a अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष 015c त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः 016a कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः 016c हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः 017a कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि 017c शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः 018a तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम् 018c शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् 019a दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ 019c गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः 020a पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च 020c युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् 021a कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् 021c प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् 022a विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः 022c युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् 023 धृतराष्ट्र उवाच 023a यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम् 023c कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व सञ्जय 024a के च प्रवीराः पार्थानां युधि कर्णमवारयन् 024c कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् 025 सञ्जय उवाच 025a धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् 025c समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः 026a तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः 026c प्रत्युद्ययुर्महाराज हंसा इव महार्णवम् 027a ततः शङ्खसहस्राणां निस्वनो हृदयङ्गमः 027c प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः 028a नानावादित्रनादश्च द्विपाश्वरथनिस्वनः 028c सिंहनादश्च वीराणामभवद्दारुणस्तदा 029a साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् 029c सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत 030a अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः 030c यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च 031a अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् 031c जघान पाण्डवीं सेनामासुरीं मघवानिव 032a स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान् 032c प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् 033a ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः 033c अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् 034a सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः 034c चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः 035a तं तथा समरे कर्म कुर्वाणमतिमानुषम् 035c परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः 036a ततः सन्धाय विशिखान्पञ्च भारत दुःसहान् 036c पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः 037a भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत 037c तपनं शूरसेनं च पाञ्चालानवधीद्रणे 038a पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः 038c हाहाकारो महानासीत्पाञ्चालानां महाहवे 039a तेषां सङ्कीर्यमाणानां हाहाकारकृता दिशः 039c पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः 040a चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ 040c सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् 041a पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः 041c वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् 042a धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः 042c जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः 043a चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः 043c समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः 044a त एनं विविधैः शस्त्रैः शरधाराभिरेव च 044c अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् 045a पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः 045c त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् 046a सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् 046c नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह 047a अथान्यद्धनुरादाय सुदृढं भीमविक्रमः 047c सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः 048a विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः 048c कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः 049a सत्यसेनं च दशभिः साश्वसूतध्वजायुधम् 049c पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् 050a क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् 050c शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् 051a हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् 051c कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत् 052a दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः 052c उलूकं च पतत्रिं च चकार विरथावुभौ 053a हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम् 053c तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् 054a अथान्यमपि जग्राह सुपर्वाणं सुतेजनम् 054c सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः 055a पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः 055c पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया 056a सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् 056c नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत् 057a नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः 057c ननाद बलवन्नादं कर्णस्य भयमादधत् 058a तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः 058c चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः 059a अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः 059c सुषेणं बहुभिर्बाणैर्वारयामास संयुगे 060a स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा 060c आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः 060e चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा 061a अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः 061c अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः 062a तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम् 062c निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति 063a सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः 063c धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः 063e ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत् 064a अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः 064c अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात् 065a तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः 065c वराहकर्णैर्दशभिरविध्यदसिचर्मणी 066a दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् 066c आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम् 067a अथान्यं रथमास्थाय वृषसेनो महारथः 067c कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालयत् 068a दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः 068c विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् 069a स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः 069c युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम् 070a धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः 070c द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः 071a भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः 071c नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः 071e शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु 072a एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः 072c अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे 073a तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः 073c रथे चारु चरन्वीरः प्रत्यविध्यदरिन्दमः 074a तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः 074c अपश्याम महाराज तदद्भुतमिवाभवत् 075a न ह्याददानं ददृशुः सन्दधानं च सायकान् 075c विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम् 076a द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः 076c अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् 077a नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान् 077c यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः 078a दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह 078c साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः 079a तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः 079c राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः 080a स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम् 080c राधेयो निशितैर्बाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम् 081a ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः 081c राधेयात्परिरक्षन्तो राजानं पर्यवारयन् 082a तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे 082c यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः 083a नानावादित्रघोषाश्च प्रादुरासन्विशाम्पते 083c सिंहनादश्च सञ्जज्ञे शूराणामनिवर्तिनाम् 084a ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः 084c युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम्