001 सञ्जय उवाच 001a ततः परानीकभिदं व्यूहमप्रतिमं परैः 001c समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् 002a प्रययौ रथघोषेण सिंहनादरवेण च 002c वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् 003a वेपमान इव क्रोधाद्युद्धशौण्डः परन्तपः 003c पतिव्यूह्य महातेजा यथावद्भरतर्षभ 004a व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव 004c युधिष्ठिरं चाभिभवन्नपसव्यं चकार ह 005 धृतराष्ट्र उवाच 005a कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान् 005c धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान् 006a के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय 006c प्रविभज्य यथान्यायं कथं वा समवस्थिताः 007a कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् 007c कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम् 008a क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् 008c को ह्यर्जुनस्य सान्निध्ये शक्तोऽभ्येतुं युधिष्ठिरम् 009a सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा 009c कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः 010 सञ्जय उवाच 010a शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः 010c परिदाय नृपं तेभ्यः सङ्ग्रामश्चाभवद्यथा 011a कृपः शारद्वतो राजन्मागधश्च तरस्विनः??? 011c सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः 012a तेषां प्रपक्षे शकुनिरुलूकश्च महारथः 012c सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् 013a गान्धारिभिरसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः 013c शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः 014a चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम् 014c संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन् 015a समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः 015c तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह 016a निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः 016c आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् 017a मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः 017c चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम् 018a रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः 018c वाहिनीप्रमुखं वीरः सम्प्रकर्षन्नशोभत 019a अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः 019c महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः 019e दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः 020a तमन्वयान्महाराज स्वयं दुर्योधनो नृपः 020c चित्राश्वैश्चित्रसन्नाहैः सोदर्यैरभिरक्षितः 021a रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः 021c अशोभत महाराज देवैरिव शतक्रतुः 022a अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः 022c नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः 022e अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः 023a ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः 023c सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः 024a तेषां पदातिनागानां पादरक्षाः सहस्रशः 024c पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः 025a सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः 025c स व्यूहराजो विबभौ देवासुरचमूपमः 026a बार्हस्पत्यः सुविहितो नायकेन विपश्चिता 026c नृत्यतीव महाव्यूहः परेषामादधद्भयम् 027a तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः 027c पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः 028a ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः 028c धनञ्जयममित्रघ्नमेकवीरमुवाच ह 029a पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे 029c युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते 030a तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम् 030c यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् 031a एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् 031c यथा भवानाह तथा तत्सर्वं न तदन्यथा 032a यस्त्वस्य विहितो घातस्तं करिष्यामि भारत 032c प्रधानवध एवास्य विनाशस्तं करोम्यहम् 033 युधिष्ठिर उवाच 033a तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम् 033c वृषसेनं च नकुलः सहदेवोऽपि सौबलम् 034a दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः 034c धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम् 035a द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना 035c ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः 036 सञ्जय उवाच 036a इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः 036c व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् 037a अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम् 037c उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् 038a अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः 038c निघ्नन्नमित्रान्कौन्तेयो यं यं त्वं परिपृच्छसि 039a श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान् 039c एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति 040a चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी 040c प्रवात्येष महावायुरभितस्तव वाहिनीम् 040e क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् 041a पश्य कर्ण महाघोरं भयदं लोमहर्षणम् 041c कबन्धं मेघसङ्काशं भानुमावृत्य संस्थितम् 042a पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम् 042c बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते 043a पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः 043c स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः 044a सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे 044c प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते 045a उदीर्यतो हयान्पश्य महाकायान्महाजवान् 045c प्लवमानान्दर्शनीयानाकाशे गरुडानिव 046a ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः 046c स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः 047a शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः 047c आनकानां च राधेय मृदङ्गानां च सर्वशः 048a बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान् 048c ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् 049a हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः 049c नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः 050a सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः 050c पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे 051a ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः 051c सपताका रथाश्चापि पाञ्चालानां महात्मनाम् 052a नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः 052c ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते 053a अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम् 053c निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि 054a अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ 054c वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ 055a सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम् 055c तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि 056a एष संशप्तकाहूतस्तानेवाभिमुखो गतः 056c करोति कदनं चैषां सङ्ग्रामे द्विषतां बली 056e इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् 057a पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः 057c एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते 057e एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे 058 शल्य उवाच 058a वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम् 058c को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम् 059a ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम् 059c न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः 060a अथैवं परितोषस्ते वाचोक्त्वा सुमना भव 060c न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् 061a बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः 061c पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् 062a पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम् 062c प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम् 063a अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन् 063c एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् 064a एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः 064c तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः 065a एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ 065c नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ 066a दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव 066c व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि 067a एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः 067c हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः 068a इति संवदतोरेव तयोः पुरुषसिंहयोः 068c ते सेने समसज्जेतां गङ्गायमुनवद्भृशम्