001 सञ्जय उवाच 001a ततः पुनर्महाराज मद्रराजमरिन्दमम् 001c अभ्यभाषत राधेयः सन्निवार्योत्तरं वचः 002a यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि 002c नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे 003a यदि मां देवताः सर्वा योधयेयुः सवासवाः 003c तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् 004a नाहं भीषयितुं शक्यो वाङ्मात्रेण कथञ्चन 004c अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे 005a नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम् 005c अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते 006a न हि कर्णः समुद्भूतो भयार्थमिह मारिष 006c विक्रमार्थमहं जातो यशोर्थं च तथैव च 007a इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप 007c सन्निधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् 008a देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् 008c ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते 009a तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः 009c बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् 010a बहिष्कृता हिमवता गङ्गया च तिरस्कृताः 010c सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये 011a पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः 011c तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् 012a गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् 012c एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् 013a कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया 013c तत एषां समाचारः संवासाद्विदितो मम 014a शाकलं नाम नगरमापगा नाम निम्नगा 014c जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् 015a धानागौडासवे पीत्वा गोमांसं लशुनैः सह 015c अपूपमांसवाट्यानामाशिनः शीलवर्जिताः 016a हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः 016c नगरागारवप्रेषु बहिर्माल्यानुलेपनाः 017a मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः 017c आहुरन्योन्यमुक्तानि प्रब्रुवाणा मदोत्कटाः 018a हा हते हा हतेत्येव स्वामिभर्तृहतेति च 018c आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः 019a तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले 019c कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ 020a सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी 020c मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् 021a शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम् 021c गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः 022a मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः 022c केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः 023a मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः 023c खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् 024a शमीपीलुकरीराणां वनेषु सुखवर्त्मसु 024c अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः 025a पथिषु प्रबला भूत्वा कदासमृदितेऽध्वनि 025c खलोपहारं कुर्वाणास्ताडयिष्याम भूयसः 026a एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु 026c कश्चेतयानो निवसेन्मुहूर्तमपि मानवः 027a ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः 027c येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः 028a इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् 028c बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत 029a तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् 029c नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् 030a कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले 030c गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् 031a गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृताः 031c पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून् 032a वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम् 032c ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् 033a इति गायन्ति ये मत्ताः शीधुना शाकलावतः 033c सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् 034a इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते 034c यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि 035a पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि 035c शतद्रुश्च विपाशा च तृतीयेरावती तथा 035e चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः 036a आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत् 036c व्रात्यानां दासमीयानां विदेहानामयज्वनाम् 037a न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा 037c तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः 038a ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि 038c काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते 038e सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः 039a आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च 039c तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च 040a पुत्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः 040c आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता 041a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 041c यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि 042a युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले 042c तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति 043a पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् 043c आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् 044a बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ 044c तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः 045a कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन् 045c कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् 046a इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत् 046c एकरात्रा शमीगेहे महोलूखलमेखला 047a आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः 047c वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः 048a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 048c उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु 049a ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः 049c आचारं तत्र सम्प्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् 050a मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् 050c दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः 051a न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः 051c सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः 052a अटता तु सदा देशान्नानाधर्मसमाकुलान् 052c आगच्छता महाराज बाह्लीकेषु निशामितम् 053a तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः 053c वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः 054a नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः 054c द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते 055a भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः 055c गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः 056a एतन्मया श्रुतं तत्र धर्मसङ्करकारकम् 056c कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः 057a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 057c यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम् 058a सती पुरा हृता काचिदारट्टा किल दस्युभिः 058c अधर्मतश्चोपयाता सा तानभ्यशपत्ततः 059a बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ 059c तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः 059e न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः 060a कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः 060c कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा 061a चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् 061c नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते 062a आ मत्स्येभ्यः कुरुपाञ्चालदेश्या आ नैमिषाच्चेदयो ये विशिष्टाः 062c धर्मं पुराणमुपजीवन्ति सन्तो मद्रानृते पञ्चनदांश्च जिह्मान् 063a एवं विद्वन्धर्मकथांश्च राजंस्तूष्णीम्भूतो जडवच्छल्य भूयाः 063c त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य 064a अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता 064c रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक् 065a पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते 065c धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः 066a व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम् 066c इति पाञ्चनदं धर्ममवमेने पितामहः 066e स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत् 067a उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते 067c कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् 068a क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम् 068c मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् 069a निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् 069c अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निबोध तत् 070a मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम् 070c मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः 071a राजयाजकयाज्यानां मद्रकाणां च यन्मलम् 071c तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि 072a इति रक्षोपसृष्टेषु विषवीर्यहतेषु च 072c राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् 073a ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः सत्यं मत्स्याः शूरसेनाश्च यज्ञः 073c प्राच्या दासा वृषला दाक्षिणात्याः स्तेना बाह्लीकाः सङ्करा वै सुराष्ट्राः 074a कृतघ्नता परवित्तापहारः सुरापानं गुरुदारावमर्शः 074c येषां धर्मस्तान्प्रति नास्त्यधर्म आरट्टकान्पाञ्चनदान्धिगस्तु 075a आ पाञ्चालेभ्यः कुरवो नैमिषाश्च मत्स्याश्चैवाप्यथ जानन्ति धर्मम् 075c कलिङ्गकाश्चाङ्गका मागधाश्च शिष्टान्धर्मानुपजीवन्ति वृद्धाः 076a प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः 076c दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा 077a प्रतीचीं वरुणः पाति पालयन्नसुरान्बली 077c उदीचीं भगवान्सोमो ब्रह्मण्यो ब्राह्मणैः सह 078a रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः 078c ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः 079a इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः 079c अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः 079e पार्वतीयाश्च विषमा यथैव गिरयस्तथा 080a सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः 080c म्लेच्छाः स्वसञ्ज्ञानियता नानुक्त इतरो जनः 081a प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः 081c स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि 082a एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः 082c स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ 083 शल्य उवाच 083a आतुराणां परित्यागः स्वदारसुतविक्रयः 083c अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान् 084a रथातिरथसङ्ख्यायां यत्त्वा भीष्मस्तदाब्रवीत् 084c तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः 085a सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः 085c वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः 086a रमन्ते चोपहासेन पुरुषाः पुरुषैः सह 086c अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः 087a परवाच्येषु निपुणः सर्वो भवति सर्वदा 087c आत्मवाच्यं न जानीते जानन्नपि विमुह्यति 088 सञ्जय उवाच 088a कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान् 088c पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत्