001 सञ्जय उवाच 001a मद्राधिपस्याधिरथिस्तदैवं वचो निशम्याप्रियमप्रतीतः 001c उवाच शल्यं विदितं ममैतद्यथाविधावर्जुनवासुदेवौ 002a शौरे रथं वाहयतोऽर्जुनस्य बलं महास्त्राणि च पाण्डवस्य 002c अहं विजानामि यथावदद्य परोक्षभूतं तव तत्तु शल्य 003a तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ व्यपेतभीर्योधयिष्यामि कृष्णौ 003c सन्तापयत्यभ्यधिकं तु रामाच्छापोऽद्य मां ब्राह्मणसत्तमाच्च 004a अवात्सं वै ब्राह्मणच्छद्मनाहं रामे पुरा दिव्यमस्त्रं चिकीर्षुः 004c तत्रापि मे देवराजेन विघ्नो हितार्थिना फल्गुनस्यैव शल्य 005a कृतोऽवभेदेन ममोरुमेत्य प्रविश्य कीटस्य तनुं विरूपाम् 005c गुरोर्भयाच्चापि न चेलिवानहं तच्चावबुद्धो ददृशे स विप्रः 006a पृष्टश्चाहं तमवोचं महर्षिं सूतोऽहमस्मीति स मां शशाप 006c सूतोपधावाप्तमिदं त्वयास्त्रं न कर्मकाले प्रतिभास्यति त्वाम् 007a अन्यत्र यस्मात्तव मृत्युकालादब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् 007c तदद्य पर्याप्तमतीव शस्त्रमस्मिन्सङ्ग्रामे तुमुले तात भीमे 008a अपां पतिर्वेगवानप्रमेयो निमज्जयिष्यन्निवहान्प्रजानाम् 008c महानगं यः कुरुते समुद्रं वेलैव तं वारयत्यप्रमेयम् 009a प्रमुञ्चन्तं बाणसङ्घानमोघान्मर्मच्छिदो वीरहणः सपत्रान् 009c कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे ज्याकर्षिणामुत्तममद्य लोके 010a एवं बलेनातिबलं महास्त्रं समुद्रकल्पं सुदुरापमुग्रम् 010c शरौघिणं पार्थिवान्मज्जयन्तं वेलेव पार्थमिषुभिः संसहिष्ये 011a अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम् 011c सुरासुरान्वै युधि यो जयेत तेनाद्य मे पश्य युद्धं सुघोरम् 012a अतिमानी पाण्डवो युद्धकामो अमानुषैरेष्यति मे महास्त्रैः 012c तस्यास्त्रमस्त्रैरभिहत्य सङ्ख्ये शरोत्तमैः पातयिष्यामि पार्थम् 013a दिवाकरेणापि समं तपन्तं समाप्तरश्मिं यशसा ज्वलन्तम् 013c तमोनुदं मेघ इवातिमात्रो धनञ्जयं छादयिष्यामि बाणैः 014a वैश्वानरं धूमशिखं ज्वलन्तं तेजस्विनं लोकमिमं दहन्तम् 014c मेघो भूत्वा शरवर्षैर्यथाग्निं तथा पार्थं शमयिष्यामि युद्धे 015a प्रमाथिनं बलवन्तं प्रहारिणं प्रभञ्जनं मातरिश्वानमुग्रम् 015c युद्धे सहिष्ये हिमवानिवाचलो धनञ्जयं क्रुद्धममृष्यमाणम् 016a विशारदं रथमार्गेष्वसक्तं धुर्यं नित्यं समरेषु प्रवीरम् 016c लोके वरं सर्वधनुर्धराणां धनञ्जयं संयुगे संसहिष्ये 017a अद्याहवे यस्य न तुल्यमन्यं मध्येमनुष्यं धनुराददानम् 017c सर्वामिमां यः पृथिवीं सहेत तथा विद्वान्योत्स्यमानोऽस्मि तेन 018a यः सर्वभूतानि सदेवकानि प्रस्थेऽजयत्खाण्डवे सव्यसाची 018c को जीवितं रक्षमाणो हि तेन युयुत्सते मामृते मानुषोऽन्यः 019a अहं तस्य पौरुषं पाण्डवस्य ब्रूयां हृष्टः समितौ क्षत्रियाणाम् 019c किं त्वं मूर्खः प्रभषन्मूढचेता मामवोचः पौरुषमर्जुनस्य 020a अप्रियो यः परुषो निष्ठुरो हि क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् 020c हन्यामहं तादृशानां शतानि क्षमामि त्वां क्षमया कालयोगात् 021a अवोचस्त्वं पाण्डवार्थेऽप्रियाणि प्रधर्षयन्मां मूढवत्पापकर्मन् 021c मय्यार्जवे जिह्मगतिर्हतस्त्वं मित्रद्रोही सप्तपदं हि मित्रम् 022a कालस्त्वयं मृत्युमयोऽतिदारुणो दुर्योधनो युद्धमुपागमद्यत् 022c तस्यार्थसिद्धिमभिकाङ्क्षमाणस्तमभ्येष्ये यत्र नैकान्त्यमस्ति 023a मित्रं मिदेर्नन्दतेः प्रीयतेर्वा सन्त्रायतेर्मानद मोदतेर्वा 023c ब्रवीति तच्चामुत विप्रपूर्वात्तच्चापि सर्वं मम दुर्योधनेऽस्ति 024a शत्रुः शदेः शासतेः शायतेर्वा शृणातेर्वा श्वयतेर्वापि सर्गे 024c उपसर्गाद्बहुधा सूदतेश्च प्रायेण सर्वं त्वयि तच्च मह्यम् 025a दुर्योधनार्थं तव चाप्रियार्थं यशोर्थमात्मार्थमपीश्वरार्थम् 025c तस्मादहं पाण्डववासुदेवौ योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य 026a अस्त्राणि पश्याद्य ममोत्तमानि ब्राह्माणि दिव्यान्यथ मानुषाणि 026c आसादयिष्याम्यहमुग्रवीर्यं द्विपोत्तमं मत्तमिवाभिमत्तः 027a अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं क्षेप्स्ये पार्थायाप्रतिमं जयाय 027c तेनापि मे नैव मुच्येत युद्धे न चेत्पतेद्विषमे मेऽद्य चक्रम् 028a वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः 028c सगदाद्वा धनपतेः सवज्राद्वापि वासवात् 029a नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः 029c इति शल्य विजानीहि यथा नाहं बिभेम्यभीः 030a तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात् 030c अद्य युद्धं हि ताभ्यां मे सम्पराये भविष्यति 031a श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत् 031c युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायने भयम् 032a तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् 032c एते हि सोमराजान ईश्वराः सुखदुःखयोः 033a होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम् 033c चरन्तमजने शल्य ब्राह्मणात्तपसो निधेः 034a ईषादन्तान्सप्तशतान्दासीदासशतानि च 034c ददतो द्विजमुख्याय प्रसादं न चकार मे 035a कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश 035c आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् 036a ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किञ्चन 036c तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति 037a ततोऽब्रवीन्मां याचन्तमपराद्धं प्रयत्नतः 037c व्याहृतं यन्मया सूत तत्तथा न तदन्यथा 038a अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात् 038c तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे 039a मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया 039c मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि 040a इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया 040c जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु