001 सञ्जय उवाच 001a मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः 001c शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन् 002a यथैव मत्तो मद्येन त्वं तथा न च वा तथा 002c तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया 003a इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे 003c श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन 004a नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे 004c येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम् 005a अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् 005c विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा 006a समं च विषमं चैव रथिनश्च बलाबलम् 006c श्रमः खेदश्च सततं हयानां रथिना सह 007a आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् 007c भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया 008a अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च 008c सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना 008e अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः 009a वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् 009c यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः 010a बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः 010c राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः 011a पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् 011c काको बहूनामभवदुच्छिष्टकृतभोजनः 012a तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः 012c मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी 013a स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः 013c सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते 014a अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः 014c गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः 015a कुमारकास्ततो हंसान्दृष्ट्वा काकमथाब्रुवन् 015c भवानेव विशिष्टो हि पतत्रिभ्यो विहङ्गम 016a प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः 016c तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते 017a तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति 017c उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् 018a तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् 018c तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम् 019a तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः 019c भाषतो बहु काकस्य बलिनः पततां वराः 019e इदमूचुश्च चक्राङ्गा वचः काकं विहङ्गमाः 020a वयं हंसाश्चरामेमां पृथिवीं मानसौकसः 020c पक्षिणां च वयं नित्यं दूरपातेन पूजिताः 021a कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम् 021c काको भूत्वा निपतने समाह्वयसि दुर्मते 021e कथं त्वं पतनं काक सहास्माभिर्ब्रवीषि तत् 022a अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः 022c प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् 023a शतमेकं च पातानां पतितास्मि न संशयः 023c शतयोजनमेकैकं विचित्रं विविधं तथा 024a उड्डीनमवडीनं च प्रडीनं डीनमेव च 024c निडीनमथ सण्डीनं तिर्यक्चातिगतानि च 025a विडीनं परिडीनं च पराडीनं सुडीनकम् 025c अतिडीनं महाडीनं निडीनं परिडीनकम् 026a गतागतप्रतिगता बह्वीश्च निकुडीनिकाः 026c कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम् 027a एवमुक्ते तु काकेन प्रहस्यैको विहङ्गमः 027c उवाच हंसस्तं काकं वचनं तन्निबोध मे 028a शतमेकं च पातानां त्वं काक पतिता ध्रुवम् 028c एकमेव तु ये पातं विदुः सर्वे विहङ्गमाः 029a तमहं पतिता काक नान्यं जानामि कञ्चन 029c पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे 030a अथ काकाः प्रजहसुर्ये तत्रासन्समागताः 030c कथमेकेन पातेन हंसः पातशतं जयेत् 031a एकेनैव शतस्यैकं पातेनाभिभविष्यति 031c हंसस्य पतितं काको बलवानाशुविक्रमः 032a प्रपेततुः स्पर्धयाथ ततस्तौ हंसवायसौ 032c एकपाती च चक्राङ्गः काकः पातशतेन च 033a पेतिवानथ चक्राङ्गः पेतिवानथ वायसः 033c विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाम् 034a अथ काकस्य चित्राणि पतितानीतराणि च 034c दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः 035a हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च 035c उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च 036a वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च 036c कुर्वाणा विविधान्रावानाशंसन्तस्तदा जयम् 037a हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे 037c प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष 038a अवमन्य रयं हंसानिदं वचनमब्रवीत् 038c योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते 039a अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् 039c उपर्युपरि वेगेन सागरं वरुणालयम् 040a ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् 040c द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम् 040e निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे 041a अविषह्यः समुद्रो हि बहुसत्त्वगणालयः 041c महाभूतशतोद्भासी नभसोऽपि विशिष्यते 042a गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम 042c दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः 042e विदूरपातात्तोयस्य किं पुनः कर्ण वायसः 043a अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च 043c अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम् 043e अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत 044a तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीदिदम् 044c उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् 045a बहूनि पतनानि त्वमाचक्षाणो मुहुर्मुहुः 045c पतस्यव्याहरंश्चेदं न नो गुह्यं प्रभाषसे 046a किं नाम पतनं काक यत्त्वं पतसि साम्प्रतम् 046c जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः 047a स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन जलमर्णवे 047c काको दृढं परिश्रान्तः सहसा निपपात ह 048 हंस उवाच 048a शतमेकं च पातानां यत्प्रभाषसि वायस 048c नानाविधानीह पुरा तच्चानृतमिहाद्य ते 049 काक उवाच 049a उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत् 049c अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः 049e प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् 050a यद्यहं स्वस्तिमान्हंस स्वदेशं प्राप्नुयां पुनः 050c न कञ्चिदवमन्येयमापदो मां समुद्धर 051a तमेवंवादिनं दीनं विलपन्तमचेतनम् 051c काक काकेति वाशन्तं निमज्जन्तं महार्णवे 052a तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् 052c पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयच्छनैः 053a आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् 053c आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः 054a संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् 054c गतो यथेप्सितं देशं हंसो मन इवाशुगः 055a उच्छिष्टभोजनात्काको यथा वैश्यकुले तु सः 055c एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः 055e सदृशाञ्श्रेयसश्चापि सर्वान्कर्णातिमन्यसे 056a द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः 056c विराटनगरे पार्थमेकं किं नावधीस्तदा 057a यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना 057c सृगाला इव सिंहेन क्व ते वीर्यमभूत्तदा 058a भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना 058c पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः 059a तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः 059c कुरून्समग्रानुत्सृज्य प्रथमं त्वं पलायथाः 060a हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे 060c कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत् 061a पुनः प्रभावः पार्थस्य पुराणः केशवस्य च 061c कथितः कर्ण रामेण सभायां राजसंसदि 062a सततं च तदश्रौषीर्वचनं द्रोणभीष्मयोः 062c अवध्यौ वदतोः कृष्णौ सन्निधौ वै महीक्षिताम् 063a कियन्तं तत्र वक्ष्यामि येन येन धनञ्जयः 063c त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा 064a इदानीमेव द्रष्टासि प्रधने स्यन्दने स्थितौ 064c पुत्रं च वसुदेवस्य पाण्डवं च धनञ्जयम् 065a देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ 065c प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु 066a एवं विद्वान्मावमंस्थाः सूतपुत्राच्युतार्जुनौ 066c नृसिंहौ तौ नरश्वा त्वं जोषमास्स्व विकत्थन