001 सञ्जय उवाच 001a प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव 001c एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत 002a यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् 002c तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति 003a स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः 003c शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्धनञ्जयम् 004a स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् 004c अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् 005a तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् 005c श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् 006a स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् 006c अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् 007a हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान् 007c सुदान्तानपि चैवाहं दद्यामष्टशतान्परान् 008a रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम् 008c युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनञ्जयम् 009a अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट् 009c काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः 009e उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः 010a स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् 010c अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् 011a पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे 011c तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति 012a हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः 012c तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ 013a एता वाचः सुबहुशः कर्ण उच्चारयन्युधि 013c दध्मौ सागरसम्भूतं सुस्वनं शङ्खमुत्तमम् 014a ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु 014c दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत् 015a ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः 015c सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः 016a प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ 016c योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः 017a तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् 017c विकत्थमानं समरे राधेयमरिकर्शनम् 017e मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत 018a मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम् 018c प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम् 019a बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा 019c अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम् 020a परासृजसि मिथ्या किं किं च त्वं बहु मूढवत् 020c अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे 021a यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया 021c शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः 022a यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत् 022c न हि शुश्रुम सम्मर्दे क्रोष्ट्रा सिंहौ निपातितौ 023a अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते 023c ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने 024a कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम् 024c बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः 025a समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् 025c गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् 026a सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः 026c धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि 027a हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया 027c श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा 028 कर्ण उवाच 028a स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे 028c त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि 029a न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् 029c अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति 030 सञ्जय उवाच 030a इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः 030c चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः 031a यदा वै त्वां फल्गुनवेगनुन्ना ज्याचोदिता हस्तवता विसृष्टाः 031c अन्वेतारः कङ्कपत्राः शिताग्रास्तदा तप्स्यस्यर्जुनस्याभियोगात् 032a यदा दिव्यं धनुरादाय पार्थः प्रभासयन्पृतनां सव्यसाची 032c त्वामर्दयेत निशितैः पृषत्कैस्तदा पश्चात्तप्स्यसे सूतपुत्र 033a बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित्प्रार्थयतेऽपहर्तुम् 033c तद्वन्मोहाद्यतमानो रथस्थस्त्वं प्रार्थयस्यर्जुनमद्य जेतुम् 034a त्रिशूलमाश्लिष्य सुतीक्ष्णधारं सर्वाणि गात्राणि निघर्षसि त्वम् 034c सुतीक्ष्णधारोपमकर्मणा त्वं युयुत्ससे योऽर्जुनेनाद्य कर्ण 035a सिद्धं सिंहं केसरिणं बृहन्तं बालो मूढः क्षुद्रमृगस्तरस्वी 035c समाह्वयेत्तद्वदेतत्तवाद्य समाह्वानं सूतपुत्रार्जुनस्य 036a मा सूतपुत्राह्वय राजपुत्रं महावीर्यं केसरिणं यथैव 036c वने सृगालः पिशितस्य तृप्तो मा पार्थमासाद्य विनङ्क्ष्यसि त्वम् 037a ईषादन्तं महानागं प्रभिन्नकरटामुखम् 037c शशकाह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् 038a बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि 038c महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि 039a सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि 039c सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम् 040a सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् 040c लट्वेवाह्वयसे पाते कर्ण पार्थं धनञ्जयम् 041a सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम् 041c चन्द्रोदये विवर्तन्तमप्लवः सन्तितीर्षसि 042a ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् 042c वत्स आह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् 043a महाघोषं महामेघं दर्दुरः प्रतिनर्दसि 043c कामतोयप्रदं लोके नरपर्जन्यमर्जुनम् 044a यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् 044c तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम् 045a सृगालोऽपि वने कर्ण शशैः परिवृतो वसन् 045c मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति 046a तथा त्वमपि राधेय सिंहमात्मानमिच्छसि 046c अपश्यञ्शत्रुदमनं नरव्याघ्रं धनञ्जयम् 047a व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि 047c समास्थितावेकरथे सूर्याचन्द्रमसाविव 048a यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे 048c तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि 049a रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश 049c नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि 050a नित्यमेव सृगालस्त्वं नित्यं सिंहो धनञ्जयः 050c वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे 051a यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले 051c यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ 052a यथानृतं च सत्यं च यथा चापि विषामृते 052c तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः 053 सञ्जय उवाच 053a अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा 053c शल्यमाह सुसङ्क्रुद्धो वाक्शल्यमवधारयन् 054a गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः 054c त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान् 055a अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् 055c अहं शल्याभिजानामि न त्वं जानासि तत्तथा 056a एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे 056c जानन्नेवाह्वये युद्धे शल्य नाग्निं पतङ्गवत् 057a अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः 057c एकतूणीशयः पत्री सुधौतः समलङ्कृतः 058a शेते चन्दनपूर्णेन पूजितो बहुलाः समाः 058c आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा 059a एकवीरो महारौद्रस्तनुत्रास्थिविदारणः 059c निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् 060a तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते 060c कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे 061a तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ 061c योत्स्ये परमसङ्क्रुद्धस्तत्कर्म सदृशं मम 062a सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता 062c सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः 062e उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति 063a तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ 063c मामेकमभिसंयातौ सुजातं शल्य पश्य मे 064a पितृष्वसामातुलजौ भ्रातरावपराजितौ 064c मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया 065a अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ 065c भीरूणां त्रासजननौ शल्य हर्षकरौ मम 066a त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः 066c भयावतीर्णः सन्त्रासादबद्धं बहु भाषसे 067a संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज 067c तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम् 068a पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन 068c सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि 069a तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ 069c नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् 070a वासुदेवसहस्रं वा फल्गुनानां शतानि च 070c अहमेको हनिष्यामि जोषमास्स्व कुदेशज 071a स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः 071c या गाथाः सम्प्रगायन्ति कुर्वन्तोऽध्ययनं यथा 071e ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु 072a ब्राह्मणैः कथिताः पूर्वं यथावद्राजसन्निधौ 072c श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि वोत्तरम् 073a मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः 073c मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे 074a दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः 074c यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् 075a पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः 075c जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः 076a वयस्याभ्यागताश्चान्ये दासीदासं च सङ्गतम् 076c पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया 077a येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा 077c पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च 078a यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः 078c कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् 079a मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु 079c नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् 080a मद्रके सङ्गतं नास्ति मद्रको हि सचापलः 080c मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च 081a राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत् 082a शूद्रसंस्कारको विप्रो यथा याति पराभवम् 082c तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् 083a मद्रके सङ्गतं नास्ति हतं वृश्चिकतो विषम् 083c आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् 084a इति वृश्चिकदष्टस्य नानाविषहतस्य च 084c कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते 084e एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः 085a वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः 085c मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः 085e तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति 086a यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके 086c तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः 086e त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि 087a सुवीरकं याच्यमाना मद्रका कषति स्फिजौ 087c अदातुकामा वचनमिदं वदति दारुणम् 088a मा मा सुवीरकं कश्चिद्याचतां दयितो मम 088c पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् 089a नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः 089c घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम 090a एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु 090c आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु 091a मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह 091c पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः 092a एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् 092c यदाजौ निहतः शेते सद्भिः समभिपूजितः 093a आयुधानां सम्पराये यन्मुच्येयमहं ततः 093c न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः 094a सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः 094c तदर्थे हि मम प्राणा यच्च मे विद्यते वसु 095a व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज 095c यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे 096a कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि 096c सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः 097a सारङ्ग इव घर्मार्तः कामं विलप शुष्य च 097c नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः 098a तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् 098c या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर 099a स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि 099c विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् 100a न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक 100c यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः 101a एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे 101c मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम 102a मित्रप्रतीक्षया शल्य धार्तराष्ट्रस्य चोभयोः 102c अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि 103a पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि 103c शिरस्ते पातयिष्यामि गदया वज्रकल्पया 104a श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज 104c कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ 105a एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते 105c अब्रवीन्मद्रराजानं याहि याहीत्यसम्भ्रमम्