001 दुर्योधन उवाच 001a अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति 001c कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः 002a यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः 002c शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम् 003a योधे त्वयि रथस्थे च मद्रराजे च सारथौ 003c रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थो नाभिभविष्यति 004 सञ्जय उवाच 004a ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् 004c उवाच राजन्सङ्ग्रामे संयच्छन्तं हयोत्तमान् 005a त्वयाभिगुप्तो राधेयो विजेष्यति धनञ्जयम् 005c इत्युक्तो रथमास्थाय तथेति प्राह भारत 006a शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत् 006c स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् 007a ततो जैत्रं रथवरं गन्धर्वनगरोपमम् 007c विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत् 008a तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि 008c सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा 009a कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् 009c समीपस्थं मद्रराजं समारोपयदग्रतः 010a ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् 010c आरुरोह महातेजाः शल्यः सिंह इवाचलम् 011a ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम् 011c अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः 012a तावेकरथमारूढावादित्याग्निसमत्विषौ 012c व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि 013a संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ 013c ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे 014a स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितोऽभवत् 014c धनुर्विस्फारयन्घोरं परिवेषीव भास्करः 015a आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् 015c प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् 016a तं रथस्थं महावीरं यान्तं चामिततेजसम् 016c दुर्योधनः स्म राधेयमिदं वचनमब्रवीत् 017a अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे 017c कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् 018a मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ 018c अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् 019a ताभ्यां यदकृतं वीर वीरकर्म महामृधे 019c तत्कर्म कुरु राधेय वज्रपाणिरिवापरः 020a गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम् 020c भीमसेनं च राधेय माद्रीपुत्रौ यमावपि 021a जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ 021c पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् 022a ततस्तूर्यसहस्राणि भेरीणामयुतानि च 022c वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि 023a प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः 023c अभ्यभाषत राधेयः शल्यं युद्धविशारदम् 024a चोदयाश्वान्महाबाहो यावद्धन्मि धनञ्जयम् 024c भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् 025a अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः 025c अस्यतः कङ्कपत्राणां सहस्राणि शतानि च 026a अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् 026c पाण्डवानां विनाशाय दुर्योधनजयाय च 027 शल्य उवाच 027a सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे 027c सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान् 028a अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान् 028c अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः 029a यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः 029c राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि 030 सञ्जय उवाच 030a अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् 030c द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर 031a दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् 031c चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परन्तप 032a ततो दुन्दुभिघोषेण भेरीणां निनदेन च 032c बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् 032e निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम् 033a प्रयाते तु ततः कर्णे योधेषु मुदितेषु च 033c चचाल पृथिवी राजन्ररास च सुविस्वरम् 034a निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः 034c उल्कापातश्च सञ्जज्ञे दिशां दाहस्तथैव च 034e तथाशन्यश्च सम्पेतुर्ववुर्वाताश्च दारुणाः 035a मृगपक्षिगणाश्चैव बहुशः पृतनां तव 035c अपसव्यं तदा चक्रुर्वेदयन्तो महद्भयम् 036a प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि 036c अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् 037a जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे 037c अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते 038a एते चान्ये च बहव उत्पातास्तत्र मारिष 038c समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः 039a न च तान्गणयामासुः सर्वे ते दैवमोहिताः 039c प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि 039e निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः 040a ततो रथस्थः परवीरहन्ता भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य 040c समज्वलद्भारत पावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषः 041a स शल्यमाभाष्य जगाद वाक्यं पार्थस्य कर्माप्रतिमं च दृष्ट्वा 041c मानेन दर्पेण च दह्यमानः क्रोधेन दीप्यन्निव निःश्वसित्वा 042a नाहं महेन्द्रादपि वज्रपाणेः क्रुद्धाद्बिभेम्यात्तधनू रथस्थः 042c दृष्ट्वा तु भीष्मप्रमुखाञ्शयानान्न त्वेव मां स्थिरता सञ्जहाति 043a महेन्द्रविष्णुप्रतिमावनिन्दितौ रथाश्वनागप्रवरप्रमाथिनौ 043c अवध्यकल्पौ निहतौ यदा परैस्ततो ममाद्यापि रणेऽस्ति साध्वसम् 044a समीक्ष्य सङ्ख्येऽतिबलान्नराधिपैर्नराश्वमातङ्गरथाञ्शरैर्हतान् 044c कथं न सर्वानहितान्रणेऽवधीन्महास्त्रविद्ब्राह्मणपुङ्गवो गुरुः 045a स संस्मरन्द्रोणहवं महाहवे ब्रवीमि सत्यं कुरवो निबोधत 045c न वो मदन्यः प्रसहेद्रणेऽर्जुनं क्रमागतं मृत्युमिवोग्ररूपिणम् 046a शिक्षा प्रसादश्च बलं धृतिश्च द्रोणे महास्त्राणि च सन्नतिश्च 046c स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये 047a नेह ध्रुवं किञ्चिदपि प्रचिन्त्यं विदुर्लोके कर्मणोऽनित्ययोगात् 047c सूर्योदये को हि विमुक्तसंशयो गर्वं कुर्वीताद्य गुरौ निपातिते 048a न नूनमस्त्राणि बलं पराक्रमः क्रिया सुनीतं परमायुधानि वा 048c अलं मनुष्यस्य सुखाय वर्तितुं तथा हि युद्धे निहतः परैर्गुरुः 049a हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरन्दरोपमम् 049c नये बृहस्पत्युशनःसमं सदा न चैनमस्त्रं तदपात्सुदुःसहम् 050a सम्प्रक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे 050c मया कृत्यमिति जानामि शल्य प्रयाहि तस्माद्द्विषतामनीकम् 051a यत्र राजा पाण्डवः सत्यसन्धो व्यवस्थितो भीमसेनार्जुनौ च 051c वासुदेवः सृञ्जयाः सात्यकिश्च यमौ च कस्तौ विषहेन्मदन्यः 052a तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च 052c तान्वा हनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखाय मन्ये 053a न त्वेवाहं न गमिष्यामि मध्यं तेषां शूराणामिति मा शल्य विद्धि 053c मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् 054a प्राज्ञस्य मूढस्य च जीवितान्ते प्राणप्रमोक्षोऽन्तकवक्त्रगस्य 054c अतो विद्वन्नभियास्यामि पार्थं दिष्टं न शक्यं व्यतिवर्तितुं वै 055a कल्याणवृत्तः सततं हि राजन्वैचित्रवीर्यस्य सुतो ममासीत् 055c तस्यार्थसिद्ध्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च 056a वैयाघ्रचर्माणमकूजनाक्षं हैमत्रिकोशं रजतत्रिवेणुम् 056c रथप्रबर्हं तुरगप्रबर्हैर्युक्तं प्रादान्मह्यमिदं हि रामः 057a धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजं गदां सायकांश्चोग्ररूपान् 057c असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् 058a पताकिनं वज्रनिपातनिस्वनं सिताश्वयुक्तं शुभतूणशोभितम् 058c इमं समास्थाय रथं रथर्षभं रणे हनिष्याम्यहमर्जुनं बलात् 059a तं चेन्मृत्युः सर्वहरोऽभिरक्षते सदाप्रमत्तः समरे पाण्डुपुत्रम् 059c तं वा हनिष्यामि समेत्य युद्धे यास्यामि वा भीष्ममुखो यमाय 060a यमवरुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे 060c जुगुपिषव इहैत्य पाण्डवं किमु बहुना सह तैर्जयामि तम् 061a इति रणरभसस्य कत्थतस्तदुपनिशम्य वचः स मद्रराट् 061c अवहसदवमन्य वीर्यवान्प्रतिषिषिधे च जगाद चोत्तरम् 062a विरम विरम कर्ण कत्थनादतिरभसोऽस्यति चाप्ययुक्तवाक् 062c क्व च हि नरवरो धनञ्जयः क्व पुनरिह त्वमुपारमाबुध 063a यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम् 063c प्रसभमिह विलोक्य को हरेत्पुरुषवरावरजामृतेऽर्जुनात् 064a त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि 064c मृगवधकलहे ऋतेऽर्जुनात्सुरपतिवीर्यसमप्रभावतः 065a असुरसुरमहोरगान्नरान्गरुडपिशाचसयक्षराक्षसान् 065c इषुभिरजयदग्निगौरवात्स्वभिलषितं च हविर्ददौ जयः 066a स्मरसि ननु यदा परैर्हृतः स च धृतराष्ट्रसुतो विमोक्षितः 066c दिनकरज नरोत्तमैर्यदा मरुषु बहून्विनिहत्य तानरीन् 067a प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः 067c स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः 068a समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे 068c सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयार्जुनः 069a इदमपरमुपस्थितं पुनस्तव निधनाय सुयुद्धमद्य वै 069c यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज 070 सञ्जय उवाच 070a इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् 070c भृशमतिरुषितः परं वृषः कुरुपृतनापतिराह मद्रपम् 071a भवतु भवतु किं विकत्थसे ननु मम तस्य च युद्धमुद्यतम् 071c यदि स जयति मां महाहवे तत इदमस्तु सुकत्थितं तव 072a एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् 072c याहि मद्रेश चाप्येनं कर्णः प्राह युयुत्सया 073a स रथः प्रययौ शत्रूञ्श्वेताश्वः शल्यसारथिः 073c निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा 074a ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाथ कर्णः 074c स चालोक्य ध्वजिनीं पाण्डवानां धनञ्जयं त्वरया पर्यपृच्छत्