001 दुर्योधन उवाच 001a एवं स भगवान्देवः सर्वलोकपितामहः 001c सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथी 002a रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः 002c तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि 003 सञ्जय उवाच 003a ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् 003c दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा 004a एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन 004c तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम् 005a यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् 005c तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव 006a यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रियम् 006c मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः 007 कर्ण उवाच 007a ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः 007c तथा नित्यं हिते युक्तो मद्रराज भजस्व नः 008 शल्य उवाच 008a आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः 008c अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् 009a यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव 009c आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् 010a अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो 010c अप्रमादप्रयोगाच्च ज्ञानविद्याचिकित्सितैः 011a ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ 011c वाहयिष्यामि तुरगान्विज्वरो भव सूतज