001 दुर्योधन उवाच 001a भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु 001c यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो 002a यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः 002c तदशेषेण ब्रुवतो मम राजर्षिसत्तम 002e त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा 003a देवानामसुराणां च महानासीत्समागमः 003c बभूव प्रथमो राजन्सङ्ग्रामस्तारकामयः 003e निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् 004a निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः 004c ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव 005a तप उग्रं समास्थाय नियमे परमे स्थिताः 005c तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन 006a दमेन तपसा चैव नियमेन च पार्थिव 006c तेषां पितामहः प्रीतो वरदः प्रददौ वरान् 007a अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा 007c सहिता वरयामासुः सर्वलोकपितामहम् 008a तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः 008c नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः 008e वरमन्यं वृणीध्वं वै यादृशं सम्प्ररोचते 009a ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहु 009c सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन् 010a अस्माकं त्वं वरं देव प्रयच्छेमं पितामह 010c वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् 010e विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः 011a ततो वर्षसहस्रे तु समेष्यामः परस्परम् 011c एकीभावं गमिष्यन्ति पुराण्येतानि चानघ 012a समागतानि चैतानि यो हन्याद्भगवंस्तदा 012c एकेषुणा देववरः स नो मृत्युर्भविष्यति 012e एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् 013a ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम् 013c पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम् 013e विश्वकर्माणमजरं दैत्यदानवपूजितम् 014a ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह 014c त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा 015a काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् 015c आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते 016a एकैकं योजनशतं विस्तारायामसम्मितम् 016c गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम् 017a गुणप्रसवसम्बाधमसम्बाधमनामयम् 017c प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम् 018a पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक् 018c काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः 018e राजतं कमलाक्षस्य विद्युन्मालिन आयसम् 019a त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा 019c आक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः 020a तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च 020c कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः 020e महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः 021a सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः 021c तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः 022a यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः 022c तस्मै कामं मयस्तं तं विदधे मायया तदा 023a तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः 023c तपस्तेपे परमकं येनातुष्यत्पितामहः 024a स तुष्टमवृणोद्देवं वापी भवतु नः पुरे 024c शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः 025a स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः 025c ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो 026a येन रूपेण दैत्यस्तु येन वेषेण चैव ह 026c मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् 027a तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे 027c महता तपसा सिद्धाः सुराणां भयवर्धनाः 027e न तेषामभवद्राजन्क्षयो युद्धे कथञ्चन 028a ततस्ते लोभमोहाभ्यामभिभूता विचेतसः 028c निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् 029a विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा 029c विचेरुः स्वेन कामेन वरदानेन दर्पिताः 030a देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् 030c ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा 030e व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः 031a ते देवाः सहिताः सर्वे पितामहमरिन्दम 031c अभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः 032a ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य च 032c वधोपायमपृच्छन्त भगवन्तं पितामहम् 033a श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह 033c असुराश्च दुरात्मानस्ते चापि विबुधद्विषः 033e अपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत 034a अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः 034c अधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः 035a ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् 035c योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान् 036a इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः 036c ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः 037a तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम् 037c ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः 038a तुष्टुवुर्वाग्भिरर्थ्याभिर्भयेष्वभयकृत्तमम् 038c सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना 039a तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनः 039c यः साङ्ख्यमात्मनो वेद यस्य चात्मा वशे सदा 040a ते तं ददृशुरीशानं तेजोराशिमुमापतिम् 040c अनन्यसदृशं लोके व्रतवन्तमकल्मषम् 041a एकं च भगवन्तं ते नानारूपमकल्पयन् 041c आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि 041e परस्परस्य चापश्यन्सर्वे परमविस्मिताः 042a सर्वभूतमयं चेशं तमजं जगतः पतिम् 042c देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः 043a तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शङ्करः 043c ब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत 044a त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसः 044c नमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम् 045a नमो देवातिदेवाय धन्विने चातिमन्यवे 045c प्रजापतिमखघ्नाय प्रजापतिभिरीड्यसे 046a नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवे 046c विलोहिताय रुद्राय नीलग्रीवाय शूलिने 047a अमोघाय मृगाक्षाय प्रवरायुधयोधिने 047c दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे 048a ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे 048c तपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे 049a कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे 049c प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने 050a वनस्पतीनां पतये नराणां पतये नमः 050c गवां च पतये नित्यं यज्ञानां पतये नमः 051a नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे 051c मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः 052a ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान् 052c प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः 053a पितृदेवर्षिसङ्घेभ्यो वरे दत्ते महात्मना 053c सत्कृत्य शङ्करं प्राह ब्रह्मा लोकहितं वचः 054a तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम् 054c मयाधितिष्ठता दत्तो दानवेभ्यो महान्वरः 055a तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति 055c त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे 056a स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् 056c कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत् 057 श्रीभगवानुवाच 057a हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः 057c न त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम् 058a ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा 058c जयध्वं युधि ताञ्शत्रून्सङ्घातो हि महाबलः 059 देवा ऊचुः 059a अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव च 059c तेषामिति ह मन्यामो दृष्टतेजोबला हि ते 060 भगवानुवाच 060a वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः 060c मम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान् 061 देवा ऊचुः 061a बिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वर 061c सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् 062 दुर्योधन उवाच 062a ततस्तथेति देवेशस्तैरुक्तो राजसत्तम 062c अर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत् 063a स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः 063c महादेव इति ख्यातस्तदाप्रभृति शङ्करः 064a ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम् 064c हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः 065a ते यूयं मे रथं चैव धनुर्बाणं तथैव च 065c पश्यध्वं यावदद्यैतान्पातयामि महीतले 066 देवा ऊचुः 066a मूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततः 066c रथं ते कल्पयिष्याम देवेश्वर महौजसम् 067a तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् 067c ततो विबुधशार्दूलास्तं रथं समकल्पयन् 068a वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् 068c सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा 069a मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीः 069c दिशश्च प्रदिशश्चैव परिवारं रथस्य हि 070a अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाः 070c धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् 070e ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः 071a सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे 071c पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे 072a दश नागपतीनीषां धृतराष्ट्रमुखान्दृढाम् 072c द्यां युगं युगचर्माणि संवर्तकबलाहकान् 073a शम्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च 073c ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् 074a सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान् 074c सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् 074e योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम् 075a कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः 075c अधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती 076a नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः 076c विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् 077a एवं तस्मिन्महाराज कल्पिते रथसत्तमे 077c देवैर्मनुजशार्दूल द्विषतामभिमर्दने 078a स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे 078c रथयष्टिं वियत्कृष्टां स्थापयामास गोवृषम् 079a ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः 079c परिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः 080a अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः 080c ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः 081a इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः 081c दिव्या वाचश्च विद्याश्च परिपार्श्वचराः कृताः 082a तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव च 082c ओङ्कारश्च मुखे राजन्नतिशोभाकरोऽभवत् 083a विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः 083c तस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा 084a इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च 084c अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् 085a विष्णुश्चात्मा भगवतो भवस्यामिततेजसः 085c तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते 086a तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः 086c भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् 087a स नीललोहितो धूम्रः कृत्तिवासा भयङ्करः 087c आदित्यायुतसङ्काशस्तेजोज्वालावृतो ज्वलन् 088a दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः 088c नित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान् 089a प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतः 089c विभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः 090a तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् 090c जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम् 091a दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी 091c बाणमादत्त तं दिव्यं सोमविष्ण्वग्निसम्भवम् 092a तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोः 092c पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम 093a तमास्थाय महादेवस्त्रासयन्दैवतान्यपि 093c आरुरोह तदा यत्तः कम्पयन्निव रोदसी 094a स शोभमानो वरदः खड्गी बाणी शरासनी 094c हसन्निवाब्रवीद्देवो सारथिः को भविष्यति 095a तमब्रुवन्देवगणा यं भवान्सन्नियोक्ष्यते 095c स भविष्यति देवेश सारथिस्ते न संशयः 096a तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः 096c तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य माचिरम् 097a एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना 097c गत्वा पितामहं देवं प्रसाद्यैवं वचोऽब्रुवन् 098a देव त्वयेदं कथितं त्रिदशारिनिबर्हणम् 098c तथा च कृतमस्माभिः प्रसन्नो वृषभध्वजः 099a रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः 099c सारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे 100a तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम 100c सफलां तां गिरं देव कर्तुमर्हसि नो विभो 101a एवमस्मासु हि पुरा भगवन्नुक्तवानसि 101c हितं कर्तास्मि भवतामिति तत्कर्तुमर्हसि 102a स देव युक्तो रथसत्तमो नो दुरावरो द्रावणः शात्रवाणाम् 102c पिनाकपाणिर्विहितोऽत्र योद्धा विभीषयन्दानवानुद्यतोऽसौ 103a तथैव वेदाश्चतुरो हयाग्र्या धरा सशैला च रथो महात्मन् 103c नक्षत्रवंशोऽनुगतो वरूथे यस्मिन्योद्धा सारथिनाभिरक्ष्यः 104a तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् 104c तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च 104e कवचानि च शस्त्राणि कार्मुकं च पितामह 105a त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् 105c त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभो 105e सारथ्ये तूर्णमारोह संयच्छ परमान्हयान् 106a इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् 106c देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् 107 ब्रह्मोवाच 107a नात्र किञ्चिन्मृषा वाक्यं यदुक्तं वो दिवौकसः 107c संयच्छामि हयानेष युध्यतो वै कपर्दिनः 108a ततः स भगवान्देवो लोकस्रष्टा पितामहः 108c सारथ्ये कल्पितो देवैरीशानस्य महात्मनः 109a तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजिते 109c शिरोभिरगमंस्तूर्णं ते हया वातरंहसः 110a महेश्वरे त्वारुहति जानुभ्यामगमन्महीम् 111a अभीशून्हि त्रिलोकेशः सङ्गृह्य प्रपितामहः 111c तानश्वांश्चोदयामास मनोमारुतरंहसः 112a ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति 112c साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत 113a याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः 113c पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे 114a ततस्तांश्चोदयामास वायुवेगसमाञ्जवे 114c येन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम् 115a अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् 115c युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् 116a तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुके 116c पुराणि तानि कालेन जग्मुरेकत्वतां तदा 117a एकीभावं गते चैव त्रिपुरे समुपागते 117c बभूव तुमुलो हर्षो दैवतानां महात्मनाम् 118a ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः 118c जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः 119a ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् 119c अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः 120a स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः 120c त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति 120e तत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे 121a एवं तत्त्रिपुरं दग्धं दानवाश्चाप्यशेषतः 121c महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा 122a स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः 122c मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् 123a ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयः 123c तुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम् 124a तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् 124c कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः 125a यथैव भगवान्ब्रह्मा लोकधाता पितामहः 125c संयच्छ त्वं हयानस्य राधेयस्य महात्मनः 126a त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च विशेषतः 126c विशिष्टो राजशार्दूल नास्ति तत्र विचारणा 127a युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ 127c तस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान् 128a यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् 128c प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् 128e त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः 129a इमं चाप्यपरं भूय इतिहासं निबोध मे 129c पितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित् 130a श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् 130c कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा 131a भार्गवाणां कुले जातो जमदग्निर्महातपाः 131c तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः 132a स तीव्रं तप आस्थाय प्रसादयितवान्भवम् 132c अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः 133a तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च 133c हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः 134 ईश्वर उवाच 134a राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम् 134c कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि 135a दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि 135c अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव 136a इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना 136c प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् 137a यदा जानासि देवेश पात्रं मामस्त्रधारणे 137c तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति 138 दुर्योधन उवाच 138a ततः स तपसा चैव दमेन नियमेन च 138c पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः 139a आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदा 139c प्रसन्नश्च महादेवो भार्गवस्य महात्मनः 140a अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः 140c भक्तिमानेष सततं मयि रामो दृढव्रतः 141a एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः 141c देवतानां पितॄणां च समक्षमरिसूदनः 142a एतस्मिन्नेव काले तु दैत्या आसन्महाबलाः 142c तैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः 143a ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः 143c चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते 144a अभिगम्य ततो देवा महेश्वरमथाब्रुवन् 144c प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति 145a प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् 145c रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः 146a रिपून्भार्गव देवानां जहि सर्वान्समागतान् 146c लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च 147 राम उवाच 147a अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वर 147c निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् 148 ईश्वर उवाच 148a गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान् 148c विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् 149 दुर्योधन उवाच 149a एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः 149c रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति 150a अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान् 150c वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः 151a स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः 151c संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत 152a प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै 152c वरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने 153a उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना 153c निपातात्तव शस्त्राणां शरीरे याभवद्रुजा 154a तया ते मानुषं कर्म व्यपोढं भृगुनन्दन 154c गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम् 155a ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् 155c लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम् 156a अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः 156c एवमेतत्पुरावृत्तं तदा कथितवानृषिः 157a भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मने 157c कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना 158a वृजिनं हि भवेत्किञ्चिद्यदि कर्णस्य पार्थिव 158c नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः 159a नापि सूतकुले जातं कर्णं मन्ये कथञ्चन 159c देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् 160a सकुण्डलं सकवचं दीर्घबाहुं महारथम् 160c कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति 161a पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ 161c वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम्