001 सञ्जय उवाच 001a पुत्रस्तव महाराज मद्रराजमिदं वचः 001c विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत् 002a सत्यव्रत महाभाग द्विषतामघवर्धन 002c मद्रेश्वर रणे शूर परसैन्यभयङ्कर 003a श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर 003c यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम् 004a तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि 004c सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि 005a अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः 005c स पातु सर्वतः कर्णं भवान्ब्रह्मेव शङ्करम् 006a पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः 006c तथा त्वमपि राधेयं सर्वतः परिपालय 007a भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् 007c शकुनिः सौबलो द्रौणिरहमेव च नो बलम् 007e एषामेव कृतो भागो नवधा पृतनापते 008a नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः 008c ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः 009a वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ 009c कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ 010a तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि 010c अस्मदीयाश्च बहवः स्वर्गायोपगता रणे 010e त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः 011a कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः 011c भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः 011e तस्मिञ्जयाशा विपुला मम मद्रजनाधिप 012a पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः 012c तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव 012e यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते 013a पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून् 013c अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि 014a भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते 014c तं भागं सह कर्णेन युगपन्नाशयाहवे 015a सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष 015c तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः 016a रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् 016c सन्निपातः समो लोके भवतोर्नास्ति कश्चन 017a यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम् 017c तथा भवान्परित्रातु कर्णं वैकर्तनं रणे 018a त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति 018c देवतानामपि रणे सशक्राणां महीपते 018e किं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम 019a दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः 019c त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः 020a क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः 020c कुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम् 021a अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे 021c यन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति 022a अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि 022c न चाहं युधि राधेयं गणये तुल्यमात्मना 023a आदिश्यतामभ्यधिको ममांशः पृथिवीपते 023c तमहं समरे हत्वा गमिष्यामि यथागतम् 024a अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दन 024c पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून् 025a न चाभिकामान्कौरव्य विधाय हृदये पुमान् 025c अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः 026a युधि चाप्यवमानो मे न कर्तव्यः कथञ्चन 026c पश्य हीमौ मम भुजौ वज्रसंहननोपमौ 027a धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् 027c रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः 027e गदां च पश्य गान्धारे हेमपट्टविभूषिताम् 028a दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान् 028c शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव 029a तन्मामेवंविधं जानन्समर्थमरिनिग्रहे 029c कस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप 030a न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसि 030c न हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे 031a यो ह्यभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम् 031c वशे पापीयसो धत्ते तत्पापमधरोत्तरम् 032a ब्राह्मणा ब्रह्मणा सृष्टा मुखात्क्षत्रमथोरसः 032c ऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिः 032e तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः 033a अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत 033c गोप्तारः सङ्ग्रहीतारो दातारः क्षत्रियाः स्मृताः 034a याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः 034c लोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि 035a कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशः 035c ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः 036a ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः 036c न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ 037a सोऽहं मूर्धावसिक्तः सन्राजर्षिकुलसम्भवः 037c महारथः समाख्यातः सेव्यः स्तव्यश्च बन्दिनाम् 038a सोऽहमेतादृशो भूत्वा नेहारिकुलमर्दन 038c सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे 039a अवमानमहं प्राप्य न योत्स्यामि कथञ्चन 039c आपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम् 040a एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनः 040c उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः 041a प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव 041c अब्रवीन्मधुरं वाक्यं साम सर्वार्थसाधकम् 042a यथा शल्य त्वमात्थेदमेवमेतदसंशयम् 042c अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर 043a न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथञ्चन 043c न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् 044a ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाः 044c तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम 045a शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानद 045c तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते 046a यदेव व्याहृतं पूर्वं भवता भूरिदक्षिण 046c तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे 047a न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् 047c वृणीमस्त्वां हयाग्र्याणां यन्तारमिति संयुगे 048a यथा ह्यभ्यधिकं कर्णं गुणैस्तात धनञ्जयात् 048c वासुदेवादपि त्वां च लोकोऽयमिति मन्यते 049a कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ 049c भवानप्यधिकः कृष्णादश्वयाने बले तथा 050a यथाश्वहृदयं वेद वासुदेवो महामनाः 050c द्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः 051 शल्य उवाच 051a यन्मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव 051c विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि 052a एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः 052c युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे 053a समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति 053c उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य सन्निधौ 054 सञ्जय उवाच 054a तथेति राजन्पुत्रस्ते सह कर्णेन भारत 054c अब्रवीन्मद्रराजस्य सुतं भरतसत्तम