001 धृतराष्ट्र उवाच 001a स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः 001c न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः 002a पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् 002c एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् 003a एको निवातकवचानवधीद्दिव्यकार्मुकः 003c एकः किरातरूपेण स्थितं शर्वमयोधयत् 004a एकोऽभ्यरक्षद्भरतानेको भवमतोषयत् 004c तेनैकेन जिताः सर्वे मदीया उग्रतेजसः 004e ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत् 005 सञ्जय उवाच 005a हतप्रहतविध्वस्ता विवर्मायुधवाहनाः 005c दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः 006a शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः 006c भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः 007a तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् 007c करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् 008a यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा 008c स बोधयति चाप्येनं प्राप्तकालमधोक्षजः 009a सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः 009c श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते 010a एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् 010c सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः 011a तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् 011c प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् 012a अथ प्रतीपकर्तारं सततं विजितात्मनाम् 012c सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा 013a पुरन्दरसमं युद्धे मरुद्गणसमं बले 013c कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः 013e सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव 014 धृतराष्ट्र उवाच 014a यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा 014c अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम् 015a कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः 015c कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय 015e कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् 016a कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान् 016c कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम् 016e तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः 017a दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम् 017c पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे 018a कर्णमाश्रित्य सङ्ग्रामे दर्पो दुर्योधने पुनः 018c जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् 019a अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे 019c नातरद्रभसः कर्णो दैवं नूनं परायणम् 019e अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते 020a अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम् 020c सहिष्यामि सुघोराणि शल्यभूतानि सञ्जय 021a सौबलं च तथा तात नीतिमानिति मन्यते 022a युद्धेषु नाम दिव्येषु वर्तमानेषु सञ्जय 022c अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान् 023a न पाण्डवानां समरे कश्चिदस्ति निवारकः 023c स्त्रीमध्यमिव गाहन्ति दैवं हि बलवत्तरम् 024 सञ्जय उवाच 024a अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च 024c तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति 025a तदिदं तव कार्यं तु दूरप्राप्तं विजानता 025c न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे 026a उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः 026c गृह्णीषे न च तन्मोहात्पाण्डवेषु विशाम्पते 027a त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु 027c त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः 028a तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ 028c शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत 029a प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् 029c समेत्य च महाबाहुर्दुर्योधनमभाषत 030a अद्य राजन्समेष्यामि पाण्डवेन यशस्विना 030c हनिष्यामि च तं वीरं स वा मां निहनिष्यति 031a बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव 031c नाभूत्समागमो राजन्मम चैवार्जुनस्य च 032a इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशाम्पते 032c अनिहत्य रणे पार्थं नाहमेष्यामि भारत 033a हतप्रवीरे सैन्येऽस्मिन्मयि चैव स्थिते युधि 033c अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम् 034a ततः श्रेयस्करं यत्ते तन्निबोध जनेश्वर 034c आयुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च 035a कायस्य महतो भेदे लाघवे दूरपातने 035c सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः 036a सर्वायुधमहामात्रं विजयं नाम तद्धनुः 036c इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा 037a येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः 037c यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश 037e तद्भार्गवाय प्रायच्छच्छक्रः परमसम्मतम् 038a तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम् 038c येन योत्स्ये महाबाहुमर्जुनं जयतां वरम् 038e यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् 039a धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते 039c त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता 040a धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः 040c तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम् 041a अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् 041c निहत्य समरे वीरमर्जुनं जयतां वरम् 042a सपर्वतवनद्वीपा हतद्विड्भूः ससागरा 042c पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव 043a नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः 043c सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा 044a न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा 044c अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् 045a ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी 045c तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि 046a विजयं च महद्दिव्यं ममापि धनुरुत्तमम् 046c तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव 047a मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे 047c रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः 048a अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः 048c अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः 048e ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयङ्करः 049a कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति 049c एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् 050a अयं तु सदृशो वीरः शल्यः समितिशोभनः 050c सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् 051a तस्य मे सारथिः शल्यो भवत्वसुकरः परैः 051c नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे 052a रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः 052c आयान्तु पश्चात्सततं मामेव भरतर्षभ 053a एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् 053c शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् 054a यथाश्वहृदयं वेद दाशार्हः परवीरहा 054c तथा शल्योऽपि जानीते हयानां वै महारथः 055a बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन 055c तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः 056a तथा शल्यसमो नास्ति हययाने ह कश्चन 056c सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम 057a एतत्कृतं महाराज त्वयेच्छामि परन्तप 057c एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति 058a ततो द्रष्टासि समरे यत्करिष्यामि भारत 058c सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान् 059 दुर्योधन उवाच 059a सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे 059c सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज 060a नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते 060c अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः 061 सञ्जय उवाच 061a एवमुक्त्वा महाराज तव पुत्राः प्रतापवान् 061c अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः