001 सञ्जय उवाच 001a ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः 001c पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम् 002a द्विरदरथनराश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रपातैः 002c द्विरदरथपदातिसार्थवाहाः परिपतिताभिमुखाः प्रजह्रिरे ते 003a शरपरशुवरासिपट्टिशैरिषुभिरनेकविधैश्च सादिताः 003c द्विरदरथहया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः 004a कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः 004c रुचिरमुकुटकुण्डलैर्मही पुरुषशिरोभिरवस्तृता बभौ 005a परिघमुसलशक्तितोमरैर्नखरभुशुण्डिगदाशतैर्द्रुताः 005c द्विरदनरहयाः सहस्रशो रुधिरनदीप्रवहास्तदाभवन् 006a प्रहतनररथाश्वकुञ्जरं प्रतिभयदर्शनमुल्बणं तदा 006c तदहितनिहतं बभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये 007a अथ तव नरदेव सैनिकास्तव च सुताः सुरसूनुसन्निभाः 007c अमितबलपुरःसरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः 008a तदतिरुचिरभीममाबभौ पुरुषवराश्वरथद्विपाकुलम् 008c लवणजलसमुद्धतस्वनं बलममरासुरसैन्यसन्निभम् 009a सुरपतिसमविक्रमस्ततस्त्रिदशवरावरजोपमं युधि 009c दिनकरकिरणप्रभैः पृषत्कै रवितनयोऽभ्यहनच्छिनिप्रवीरम् 010a तमपि सरथवाजिसारथिं शिनिवृषभो विविधैः शरैस्त्वरन् 010c भुजगविषसमप्रभै रणे पुरुषवरं समवास्तृणोत्तदा 011a शिनिवृषभशरप्रपीडितं तव सुहृदो वसुषेणमभ्ययुः 011c त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह 012a तमुदधिनिभमाद्रवद्बली त्वरिततरैः समभिद्रुतं परैः 012c द्रुपदसुतसखस्तदाकरोत्पुरुषरथाश्वगजक्षयं महत् 013a अथ पुरुषवरौ कृताह्निकौ भवमभिपूज्य यथाविधि प्रभुम् 013c अरिवधकृतनिश्चयौ द्रुतं तव बलमर्जुनकेशवौ सृतौ 014a जलदनिनदनिस्वनं रथं पवनविधूतपताककेतनम् 014c सितहयमुपयान्तमन्तिकं हृतमनसो ददृशुस्तदारयः 015a अथ विस्फार्य गाण्डीवं रणे नृत्यन्निवार्जुनः 015c शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा 016a रथान्विमानप्रतिमान्सज्जयन्त्रायुधध्वजान् 016c ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् 017a गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् 017c सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् 018a तमन्तकमिव क्रुद्धमनिवार्यं महारथम् 018c दुर्योधनोऽभ्ययादेको निघ्नन्बाणैः पृथग्विधैः 019a तस्यार्जुनो धनुः सूतं केतुमश्वांश्च सायकैः 019c हत्वा सप्तभिरेकैकं छत्रं चिच्छेद पत्रिणा 020a नवमं च समासाद्य व्यसृजत्प्रतिघातिनम् 020c दुर्योधनायेषुवरं तं द्रौणिः सप्तधाच्छिनत् 021a ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्ववराञ्शरैः 021c कृपस्यापि तथात्युग्रं धनुश्चिच्छेद पाण्डवः 022a हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वं तथावधीत् 022c दुःशासनस्येषुवरं छित्त्वा राधेयमभ्ययात् 023a अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः 023c विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः 024a अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः 024c नवत्या नवभिश्चोग्रैः शतेन पुनरार्दयत् 025a ततः प्रवीराः पाण्डूनां सर्वे कर्णमपीडयन् 025c युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः 026a उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च 026c चेदिकारूषमत्स्यानां केकयानां च यद्बलम् 026e चेकितानश्च बलवान्धर्मराजश्च सुव्रतः 027a एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः 027c परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् 027e भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे वृताः 028a तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः 028c अपोवाह स्म तान्सर्वान्द्रुमान्भङ्क्त्वेव मारुतः 029a रथिनः समहामात्रान्गजानश्वान्ससादिनः 029c शरव्रातांश्च सङ्क्रुद्धो निघ्नन्कर्णो व्यदृश्यत 030a तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा 030c विशस्त्रक्षतदेहं च प्राय आसीत्पराङ्मुखम् 031a अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वयम् 031c दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः 032a मुसलानीव निष्पेतुः परिघा इव चेषवः 032c शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि वापरे 033a तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् 033c निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः 034a निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः 034c वध्यमानाः शरैरन्ये तदा भीताः प्रदुद्रुवुः 035a एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम् 035c गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् 036a तमसा च महाराज रजसा च विशेषतः 036c न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाशुभम् 037a ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत 037c अपयानं ततश्चक्रुः सहिताः सर्ववाजिभिः 038a कौरवेषु च यातेषु तदा राजन्दिनक्षये 038c जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः 039a वादित्रशब्दैर्विविधैः सिंहनादैश्च नर्तितैः 039c परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ 040a कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते 040c आशिषः पाण्डवेयेषु प्रायुज्यन्त नरेश्वराः 041a ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः 041c निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः 042a यक्षरक्षःपिशाचाश्च श्वापदानि च सङ्घशः 042c जग्मुरायोधनं घोरं रुद्रस्यानर्तनोपमम्