001 धृतराष्ट्र उवाच 001a अतितीव्राणि दुःखानि दुःसहानि बहूनि च 001c तवाहं सञ्जयाश्रौषं पुत्राणां मम सङ्क्षयम् 002a तथा तु मे कथयसे यथा युद्धं तु वर्तते 002c न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः 003a दुर्योधनस्तु विरथः कृतस्तत्र महारणे 003c धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् 004a अपराह्णे कथं युद्धमभवल्लोमहर्षणम् 004c तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय 005 सञ्जय उवाच 005a संसक्तेषु च सैन्येषु युध्यमानेषु भागशः 005c रथमन्यं समास्थाय पुत्रस्तव विशाम्पते 006a क्रोधेन महताविष्टः सविषो भुजगो यथा 006c दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् 006e उवाच सूत त्वरितं याहि याहीति भारत 007a अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः 007c ध्रियमाणेन छत्रेण राजा राजति दंशितः 008a स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् 008c युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे 009a ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः 009c सारथिं चोदयामास याहि यत्र सुयोधनः 010a तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ 010c समेत्य च महावीर्यौ सन्नद्धौ युद्धदुर्मदौ 010e ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे 011a ततो दुर्योधनो राजा धर्मशीलस्य मारिष 011c शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे 011e तं नामृष्यत सङ्क्रुद्धो व्यवसायं युधिष्ठिरः 012a अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः 012c अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे 013a दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च 013c अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् 014a तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम् 014c सिंहाविव सुसङ्क्रुद्धौ परस्परजिगीषया 015a अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव 015c अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ 016a ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ 016c विरेजतुर्महाराज पुष्पिताविव किंशुकौ 017a ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः 017c तलयोश्च तथा शब्दान्धनुषोश्च महाहवे 018a शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ 018c अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् 019a ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः 019c आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः 020a प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् 020c पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः 021a ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत 021c सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा 022a तामापतन्तीं सहसा धर्मराजः शिलाशितैः 022c त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः 023a निपपात ततः साथ हेमदण्डा महाघना 023c निपतन्ती महोल्केव व्यराजच्छिखिसन्निभा 024a शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते 024c नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् 025a सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः 025c दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः 026a समाधत्त च तं बाणं धनुष्युग्रं महाबलः 026c चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी 027a स तु बाणः समासाद्य तव पुत्रं महारथम् 027c व्यमोहयत राजानं धरणीं च जगाम ह 028a ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः 028c विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् 029a तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् 029c धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे 029e दीप्यमानां महावेगां महोल्कां ज्वलितामिव 030a रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे 030c भृशं संविग्नहृदयः पपात च मुमोह च 031a ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् 031c प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे 032a भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् 032c अभिदुद्राव वेगेन कृतवर्माणमाहवे 032e एवं तदभवद्युद्धं त्वदीयानां परैः सह