001 सञ्जय उवाच 001a श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् 001c यथा वायुः समासाद्य तूलराशिं समन्ततः 002a प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह 002c शाल्वाः संशप्तकाश्चैव नारायणबलं च यत् 003a सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः 003c सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत 004a त्रिगर्तराजः समरे भ्रातृभिः परिवारितः 004c पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि 005a ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे 005c अभ्यद्रवन्त समरे वार्योघा इव सागरम् 006a ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः 006c अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः 007a ते वध्यमानाः समरे नाजहुः पाण्डवं तदा 007c दह्यमाना यथा राजञ्शलभा इव पावकम् 008a सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् 008c मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः 009a मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः 009c शत्रुञ्जयश्च विंशत्या सुशर्मा नवभिः शरैः 010a शत्रुञ्जयं च राजानं हत्वा तत्र शिलाशितैः 010c सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् 010e त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् 011a अथेतरान्महाराज यतमानान्महारथान् 011c पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् 012a सत्यसेनस्तु सङ्क्रुद्धस्तोमरं व्यसृजन्महत् 012c समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च 013a स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः 013c अयस्मयो महाचण्डो जगाम धरणीं तदा 014a माधवस्य तु विद्धस्य तोमरेण महारणे 014c प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशाम्पते 015a स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः 015c वाहयामास तानश्वान्सत्यसेनरथं प्रति 016a विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनञ्जयः 016c सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः 017a ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः 017c कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे 018a तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् 018c वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष 019a ततः शरशतैर्भूयः संशप्तकगणान्वशी 019c पातयामास सङ्क्रुद्धः शतशोऽथ सहस्रशः 020a ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः 020c मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः 020e सुशर्माणं च सङ्क्रुद्धो जत्रुदेशे समार्दयत् 021a ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम् 021c शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश 022a अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः 022c ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः 022e ततः शरसहस्राणि प्रादुरासन्विशाम्पते 023a ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे 023c रथानां सपताकानां तूणीराणां शरैः सह 024a अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह 024c कूबराणां वरूथानां पृषत्कानां च संयुगे 025a अश्मनां पततां चैव प्रासानामृष्टिभिः सह 025c गदानां परिघाणां च शक्तीनां तोमरैः सह 026a शतघ्नीनां सचक्राणां भुजानामूरुभिः सह 026c कण्ठसूत्राङ्गदानां च केयूराणां च मारिष 027a हाराणामथ निष्काणां तनुत्राणां च भारत 027c छत्राणां व्यजनानां च शिरसां मुकुटैः सह 027e अश्रूयत महाञ्शब्दस्तत्र तत्र विशाम्पते 028a सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च 028c शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे 029a सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च 029c शरीराणि व्यदृश्यन्त हतानां च महीतले 029e गन्धर्वनगराकारं घोरमायोधनं तदा 030a निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः 030c हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही 030e अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः 031a नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः 031c निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत् 032a आ तुम्बादवसीदन्ति रथचक्राणि मारिष 032c रणे विचरतस्तस्य तस्मिल्ँलोहितकर्दमे 033a सीदमानानि चक्राणि समूहुस्तुरगा भृशम् 033c श्रमेण महता युक्ता मनोमारुतरंहसः 034a वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना 034c प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे 035a ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् 035c रराज स महाराज विधूमोऽग्निरिव ज्वलन् 036a युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् 036c स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् 037a तमापतन्तं सहसा तव पुत्रं महाबलम् 037c धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत् 038a सा च तं प्रतिविव्याध नवभिर्निशितैः शरैः 038c सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् 039a ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान् 039c दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् 040a चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः 040c पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत् 041a षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् 041c अष्टमेन तथा खड्गं पातयामास भूतले 041e पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् 042a हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव 042c उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत 043a तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः 043c अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् 044a अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् 044c अभ्ययुः समरे राजंस्ततो युद्धमवर्तत 045a अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे 045c क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते 045e यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह 046a नरा नरैः समाजग्मुर्वारणा वरवारणैः 046c रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः 047a द्वन्द्वान्यासन्महाराज प्रेक्षणीयानि संयुगे 047c विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च 048a अयुध्यन्त महावेगाः परस्परवधैषिणः 048c अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः 048e न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन 049a मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् 049c तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत 050a रथी नागं समासाद्य विचरन्रणमूर्धनि 050c प्रेषयामास कालाय शरैः सन्नतपर्वभिः 051a नागा हयान्समासाद्य विक्षिपन्तो बहूनथ 051c द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा 052a विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः 052c विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् 053a साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे 053c अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तथा 054a पादातैराहता नागा विवरेषु समन्ततः 054c चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश 055a पदातीनां तु सहसा प्रद्रुतानां महामृधे 055c उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे 056a निमित्तं मन्यमानास्तु परिणम्य महागजाः 056c जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च 057a प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे 057c निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः 058a निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः 058c रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि 059a सरथं सादिनं तत्र अपरे तु महागजाः 059c भूमावमृद्नन्वेगेन सवर्माणं पताकिनम् 060a रथं नागाः समासाद्य धुरि गृह्य च मारिष 060c व्याक्षिपन्सहसा तत्र घोररूपे महामृधे 061a नाराचैर्निहतश्चापि निपपात महागजः 061c पर्वतस्येव शिखरं वज्रभग्नं महीतले 062a योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि 062c केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्बिभिदुः सह 063a उद्यम्य च भुजावन्यो निक्षिप्य च महीतले 063c पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः 064a मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा 064c जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् 065a मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत 065c तथा केशग्रहश्चोग्रो बाहुयुद्धं च केवलम् 066a समासक्तस्य चान्येन अविज्ञातस्तथापरः 066c जहार समरे प्राणान्नानाशस्त्रैरनेकधा 067a संसक्तेषु च योधेषु वर्तमाने च सङ्कुले 067c कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः 068a लोहितैः सिच्यमानानि शस्त्राणि कवचानि च 068c महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे 069a एवमेतन्महायुद्धं दारुणं भृशसङ्कुलम् 069c उन्मत्तरङ्गप्रतिमं शब्देनापूरयज्जगत् 070a नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः 070c योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः 071a स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान् 071c उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत 072a रथैर्भग्नैर्महाराज वारणैश्च निपातितैः 072c हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः 073a अगम्यरूपा पृथिवी मांसशोणितकर्दमा 073c क्षणेनासीन्महाराज क्षतजौघप्रवर्तिनी 074a पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनञ्जयः 074c भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः 075a एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः 075c अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जयम्