001 सञ्जय उवाच 001a युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् 001c उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 002a युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा 002c उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् 003a उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे 003c क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना 004a तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् 004c अन्यदादत्त सुमहच्चापं संरक्तलोचनः 005a शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ 005c सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत 006a उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः 006c अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् 007a स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः 007c पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः 008a ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः 008c उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे 009a उलूकस्तस्य भल्लेन तैलधौतेन मारिष 009c शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम 010a जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः 010c सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् 011a तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ 011c पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः 012a शतानीकं महाराज श्रुतकर्मा सुतस्तव 012c व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमम् 013a हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः 013c गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष 014a सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् 014c पपात धरणीं तूर्णं दारयन्तीव भारत 015a तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ 015c अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् 016a पुत्रस्तु तव सम्भ्रान्तो विवित्सो रथमाविशत् 016c शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः 017a सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः 017c नाकम्पयत संरब्धो वार्योघ इव पर्वतम् 018a सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् 018c शरैरनेकसाहस्रैश्छादयामास भारत 019a ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः 019c लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे 020a निवार्य समरे चापि शरांस्तान्निशितैः शरैः 020c आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः 021a तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः 021c स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः 022a हताश्वो विरथश्चैव छिन्नधन्वा च मारिष 022c धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत 022e व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् 023a छादयामासुरथ ते तव स्यालस्य तं रथम् 023c पतङ्गानामिव व्राताः शरव्राता महारथम् 024a रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः 024c प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः 025a तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः 025c सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् 025e रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् 026a तस्य तीक्ष्णैर्महावेगैर्भल्लैः सन्नतपर्वभिः 026c व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः 027a स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन् 027c वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् 028a भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् 028c कालोपमं ततो मेने सुतसोमस्य धीमतः 029a सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः 029c चतुर्विंशन्महाराज शिक्षाबलसमन्वितः 030a सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् 030c तानापतत एवाशु चिच्छेद परमासिना 031a ततः क्रुद्धो महाराज सौबलः परवीरहा 031c प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् 032a चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च 032c दर्शयल्ँलाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः 033a तस्य सञ्चरतो राजन्मण्डलावर्तने तदा 033c क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् 034a स च्छिन्नः सहसा भूमौ निपपात महानसिः 034c अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा 035a छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् 035c प्राविध्यत ततः शेषं सुतसोमो महारथः 036a स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः 036c पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः 036e सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् 037a सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् 037c अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् 038a तत्र नादो महानासीत्पाण्डवानां विशाम्पते 038c सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् 039a तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च 039c द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना 040a यथा दैत्यचमूं राजन्देवराजो ममर्द ह 040c तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् 041a धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे 041c यथा दृप्तं वने नागं शरभो वारयेद्युधि 042a निरुद्धः पार्षतस्तेन गौतमेन बलीयसा 042c पदात्पदं विचलितुं नाशक्नोत्तत्र भारत 043a गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति 043c वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे 044a तत्रावोचन्विमनसो रथिनः सादिनस्तथा 044c द्रोणस्य निधने नूनं सङ्क्रुद्धो द्विपदां वरः 045a शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः 045c अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् 046a अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् 046c अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् 047a यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् 047c गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे 048a आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि 048c अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः 049a पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते 049c इत्येवं विविधा वाचस्तावकानां परैः सह 050a विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप 050c पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु 051a स वध्यमानः समरे गौतमेन महात्मना 051c कर्तव्यं न प्रजानाति मोहितः परमाहवे 052a तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत 052c ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन 053a दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः 053c प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः 054a व्यावर्तये तत्र रथं नदीवेगमिवार्णवात् 054c अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः 055a धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः 055c मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते 056a वेपथुं च शरीरे मे रोमहर्षं च पश्य वै 056c वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः 057a अर्जुनं भीमसेनं वा समरे प्राप्य सारथे 057c क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः 058a ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् 058c यतो भीमो महेष्वासो युयुधे तव सैनिकैः 059a प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष 059c किरञ्शरशतान्येव गौतमोऽनुययौ तदा 060a शङ्खं च पूरयामास मुहुर्मुहुररिन्दमः 060c पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् 061a शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् 061c हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः 062a शिखण्डी च समासाद्य हृदिकानां महारथम् 062c पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् 063a कृतवर्मा तु सङ्क्रुद्धो भित्त्वा षष्टिभिराशुगैः 063c धनुरेकेन चिच्छेद हसन्राजन्महारथः 064a अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली 064c तिष्ठ तिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत 065a ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् 065c प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः 066a वितथांस्तान्समालक्ष्य पतितांश्च महीतले 066c क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली 067a अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् 067c अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् 068a कृतवर्मा तु सङ्क्रुद्धो मार्गणैः कृतविक्षतः 068c धनुरन्यत्समादाय समार्गणगणं प्रभो 068e शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् 069a स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह 069c शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः 070a तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ 070c अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव 071a अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ 071c रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः 072a कृतवर्मा महाराज पार्षतं निशितैः शरैः 072c रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः 073a ततोऽस्य समरे बाणं भोजः प्रहरतां वरः 073c जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः 074a स तेनाभिहतो राजन्मूर्छामाशु समाविशत् 074c ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः 075a अपोवाह रणात्तं तु सारथी रथिनां वरम् 075c हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनः पुनः 076a पराजिते ततः शूरे द्रुपदस्य सुते प्रभो 076c प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः